TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०३ - भाग १०

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


भाग १०
१०.०१
कर्म.उदक.मार्गम् उचितं रुन्धतः कुर्वतो_अनुचितं वा पूर्वः साहस.दण्डः, सेतु.कूप.पुण्य.स्थान.चैत्य.देव.आयतनानि च पर.भूमौ निवेशयतः ॥

१०.०२
पूर्व.अनुवृत्तं धर्म.सेतुम् आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस.दण्डः, श्रोतृऋणाम् उत्तमः, अन्यत्र भग्न.उत्सृष्टात् ॥

१०.०३
स्वाम्य् अभावे ग्रामाः पुण्य.शीला वा प्रतिकुर्युः ॥

१०.०४
पथि.प्रमाणं दुर्ग.निवेशे व्याख्यातम् ॥

१०.०५
क्षुद्र.पशु.मनुष्य.पथं रुन्धतो द्वादश.पणो दण्डः, महा.पशु.पथं चतुर्.विंशति.पणः, हस्ति.क्षेत्र.पथं चतुष्.पञ्चाशत्.पणः, सेतु.वन.पथं षट्.शतः, श्मशान.ग्राम.पथं द्विशतः, द्रोण.मुख.पथं पञ्च.शतः, स्थानीय.राष्ट्र.विवीत.पथं साहस्रः ॥

१०.०६
अतिकर्षणे च_एषां दण्ड.चतुर्था दण्डाः ॥

१०.०७
कर्षणे पूर्व.उक्ताः ॥

१०.०८
क्षेत्रिकस्य_अक्षिपतः क्षेत्रम् उपवासस्य वा त्यजतो बीज.काले द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

१०.०९
करदाः करदेष्व् आधानं विक्रयं वा कुर्युः, ब्रह्म.देयिका ब्रह्म.देयिकेषु ॥

१०.१०
अन्यथा पूर्वः साहस.दण्डः ॥

१०.११
करदस्य वा_अकरद.ग्रामं प्रविशतः ॥

१०.१२
करदं तु प्रविशतः सर्व.द्रव्येषु प्राकाम्यं स्यात्, अन्यत्र_अगारात् ॥

१०.१३
तद् अप्य् अस्मै दद्यात् ॥

१०.१४
अनादेयम् अकृषतो_अन्यः पञ्च.वर्षाण्य् उपभुज्य प्रयास.निष्क्रयेण दद्यात् ॥

१०.१५
अकरदाः परत्र वसन्तो भोगम् उपजीवेयुः ॥

१०.१६
ग्राम.अर्थेन ग्रामिकं व्रजन्तम् उपवासाः पर्यायेण_अनुगच्छेयुः ॥

१०.१७
अननुगच्छन्तः पण.अर्ध.पणिकं योजनं दद्युः ॥

१०.१८
ग्रामिकस्य ग्रामाद् अस्तेन.पारदारिकं निरस्यतश् चतुर्.विंशति.पणो दण्डः, ग्रामस्य_उत्तमः ॥

१०.१९
निरस्तस्य प्रवेशो ह्य् अभिगमेन व्याख्यातः ॥

१०.२०
स्तम्भैः समन्ततो ग्रामाद् धनुः.शत.अपकृष्टम् उपसालं कारयेत् ॥

१०.२१
पशु.प्रचार.अर्थं विवीतम् आलवनेन_उपजीवेयुः ॥

१०.२२
विवीतं भक्षयित्वा_अपसृतानाम् उष्ट्र.महिषाणां पादिकं रूपं गृह्णीयुः, गव.अश्व.खराणां च_अर्ध.पादिकम्, क्षुद्र.पशूनां षोडश.भागिकम् ॥

१०.२३
भक्षयित्वा निषण्णानाम् एत एव द्वि.गुणा दण्डाः, परिवसतां चतुर्.गुणाः ॥

१०.२४
ग्राम.देव.वृषा वा_अनिर्दश.अहा वा धेनुर् उक्षाणो गो.वृषाश् च_अदण्ड्याः ॥

१०.२५
सस्य.भक्षणे सस्य.उपघातं निष्पत्तितः परिसंख्याय द्वि.गुणं दापयेत् ॥

१०.२६
स्वामिनश् च_अनिवेद्य चारयतो द्वादश.पणो दण्दः, प्रमुञ्चतश् चतुर्.विंशति.पणः ॥

१०.२७
पालिनाम् अर्ध.दण्डाः ॥

१०.२८
तद् एव षण्ड.भक्षणे कुर्यात् ॥

१०.२९
वाट.भेदे द्वि.गुणः वेश्म.खल.वलय.गतानां च धान्यानां भक्षणे ॥

१०.३०
हिंसा.प्रतीकारं कुर्यात् ॥

१०.३१
अभय.वन.मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथा_अवध्यास् तथा प्रतिषेद्धव्याः ॥

१०.३२
पशवो रश्मि.प्रतोदाभ्यां वारयितव्याः ॥

१०.३३
तेषाम् अन्यथा हिंसायां दण्ड.पारुष्य.दण्डाः ॥

१०.३४
प्रार्थयमाना दृष्ट.अपराधा वा सर्व.उपायैर् नियन्तव्याः ॥ इति क्षेत्र.पथ.हिंसा ।

१०.३५
कर्षकस्य ग्रामम् अभ्युपेत्य_अकुर्वतो ग्राम एव_अत्ययं हरेत् ॥

१०.३६
कर्म.अकरणे कर्म.वेतन.द्वि.गुणम्, हिरण्य.अदाने प्रत्यंश.द्वि.गुणम्, भक्ष्य.पेय.अदाने च प्रहवणेषु द्वि.गुणम् अंशं दद्यात् ॥

१०.३७
प्रेक्षायाम् अनंशदः, स-स्व.जनो न प्रेक्षेत ॥

१०.३८
प्रच्छन्न.श्रवण.ईक्षणे च सर्व.हिते च कर्मणि निग्रहेण द्वि.गुणम् अंशं दद्यात् ॥

१०.३९
सर्व.हितम् एकस्य ब्रुवतः कुर्युर् आज्ञाम् ॥

१०.४०
अकरणे द्वादश.पणो दण्डः ॥

१०.४१
तं चेत् सम्भूय वा हन्युः पृथग् एषाम् अपराध.द्वि.गुणो दण्डः ॥

१०.४२
उपहन्तृषु विशिष्टः ॥

१०.४३
ब्राह्मणश् च_एषां ज्यैष्ठ्यं नियम्येत ॥

१०.४४
प्रहवणेषु च_एषां ब्राह्मणा न_अकामाः कुर्युः, अंशं च लभेरन् ॥

१०.४५
तेन देश.जाति.कुल.संघानां समयस्य_अनपाकर्म व्याख्यातम् ॥

१०.४६
राजा देश.हितान् सेतून् कुर्वतां पथि संक्रमान् ।

१०.४६
ग्राम.शोभाश् च रक्षाश् च तेषां प्रिय.हितं चरेत् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:21.9670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

राशि

  • m 
  • रास f  A sign of the zodiac. 
  • f  A heap. A sum. 
  • राशीस बसणें-लागणें Stand in inimical attitude against; hang upon assiduously in enforcement. 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site