श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय १२

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशर उवाच

क्रोष्टस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥१॥

ततश्च स्वातिस्ततो रुशंकु रुशकोश्चित्ररथः ॥२॥

तत्तनयश्शशिबिन्दुश्चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥३॥

तस्य च शतसहस्त्रं पत्नीनामभवत ॥४॥

दशलक्षसंख्याश्च पुत्राः ॥५॥

तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्‍ पुत्राः प्रधानाः ॥६॥

पृथुश्रवसश्च पुत्रः पृथुतमः ॥७॥

तस्मादृशना यो वाजिमेधानां शतमाजहार ॥८॥

तस्य च शितपुर्नाम पुत्रोऽभवत् ॥९॥

तस्यापि रुक्मकवचस्ततः परावृत्त ॥१०॥

परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पत्र्चात्मजा बभुवुः ॥११॥

तस्यायमद्यापि ज्यामघस्य श्‍लोको गीयते ॥१२॥

भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः । तेषां तु ज्यामघः श्रेष्ठश्शैव्यापतिरभून्नुपः ॥१३॥

अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ । अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥१४॥

स त्वेकदा प्रभुतरथतुरगगजसम्मर्दातिदारुणे महाहवे युद्धमानः सकलमेवारिचक्रमजयत् ॥१५॥

तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम ॥१६॥

तस्मिंश्च विद्गुतेऽतित्रासलोलायतलोचनयुगलं त्राहि त्राहि मां

ताताम्ब भ्रात रित्याकुलविलापविधुरं स राजकन्यारत्नद्रक्षीत ॥१७॥

तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥१८॥

साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः साम्प्रतं विधिनापत्यकारणं कन्यारत्नमुपपदितम् ॥१९॥

तदेतत्समुद्वहामीति ॥२०॥

अथवैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥२१॥

तयैव देव्या शैव्ययाहमनुज्ञातस्समुद्वहामीति ॥२२॥

अथैनां रथमारोप्य स्वनगरमगच्छत ॥२३॥

विजयिनं च राजानमशेशपौरभॄत्यपरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठानद्वारमागता ॥२४॥

साचावलोक्य राज्ञः सव्यपार्श्ववर्त्तिनीं कन्यामीषदुद्भुतामर्शस्फुरदधरपल्लवा राजानमवोचत् ॥२५॥

अतिचलचित्तात्र स्यन्दने केयमारोपितेति ॥२६॥

असावप्यनालोचितोत्तरवचनोऽतिभियातामाह स्त्रुषा ममेयमिति ॥२७॥

अर्थैनं शैव्योवाच ॥२८॥

नाहं प्रसुता पुत्रेणा नान्या पत्‍न्यभवत्तव । स्नुषासम्बन्धता ह्योषा कतमेन सुतेन ते ॥२९॥

श्रीपराशर उवाच

इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयादुक्तपरिहार्यार्थमिदमवनीपतिराह ॥३०॥

यस्ते जनिष्यत आत्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥३१॥

प्रविवेश च राज्ञा सहाधिष्ठानम् ॥३२॥

अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः

परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥३३॥

कालेन च कुमारमजीजनत् ॥३४॥

तस्य च विदर्भ इति पिता नाम चक्रे ॥३५॥

स च तां स्त्रुषामुपयेमे ॥३६॥

तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥३७॥

पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवानभवत् ॥३८॥

रोमपादाद्बभ्रुर्बभ्रोर्धृतिर्धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवद् यस्य सन्ततौ चैद्या भूपालाः ॥३९॥

क्रथस्य स्नुषापुत्रस्य कुन्तिरभवत् ॥४०॥

कुन्तेर्धृष्टिर्धृर्निधृतिर्निधृतेर्दशार्हस्ततश्च व्योमा तस्यापि जीमूतस्ततश्च विकृतिस्ततश्च भीमरथः,

तस्मान्नवरथस्तस्यापि दशरथस्ततश्च शकुनिः, तत्तनयः करम्भिः करम्भेर्देवरातोऽभवत् ॥४१॥

तस्माद्देवक्षत्रस्तस्यापि मधुर्मधोः कुमारवंशः कुमारवंशादनुरनोः पुरुमित्रः पृथिवीपतिरभवत् ॥४२॥

ततश्चांशुस्तस्माच्च सत्वतः ॥४३॥

सत्वतादेते सात्वताः ॥४४॥

इत्येतां जयामघस्य सन्ततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते ॥४५॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP