अर्थशास्त्रम् अध्याय ०३ - भाग ६

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


६.०१
एक.स्त्री.पुत्राणां ज्येष्ठ.अंशः - ब्राह्मणानाम् अजाः, क्षत्रियाणाम् अश्वाः, वैश्यानां गावः, शूद्राणाम् अवयः ॥

६.०२
काण.लङ्गास् तेषां मध्यम.अंशः, भिन्न.वर्णाः कनिष्ठ.अंशः ॥

६.०३
चतुष्पद.अभावे रत्न.वर्जानां दशानां भागं द्रव्याणाम् एकं ज्येष्ठो हरेत् ॥

६.०४
प्रतिमुक्त.स्वधा.पाशो हि भवति ॥

६.०५
इत्य् औशनसो विभागः ॥

६.०६
पितुः परिवापाद् यानम् आभरणं च ज्येष्ठ.अंशः, शयन.आसनं भुक्त.कांस्यं च मध्यम.अंशः, कृष्णं धान्य.आयसं गृह.परिवापो गो.शकटं च कनिष्ठ.अंशः ॥

६.०७
शेष.द्रव्याणाम् एक.द्रव्यस्य वा समो विभागः ॥

६.०८
अदायादा भगिन्यः, मातुः परिवापाद् भुक्त.कांस्य.आभरण.भागिन्यः ॥

६.०९
मानुष.हीनो ज्येष्ठस् तृतीयम् अंशं ज्येष्ठ.अंशाल् लभेत, चतुर्थम् अन्याय.वृत्तिः, निवृत्त.धर्म.कार्यो वा ॥

६.१०
काम.आचारः सर्वं जीयेत ॥

६.११
तेन मध्यम.कनिष्ठौ व्याख्यातौ ॥

६.१२
तयोर् मानुष.उपेतो ज्येष्ठ.अंशाद् अर्धं लभेत ॥

६.१३
नाना.स्त्री.पुत्राणां तु संस्कृत.असंस्कृतयोः कन्या.कृत.क्षतयोर् अभावे च एकस्याः पुत्रयोर् यमयोर् वा पूर्व.जन्मना ज्येष्ठ.भावः ॥

६.१४
सूत.मागध.व्रात्य.रथ.काराणाम् ऐश्वर्यतो विभागः ॥

६.१५
शेषास् तम् उपजीवेयुः ॥

६.१६
अनीश्वराः सम.विभागाः ॥

६.१७
चातुर्वर्ण्य.पुत्राणां ब्राह्मणी.पुत्रश् चतुरो_अंशान् हरेत्, क्षत्रिया.पुत्र.स्त्रीन् अंशान्, वैश्या.पुत्रो द्वाव् अंशौ, एकं शूद्रा.पुत्रः ॥

६.१८
तेन त्रि.वर्ण.द्वि.वर्ण.पुत्र.विभागः क्षत्रिय.वैश्ययोर् व्याख्यातः ॥

६.१९
ब्राह्मणस्य_अनन्तरा.पुत्रस् तुल्य.अंशः ॥

६.२०
क्षत्रिय.वैश्ययोर् अर्ध.अंशः तुल्य.अंशो वा मानुष.उपेतः ॥

६.२१
तुल्य.अतुल्ययोर् एक.पुत्रः सर्वं हरेत्, बन्धूंश् च बिभृयात् ॥

६.२२
ब्राह्मणानां तु पारशवस् तृतीयम् अंशं लभेत, द्वाव् अंशौ सपिण्डः कुल्यो वा_आसन्नः, स्वधा.दान.हेतोः ॥

६.२३
तद्.अभावे पितुर् आचार्यो_अन्तेवासी वा ॥

६.२४
क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् ।

६.२४
मातृ.बन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP