अर्थशास्त्रम् अध्याय ०३ - भाग २०

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


२०.०१
द्यूत.अध्यक्षो द्यूतम् एक.मुखं कारयेत् ॥

२०.०२
अन्यत्र दीव्यतो द्वादश.पणो दण्डो गूढ.आजीवि.ज्ञापन.अर्थम् ॥

२०.०३
"द्यूत.अभियोगे जेतुः पूर्वः साहस.दण्डः, पराजितस्य मध्यमः ॥

२०.०४
बालिश.जातीयो ह्य् एष जेतु.कामः पराजयं न क्षमते" इत्य् आचार्याः ॥

२०.०५
न_इत्य् कौटिल्यः ॥

२०.०६
पराजितश् चेद् द्वि.गुण.दण्डः क्रियेत न कश्चन राजानम् अभिसरिष्यति ॥

२०.०७
प्रायशो हि कितवाः कूट.देविनः ॥

२०.०८
तेषाम् अध्यक्षाः शुद्धाः काकणीर् अक्षांश् च स्थापयेयुः ॥

२०.०९
काकण्य्.अक्षाणाम् अन्य.उपधाने द्वादश.पणो दण्डः, कूट.कर्मणि पूर्वः साहस.दण्डो जित.प्रत्यादानम्, उपधौ स्तेय.दण्डश् च ॥

२०.१०
जित.द्रव्याद् अध्यक्षः पञ्चकं शतम् आददीत, काकण्य्.अक्ष.अराला.शलाका.अवक्रयम् उदक.भूमि.कर्म.क्रयं च ॥

२०.११
द्रव्याणाम् आधानं विक्रयं च कुर्यात् ॥

२०.१२
अक्ष.भूमि.हस्त.दोषाणां च_अप्रतिषेधने द्वि.गुणो दण्डः ॥

२०.१३
तेन समाह्वयो व्याख्यातः, अन्यत्र विद्या.शिल्प.समाह्वयात् । इति ॥

२०.१४
प्रकीर्णकं तु - याचितक.अवक्रीतक.आहितक.निक्षेपकाणां यथा.देश.कालम् अदाने, यामच्.छाया.समुपवेश.संस्थितीनां वा देश.काल.अतिपातने, गुल्मतर.देयं ब्राह्मणं साधयतः, प्रतिवेश.अनुवेशयोर् उपरि निमन्त्रणे च द्वादश.पणो दण्डः ॥

२०.१५
संदिष्टम् अर्थम् अप्रयच्छतो, भ्रातृ.भार्यां हस्तेन लङ्घयतो, रूप.आजीवाम् अन्य.उपरुद्धां गच्छतः, पर.वक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहम् उद्भिन्दतः, सामन्त.चत्वारिंशत्.कुल्य.आबाधाम् आचरतश् च_अष्ट.चत्वारिंशत्.पणो दण्डः ॥

२०.१६
कुल.नीवी.ग्राहकस्य_अपव्ययने, विधवां छन्द.वासिनीं प्रसह्य_अधिचरतः, चण्डालस्य_आर्यां स्पृशतः, प्रत्यासन्नम् आपद्य् अनभिधावतो, निष्कारणम् अभिधावनं कुर्वतः, शाक्य.आजीवक.आदीन् वृषल.प्रव्रजितान् देव.पितृ.कार्येषु भोजयतः शत्यो दण्डः ॥

२०.१७
शपथ.वाक्य.अनुयोगम् अनिषृष्टं कुर्वतः, युक्त.कर्म च_अयुक्तस्य, क्षुद्र.पशु.वृषाणां पुंस्त्व.उपघातिनः, दास्या गर्भम् औषधेन पातयतश् च पूर्वः साहस.दण्डः ॥

२०.१८
पिता.पुत्रयोर् दम्पत्योर् भ्रातृ.भगिन्योर् मातुल.भगिनेययोः शिष्य.आचार्ययोर् वा परस्परम् अपतितं त्यजतः, सार्थ.आभिप्रयातं ग्राम.मध्ये वा त्यजतः पूर्वः साहस.दण्डः, कान्तारे मध्यमः, तन्.निमित्तं भ्रेषयत उत्तमः, सह.प्रस्थायिष्व् अन्येष्व् अर्ध.दण्डाः ॥

२०.१९
पुरुषम् अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालम् अप्राप्त.व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ॥

२०.२०
पुरुष.अपराध.विशेषेण दण्ड.विशेषः कार्यः ॥

२०.२१
तीर्थ.करस् तपस्वी व्याधितः क्षुत्.पिपासा.अध्व.क्लान्तस् तिरो.जन.पदो दण्ड.खेदी निष्किंचनश् च_अनुग्राह्याः ॥

२०.२२
देव.ब्राह्मण.तपस्वि.स्त्री.बाल.वृद्ध.व्याधितानाम् अनाथानाम् अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देश.काल.भोगच्.छलेन_अतिहरेयुः ॥

२०.२३
पूज्या विद्या.बुद्धि.पौरुष.अभिजन.कर्म.अतिशयतश् च पुरुषाः ॥

२०.२४
एवं कार्याणि धर्मस्थाः कुर्युर् अच्छल.दर्शिनः ।

२०.२४
समाः सर्वेषु भावेषु विश्वास्या लोक.सम्प्रियाः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP