TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


भगवंतांच्या लीलावतारांच्या कथा

ब्रह्मोवाच

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।

अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥१॥

जातो रुचेरजनयत सूयमान सूयज्ञ आकृतिसूनुरमरान दक्षिणायम ।

लोकत्रयस्य महस्तीमहरद यदाऽऽर्तिं स्वायम्भुवेन मनुना हरिरित्यनुक्तः ॥२॥

जज्ञे च कर्दमगृहे द्विज देवहुर्त्या स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।

ऊचे ययाऽऽत्मशमलं गुणसंगपकं मस्मिन विधुय कपिलस्य गतिं प्रपेदे ॥३॥

अत्रेरपत्यमभिकांगत आह तुष्टो दत्तो मयाहर्मिति यद भगवान स दत्तः ।

यत्पादपंकजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैह्याद्याः ॥४॥

तत्पं तपो विविधलोकसिसृक्षया मे आदौ सनात स्वतपसः स चतुःसनोऽभूतु ।

प्राक्लल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग जगाद मुनयो यदचक्शचात्मन ॥५॥

धर्मस्य दक्ष्दुहितर्यजनिष्ट युर्म्या नारायणो नर इति स्वतपह प्रभावः ।

दृष्टऽऽत्मनो भगवतो नियमावलोपं देवस्त्वनगंपृतना घटितुं न शेकुः ॥६॥

काम दहन्ति कृतिनो ननु रोष दृष्ट्या रोषं दहन्तमुत ते न दहन्त्यसह्माम ।

सोऽयं यदन्तरमलं प्रविशलं बिभेति कामः कथं नु पुनरस्य मनः श्रयेत ॥७॥

विद्धः सपत्‍न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि ।

तस्मा अदादु ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात ॥८॥

यद्वेनमुत्यथगतं द्विजवाक्यव्रज विप्लुष्टपौरुषभगं निरये पतन्तम ।

त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसूधा सकलानि येन ॥९॥

नाभेरसावृषभ आस सूदेविसूनु र्यो वै चचार समदृग जडयोगचर्याम ।

यत्पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसंग ॥१०॥

सत्रे ममस भगाअन हयशीरषाथो साक्षात स यज्ञपुरुषस्तपनीयवर्णः ।

छन्दोमयो मखयोऽखिलदेवतात्मा वाचो बभुवुरुशक्तीः श्वसतोऽस्य नस्तः ॥११॥

मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः ।

विस्त्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान ॥१२॥

क्षीरोदधावर्मरदानवयुथपाना मुन्मथताममृतलब्धय आदिदेवः ।

पृष्ठेन कच्छपवपुर्विवदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डुः ॥१३॥

त्रैविष्टपोरुभयहा न नृसिंहरुपं कृत्वा भ्रमदभ्रुकुटिदंष्ट्रकरालवक्त्रम ।

दैत्येन्द्रमाशु गदयाभिततन्ममारा दुरौ निपात्य विददार नखैः स्फुरन्तम ॥१४॥

अन्तः सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।

आहेदमादिपुरुषखिललोकनाथ तीर्थश्रवः श्रवणमंगलनामधेय ॥१५॥

श्रुत्वा हरिस्तमरणार्थिनमप्रमेय श्चकायुधः पतराजभुजाधिरुढः ।

चक्रेण नक्रवदनं विनिपट्य तस्मा द्धस्ते प्रगुह्या भगवान कृपयोज्जहारः ॥१६॥

ज्ययान गुणैरवरजोऽप्यदितेः सूतानां लोकान विचक्रम इमान यदथधियज्ञः ।

क्ष्मां वामनेन जगृहे त्रिपदच्छेल्न यात्र्चामृते पथि चरन प्रभुर्भिर्न चाल्यः ॥१७॥

नार्थो बलेरयमुरुक्रमपादशौच मापः शिखा धृतवतो विबुधाधिपत्यम ।

यो वै प्रतिश्रुतमृते च चिकीर्षदन्य दात्मानमंग शिरसा हरयेऽभिमेने ॥१८॥

तुभ्यं च नारद भृशं भगवान विवृद्ध भावेन साधुपरितृष्ट उवाच योगम ।

ज्ञानं च भागवतमात्मसतत्वदीपं यद्वासूदेवशरणा विदुरत्र्जसैव ॥१९॥

चक्रं च दिक्ष्वविहतं द्शसू स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति ।

दुष्टेषु राजसू दमं व्यदधात स्वकीर्ति सत्ये त्रिपुष्ठ उशतीं प्रथयं श्चरित्रैः ॥२०॥

धन्वन्तरिश्च भगवान स्वयमेव कीर्तिर्नाम्रा नृणां पुरुरुजां रुज आशु हन्ति ।

यज्ञे च भागममृतायुरवावरुन्ध आयुश्व वेदमनुशस्त्यवयीर्य लोके ॥२१॥

क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्माध्रुगुज्झितपथं नरकार्तिलिप्सू ।

उद्धन्त्यसाववनिकण्टकमुग्रवीर्य स्त्रिः सप्तकृत्व उरुधारपरश्वधेन ॥२२॥

अस्मप्त्रसादसूमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।

तिष्थन वनं सदयितानुज आविवेश यस्मिन विरुद्ध दशकन्धर आर्तिमार्च्छत ॥२३॥

यस्मा अदादुदधिरुढभयागंवेपो मार्ग सपद्यरिपुरं हरवद दिधक्षौः ।

दुरे सूहृन्मथितरोषसूशोणदृष्ट्या तातप्यमानमकरोरगनक्र चक्रः ॥२४॥

वक्षःस्थलस्पर्शरुग्णमहेन्रवाह दन्तैर्विडम्बितककुब्जुष ऊढहासम ।

सद्योऽसूभिः सह विनेष्यति दारहर्तु र्विस्फूर्जितैधैनुष उच्चरतोऽधिसैन्ये ॥२५॥

भुमेः सूरेतरवरुथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णवकेशः ।

जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥२६॥

तोकेन जीवहरणम यदुलुकिकाया स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।

यदौ रिंगतान्तरगतेन दिविस्पृशोर्वा उन्मुलनं त्त्वितरथार्जुनयोर्न भाव्यम ॥२७॥

यद वै व्रजे व्रजपशुन विषयोयपीथान पालंस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या ।

तच्छुद्धयेऽतिविषयीर्यविलोलजिह्वमुच्चाटयिष्यदुरंग विहरन ह्रदिन्याम ॥२८॥

तत कर्म दिव्यमिव यन्निशि शिः शयानं दावग्निना शुचिवने परिदह्नामाने ।

उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥२९॥

गृह्णीत यद यदुपबन्धममुष्य माता शुल्बं सूतस्य न तु तत तदमुष्य माति ।

यज्जुम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शंकितमनाः प्रतिबोधिताऽऽसीत ॥३०॥

नन्दं च मोक्ष्यति भयद वरुणस्य पाशद गोपान बिलेषु पिहितान मयसूनुना च ।

अह्नयपृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपेष्यति गोकुलं स्म ॥३१॥

गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशुन कृपय रिरक्षुः

धर्तोच्छिलीन्ध्रीमिव सप्त दिनानि सप्त वर्षो महीध्रमनघैककए सलीलम ॥३२॥

क्रीडन वने निशी निशकरश्मिगौर्या रासोऽन्मुख कलपदायतमूर्च्छितेन ।

उद्दीपितस्मररुजां व्रजभृदवधुनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥३३॥

ये च प्रलम्बखरदर्दुकेश्यारिष्ट मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ।

अन्ये च शाल्वकपिबल्वलदन्तवक्त्र सप्तोक्षशम्बरविदुअथरुक्मिमुखाः ॥३४॥

ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुकैकयसृत्र्जयाद्याः ।

यास्यन्त्यदर्शनमलं बलपार्थभीम व्याजाह्वयेन हरिणा निलयं तदीयम ॥३५॥

कालेन मीलितधियामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दुरपारः ।

आव्रिर्हितस्त्वनुयुगं स हि सत्यवत्यां वेददुमं विटपशो विभजिष्यति स्म ॥३६॥

देवद्विषां निगमवत्मनि निष्ठितानां पुर्भिर्मयेन विहिताभिरदृश्यतुर्भिः ।

लोकान घ्रतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम ॥३७॥

यर्ह्यालयेष्वपि सतां न हरेः कथा स्युः पखण्डिनो द्विजजना वृषला नृदेवाः ।

स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान युगान्ते ॥३८॥

सर्गे तपोऽहंमृषयो नव ये प्रजेशाः स्थाने च धर्ममखमन्वमरावनीशाः ।

अन्ते त्वधर्महरमन्युवशासूराद्या मायाविभुतय इमाः पुरुशाक्तिभाजः ॥३९॥

विष्णोर्न वीर्यगुणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि ।

चस्कम्भ यः स्वरंहसाऽस्खलता न्निपुष्ठं यस्मात त्रिसाम्यसदनादुरु कम्पयानम ॥४०॥

नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये ।

गायन गुणान दशशतानन आदिदेवः शेषोऽधुनापि समवस्याति नास्य पारम ॥४१॥

येषां स एव भगवान दयेयेदनन्तः सरात्मनाऽऽश्रितपदो यदि निर्व्यलीकम ।

ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वश्रृगालभक्ष्ये ॥४२॥

वेदाहमंग परमस्य हि योगमायां युयं भवश्च भगवानश्च दैत्यवर्यः ।

पत्‍नी मनोःस च मनुश्च तदात्मजाश्च प्राचीनबर्हिऋभुरड उत ध्रुवश्च ॥४३॥

इक्ष्वाकुरैलमुचुकुन्दविदेहगाधिरघम्बरीषसगरा गयनाहुषाद्याः ।

माध्यात्रलर्कशतधव्नुरन्तिदेवा देवव्रतो बलिरमुर्त्तरयो दिलीपः ॥४४॥

सौभर्युतकंशिबिदेवलपिप्पलाद सारस्वतोद्धवपरशरभुरिषेणाः ।

येऽन्ये बिभीषणहनुमदुपेन्द्रदत्त पार्थार्ष्टिषेणविदुरश्रुतदेवर्याः ॥४५॥

ते वै विदन्त्यतितरन्ति च देवमायं स्त्रीशुद्रहुणशबरा अपि पापजीवाः ।

यद्यद्भुतक्रमपरायणशीक्षा स्तिर्यग्जना अपि किम श्रुतधारणा ये ॥४६॥

शश्वत प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम ।

शब्दो न यत्र पुरुकारकवान क्रियार्थो माया परैत्याभिमुखे च विलज्जमना ॥४७॥

तद वै पदं भगवातः परमस्य पुंसो ब्रह्मोति यद विदुरजस्त्रसूखं विशोकम ।

सध्यड नियम्य यतयो यमकर्तेहेतिम जहु स्वराडिव निपानखनित्रमिन्द्रः ॥४८॥

स श्रेयसामपि विभुर्भगवान यतोऽस्य भावस्वभावविहितस्य सतः प्रसिद्धिः ।

देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥४९॥

सोऽयं तेऽभिहितस्तात भगवन विश्वभावनः ।

समासेन हरेर्नान्यदन्यस्मात सदसच्च यत ॥५०॥

इदं भागवतं नाम यन्मे भगवतोदितम ।

संग्रहोऽयं विभुतीनां त्वमेतद विपुलीकुरु ॥५१॥

यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।

सर्वात्मन्यखिलाधारे इति संकल्प्य वर्णय ॥५२॥

मायां वर्नयतोऽमुष्य इश्वरस्यानुमोदतः ।

श्रुण्वतह श्रद्धाया नित्यम माययाऽऽत्मा न मुह्याति ॥५३॥

इति श्रीमद्भागवते महापुराणे पारमंहस्या संहितांयां द्वितीयस्कन्धे ब्रह्मानारदसंवादे सप्तमोऽध्यायः ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:34.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

explicitness

  • स्त्री. सुव्यक्तता 
  • पु. सुस्पष्टपणा 
  • पु. स्पष्टपणा 
  • स्त्री. सुव्यक्तता 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site