अर्थशास्त्रम् अध्याय ०३ - भाग ५

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


५.०१
अनीश्वराः पितृमन्तः स्थित.पितृ.मातृकाः पुत्राः ॥

५.०२
तेषाम् ऊर्ध्वं पितृतो दाय.विभागः पितृ.द्रव्याणाम् ॥

५.०३
स्वयं.आर्जितम् अविभाज्यम्, अन्यत्र पितृ.द्रव्याद् उत्थितेभ्यः ॥

५.०४
पितृ.द्रव्याद् अविभक्त.उपगतानां पुत्राः पौत्रा वा आ.चतुर्थाद् इत्य् अंश.भाजः ॥

५.०५
तावद् अविच्छिन्नः पिण्डो भवति ॥

५.०६
विच्छिन्न.पिण्डाः सर्वे समं विभजेरन् ॥

५.०७
अपितृ.द्रव्या विभक्त.पितृ.द्रव्या वा सह जीवन्तः पुनर् विभजेरन् ॥

५.०८
यतश् च_उत्तिष्ठेत स द्व्य्.अंशं लभेत ॥

५.०९
द्रव्यम् अपुत्रस्य सोदर्या भ्रातरः सह.जीविनो वा हरेयुः कन्याश् च ॥

५.१०
रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥

५.११
तद्.अभावे पिता धरमाणः ॥

५.१२
पित्र्.अभावे भ्रातरो भ्रातृ.पुत्राश् च ॥

५.१३
अपितृका बहवो_अपि च भ्रातरो भ्रातृ.पुत्राश् च पितुर् एकम् अंशं हरेयुः ॥

५.१४
सोदर्याणाम् अनेक.पितृकाणां पितृतो दाय.विभागः ॥०३.५.१५
पितृ.भ्रातृ.पुत्राणां पूर्वे विद्यमाने न_अपरम् अवलम्बन्ते, ज्येष्ठे च कनिष्ठम् अर्थ.ग्राहिणम् ॥

५.१६
जीवद्.विभागे पिता न_एकं विशेषयेत् ॥

५.१७
न च_एकम् अकारणान् निर्विभजेत ॥

५.१८
पितुर् असत्य् अर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्या.वृत्तेभ्यः ॥

५.१९
प्राप्त.व्यवहाराणां विभागः ॥

५.२०
अप्राप्त.व्यवहाराणां देय.विशुद्धं मातृ.बन्धुषु ग्राम.वृद्धेषु वा स्थापयेयुः आ.व्यवहार.प्रापणात्, प्रोषितस्य वा ॥

५.२१
सम्निविष्ट.समम् असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश् च प्रादानिकम् ॥

५.२२
ऋण.रिक्थयोः समो विभागः ॥

५.२३
"उद.पात्राण्य् अपि निष्किंचना विभजेरन्" इत्य् आचार्याः ॥

५.२४
छलम् एतद् इति कौटिल्यः ॥

५.२५
सतो_अर्थस्य विभागो न_असतः ॥

५.२६
एतावान् अर्थः सामान्यस् तस्य_एतावान् प्रत्य्.अंश इत्य् अनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् ॥

५.२७
दुर्विभक्तम् अन्योन्य.अपहृतम् अन्तर्हितम् अविज्ञात.उत्पन्नं वा पुनर् विभजेरन् ॥

५.२८
अदायादकं राजा हरेत् स्त्री.वृत्ति.प्रेत.कार्य.वर्जम्, अन्यत्र श्रोत्रिय.द्रव्यात् ॥

५.२९
तत् त्रैवेद्येभ्यः प्रयच्छेत् ॥

५.३०
पतितः पतिताज् जातः क्लीबश् च_अनंशाः, जड.उन्मत्त.अन्ध.कुष्ठिनश् च ॥

५.३१
सति भार्य.अर्थे तेषाम् अपत्यम् अतद्.विधं भागं हरेत् ॥

५.३२
ग्रास.आच्छादनम् इतरे पतित.वर्जाः ॥

५.३३
तेषां च कृत.दाराणां लुप्ते प्रजनने सति ।

५.३३
सृजेयुर् बान्धवाः पुत्रांस् तेषाम् अंशान् प्रकल्पयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP