अर्थशास्त्रम् अध्याय ०३ - भाग १९

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१९.०१
दण्ड.पारुष्यं स्पर्शनम् अवगूर्णं प्रहतम् इति ॥

१९.०२
नाभेर् अधः.कायं हस्त.पङ्क.भस्म.पांसुभिर् इति स्पृशतस् त्रि.पणो दण्डः, तैर् एव_अमेध्यैः पाद.ष्ठीविकाभ्यां च षट्.पणः, छर्दि.मूत्र.पुरीष.आदिभिर् द्वादश.पणः ॥

१९.०३
नाभेर् उपरि द्वि.गुणाः, शिरसि चतुर्.गुणाः समेषु ॥

१९.०४
विशिष्टेषु द्वि.गुणाः, हीनेष्व् अर्ध.दण्डाः, पर.स्त्रीषु द्वि.गुणाः, प्रमाद.मद.मोह.आदिभिर् अर्ध.दण्डाः ॥

१९.०५
पाद.वस्त्र.हस्त.केश.अवलम्बनेषु षट्.पण.उत्तरा दण्डाः ॥

१९.०६
पीडन.आवेष्टन.अञ्चन.प्रकर्षण.अध्यासनेषु पूर्वः साहस.दण्डः ॥

१९.०७
पातयित्वा_अपक्रामतो_अर्ध.दण्डः ॥

१९.०८
शूद्रो येन_अङ्गेन ब्राह्मणम् अभिहन्यात् तद् अस्यच्_छेदयेत् ॥

१९.०९
अवगूर्णे निष्क्रयः, स्पर्शे_अर्ध.दण्डः ॥

१९.१०
तेन चण्डाल.अशुचयो व्याख्यातः ॥

१९.११
हस्तेन_अवगूर्णे त्रि.पण.अवरो द्वादश.पण.परो दण्डः, पादेन द्वि.गुणः, दुःख.उत्पादनेन द्रव्येण पूर्वः साहस.दण्डः, प्राण.आबाधिकेन मध्यमः ॥

१९.१२
काष्ठ.लोष्ट.पाषाण.लोह.दण्ड.रज्जु.द्रव्याणाम् अन्यतमेन दुःखम् अशोणितम् उत्पादयतश् चतुर्विंशति.पणो दण्डः, शोणित.उत्पादने द्वि.गुणः, अन्यत्र दुष्ट.शोणितात् ॥

१९.१३
मृत.कल्पम् अशोणितं घ्नतो हस्त.पाद.पारञ्चिकं वा कुर्वतः पूर्वः साहस.दण्डः, पाणि.पाद.दन्त.भङ्गे कर्ण.नास.आच्छेदने व्रण.विदारणे च्च, अन्यत्र दुष्ट.व्रणेभ्यः ॥

१९.१४
सक्थि.ग्रीव.आभञ्जने नेत्र.भेदने वा वाक्य.चेष्टा.भोजन.उपरोधेषु च मध्यमः साहस.दण्डः समुत्थान.व्ययश् च ॥

१९.१५
विपत्तौ कण्टक.शोधनाय नीयेत ॥

१९.१६
महा.जनस्य_एकं घ्नतः प्रत्येकं द्वि.गुणो दण्डः ॥

१९.१७
"पर्युषितः कलहो_अनुप्रवेशो वा न_अभियोज्यः" इत्य् आचार्याः ॥

१९.१८
न_अस्त्य् अपकारिणो मोक्ष इति कौटिल्यः ॥

१९.१९
"कलहे पूर्व.आगतो जयति, अक्षममाणो हि प्रधावति" इत्य् आचार्याः ॥

१९.२०
न_इति कौटिल्यः ॥

१९.२१
पूर्वं पश्चाद् वा_अभिगतस्य साक्षिणः प्रमाणम्, असाक्षिके घातः कलह.उपलिङ्गनं वा ॥

१९.२२
घात.अभियोगम् अप्रतिब्रुवतस् तद् अहर् एव पश्चात्.कारः ॥

१९.२३
कलहे द्रव्यम् अपहरतो दश.पणो दण्डः, क्षुद्रक.द्रव्य.हिंसायां तच् च तावच् च दण्डः, स्थूलक.द्रव्य.हिंसायां तच् च द्वि.गुणश् च दण्डः, वस्त्र.आभरण.हिरण्य.सुवर्ण.भाण्ड.हिंसायां तच् च पूर्वश् च साहस.दण्डः ॥

१९.२४
पर.कुड्यम् अभिघातेन क्षोभयतस् त्रि.पणो दण्डः, छेदन.भेदने षट्.पणः, प्रतीकारश् च ॥

१९.२५
दुःख.उत्पादनं द्रव्यम् अन्य.वेश्मनि प्रक्षिपतो द्वादश.पणो दण्डः, प्राण.आबाधिकं पूर्वः साहस.दण्डः ॥

१९.२६
क्षुद्र.पशूनां काष्ठ.आदिभिर् दुःख.उत्पादने पणो द्वि.गुणो वा दण्डः, शोणित.उत्पादने द्वि.गुणः ॥

१९.२७
महा.पशूनाम् एतेष्व् एव स्थानेष्व् द्वि.गुणो दण्डः समुत्थान.व्ययश् च ॥

१९.२८
पुर.उपवन.वनस्पतीनां पुष्प.फलच्.छायावतां प्ररोहच्.छेदने षट्.पणः, क्षुद्र.शाखाच्.छेदने द्वादश.पणः, पीन.शाखाच्.च्छेदने चतुर्.विंशति.पणः, स्कन्ध.वधे पूर्वः साहस.दण्डः, समुच्छित्तौ मध्यमः ॥

१९.२९
पुष्प.फलच्.छायावद्.गुल्म.लतास्व् अर्ध.दण्डाः, पुण्य.स्थान.तपो.वन.श्मशान.द्रुमेषु च ॥

१९.३०
सीम.वृक्षेषु चैत्येषु द्रुमेष्व् आलक्षितेषु च ।

१९.३०
त एव द्वि.गुणा दण्डाः कार्या राज.वनेषु च ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP