नृसिंहाख्यान - नवमोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः ॥

नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम् ॥१॥

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ॥

अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ॥२॥

प्रह्लादं प्रेषयामास ब्रह्मावस्थितमन्तिके ॥

तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥३॥

तथेति शनकै राजन्महाभागवतोऽर्मकः ॥

उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥४॥

स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः ॥

उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं कालाहिवित्रस्तधियां कृताभयय् ॥५॥

स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः ॥

तत्पादपद्मं हदि निर्वृतो दधौ हष्यत्तनुः क्लिन्नहदश्रुलोचनः ॥६॥

अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः ॥

प्रेमगद्गदया वाचा तव्यस्तहदयेक्षणः ॥७॥

प्रह्लाद उवाच -

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः

सत्त्वैकतानमतयो वचसां प्रवाहैः ॥

नाराधितुं पुरुगुणैरधुनापि विप्रुः

किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥८॥

मन्ये धनाभिजनरुपतपः श्रुतौजस्तेजः प्रभावबलपौरुषबुद्धियोगाः ॥

नाराधनाय हि भवन्ति परस्य पुंसो भक्त्यातुतोष भगवान्गजयूथपाय ॥९॥

विप्रादद्विषडगुणयुतादरविन्दनाभपादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ॥

मन्ये तदर्पित मनोवचनेहितार्थमाणं पुनाति सकुलं न तु भूरिमानः ॥१०॥

नैवात्मनः प्रभुरथं निजलाभपूर्णो मानं जनादविदुपः करुणो वृणीते ॥

यद्यञ्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथामुखश्रीः ॥११॥

तस्मादहं बिगतविक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथामनीषम् ॥

नीचोऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन ॥१२॥

सर्वे ह्नमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः ॥

क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः ॥१३॥

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या ॥

लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रुपं नृसिंह विभयाय जनाः स्मरन्ति ॥१४॥

नाहं बिभेम्यजित तेऽतिभयानकास्यजिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात ॥

आन्त्रस्त्रजः क्षतजकेसरशङ्कुकर्णान्निर्ह्वादभीतदिगिभादरिभिन्नखाग्रात् ॥१५॥

त्रस्तोस्म्यहं कृपणवत्सल दुःसहोग्रसंसारचक्रकदनादग्रसतां प्रणीतः ॥

बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवगमरणं ह्वयसे कदा नु ॥१६॥

यस्मात्प्रियाप्रियवियोगसयोगजन्म शोकाग्निना सकलयोनिषु दह्यमानः ॥

दुःखौषधं तदपि दुःखमतद्धियाहं भूमन्भ्रमामि वद मे तव दास्ययोगम् ॥१७॥

सोऽहं प्रियस्य सुहदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्च गीताः ॥

अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥१८॥

बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मञ्जतो नौः ॥

तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस्तावद्विभो तनुभृतां स्वद्वुपेक्षितानाम् ॥१९॥

यस्मिन्यतो यर्हि येन च यस्य यस्माद्यस्मै यथा यद्गुत यस्त्वपरः परो वा ॥

भावः करोति विकरोति पृथक्स्वभावः संचोदितस्तदखिलं भवतः स्वरुपम् ॥२०॥

कालेन चोदितगुणानुमतेन पुंसः ॥

छन्दोमयं यदजयार्पितषोडशारं

संसाचक्रमज कोऽतितरेत्त्वदन्यः ॥२१॥

सत्त्वं हि नित्यविजितात्मगुणः स्वधाम्ना

कालो वशीकृतविसृज्यविसर्गशक्तिः ॥

चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीडयमानमुपकर्ष विभो प्रपन्नम् ॥२२॥

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानामायुः श्रियो विभव इच्छति यां जनोऽयम् ॥

येऽस्मत्पितुः कुपितहासविजृम्भितभ्रूविस्फूर्जितेन लुलिता स तु रे निरस्तः ॥२३॥

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुः श्रियं विभवमैन्द्रियमाविरिञ्चात् ॥

नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥२४॥

कुत्राशिषः श्रुतिसुखा मृगतृष्णिरुपाः क्वेदं कलेवरमशेषरुजां विरोहः ॥

निर्विद्यते न तु जनो यदपीति विद्वान्कामानलं मधुलवैः शमयन्द्रुरपैः ॥२५॥

क्वाहं रजः प्रभव ईश तमोऽधिकेऽस्मिञ्जातः सुरेतरकुले क्व तवानुकम्पा ॥

न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥२६॥

नैषा परावरमतिर्भवतो ननु स्याञ्जन्तोर्यथात्मसुहदो जगतस्तथापि ॥

संसेवया सुरतरोरिव ते प्रसादः सेवानुरुपमुदयो न परावरत्वम् ॥२७॥

एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु यः प्रपतन्प्रसङ्गात् ॥

कृत्वात्मसात्सुरर्षिणा भगवन्गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥२८॥

मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ॥

खङ्गं प्रगृह्य यदवोचदसद्विधित्सुस्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥२९॥

एकस्त्वमेव जगदेतदमुष्य यत्त्वमाद्यन्तयोः पृथगवस्यसि मध्यतश्च ॥

सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥३०॥

त्वं व इदं सदसदीश भवांस्ततोऽनयो माया यदात्मपरबुद्धिरियं ह्यपार्था ॥

यद्यस्य जन्म निधनं स्थितिरीक्षणं च तद्वै तदेव वसुकालवदष्टितर्वोः ॥३१॥

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेऽत्मना निजसुखानुभवो निरीक्षः ॥

योगेन मीलीतदृगात्मनिपीतनिद्रस्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥३२॥

तस्यैव ते वपुरिदं निजकालशक्त्या संचोदितप्रकृतिधर्मण आत्मगूढम् ॥

अम्भस्यनन्तशयनाद्विरमत्सभाधेर्नाभेरभूत्सकणिकावटवन्महाब्जम् ॥३३॥

तत्संभवः कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ॥

नाविन्ददब्दंशंतमप्सु निमञ्जमानो जातेऽङ्कुरे कथमुहोपलभेत बीजम् ॥३४॥

स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः ॥

त्वामात्मनीश भुवि गन्धभिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥३५॥

एवं सहस्त्रवदनांघ्रिशिरः करोरुनासास्यकर्णनयनाभरणायुधाढयम् ॥

मायामयं सद्गुपलक्षितसन्निवेशः दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥३६॥

तस्मै भवान्हयशिरस्तनुवं च बिभ्रद्वेदद्रुहावतिबलौ मधुकैटभाख्यौ ॥

हत्वानयच्छुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमार्मेनन्ति ॥३७॥

इत्थं नृतिर्यगृषिदेवझषावतारैर्लोकन्विबावयसि हंसि जगत्प्रतीपान् ॥

धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ सत्त्वम् ॥३८॥

नैतन्मनस्तव कथासु विकुण्ठनाय संप्रीयते दुरितदुष्टमसाधु तीव्रम् ॥

कामातुरं हर्षशोकभयैषणार्त तस्मिन्कथं तव गतिं विमृशाभि दीनः ॥३९॥

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्रित् ॥

घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिबह्वयः सपत्य इव गेहपतिं लुनन्ति ॥४०॥

एवं स्वकर्मपतितं भववैतरण्यामन्योन्यजन्ममरणाशनभीतभीतम् ॥

पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमद्य ॥४१॥

कोन्वत्र तेऽखिलगुरो भगवन्प्रयास उत्तारणेऽस्य भवसंभलोपहेतोः ॥

मूढेषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां नः ॥४२॥

नैवोद्विजे परद्गुरत्ययवैतरण्यास्त्वद्वीर्यगायनमहामृतमग्नचित्तः ॥

शोचे ततो विमुखचेतस्व इन्द्रियार्थमायासुखाय भरमुद्वहतो विमूढान् ॥४३॥

प्रायेण देव मुनयः स्वविमुक्तिकामा मौनं चरन्ति विजनेन पराथनिष्ठाः ॥

नैतान्विहाय कृपणन्विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥४४॥

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम् ॥

नृप्यन्ति नेह कृपणा बहुदुः खभाजः कण्डूतिनवन्मनसिजं विषहेत धीरः ॥४५॥

मौनव्रतश्रुततपोध्यनस्वधर्मव्याख्यारहोजपसमाधय आपवर्ग्याः ॥

प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥४६॥

रुपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरुपकस्य ॥

युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुष नान्यतः स्यात् ॥४७॥

त्वं वायुरग्निरवनिर्वियदमम्बुमात्राः प्राणेन्द्रियाणि हदयं चिदनुग्रहश्च ॥

सर्व त्वमेय सगुणो विगुणाश्च भूमन्नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥४८॥

नैते गुणा न गुणिनो महदादयो वे सर्वे मनः प्रभतयः सहदेवामर्त्याः ॥

आद्यन्तवन्त उरुगाण विदन्ते सुधियो विरमन्ति शब्दात ॥४९॥

तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः कर्मस्मृतिश्ररणयोः श्रवणं कथायाम् ॥

संसेवया त्वयि बिनेति षडङ्गया किं भक्तिं जनः परमहंसगतौ लभेत ॥५०॥

नारद उवाच -

एतावद्धर्णितगुणो भक्त्या भक्तेन निर्गुणः ॥

प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥५१॥

श्रीभगवानुवाच -

प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ॥

वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥५२॥

मामप्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे ॥

दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुप्रर्हति ॥५३॥

प्रीणन्ति ह्यथ मां धीराः सर्व भावेन साधवः ॥

श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम् ॥५४॥

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोमनैः ॥

एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ॥५५॥

इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे प्रह्लादानुचरिते भगवत्स्तवो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP