श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय २

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशर उवाच

यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं निजघ्रुः ॥१॥

तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ॥२॥

तदन्वयाश्च क्षत्रियास्सर्वदिक्ष्वभवन् ॥३॥

धृष्टस्यापि धार्ष्टकं क्षत्रमभवत् ॥४॥

नाभागस्यात्मजो नाभागसंज्ञोऽभवत ॥५॥

तस्याप्यम्बरीषः ॥६॥

अम्बरीषस्यापि विरुपोऽभवत् ॥७॥

विरूपात्पृषदश्वो जज्ञे ॥८॥

ततश्च रथीतरः ॥९॥

अत्रायं श्‍लोकः - एते क्षत्रप्रसूता वै पुनश्चांगिरसाः स्मृताः । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥१०॥

इति क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ॥११॥

तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डारव्यास्त्रयः पुत्रा बभूवुः ॥१२॥

शकुनिप्रमुखाः पत्र्चाशत्पुत्रा उत्तरापथरक्षितारो बभूवुः ॥१३॥

चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥१४॥

स चेक्ष्वाकुरष्टकायाश्श्राद्धमुत्पाद्य श्राद्धर्हं मांसमानयेति विकुक्षिमाज्ञापयामास ॥१५॥

स तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्यानेकशो मृगान हत्वा श्रान्तोऽतिक्षुत्परीतो विकृक्षिरेकं शशभक्षयत् ।

शेषं च मांसमानीय पित्रे निवेदयामास ॥१६॥

इक्ष्वाकुकुलाचार्यो वसिष्ठस्तत्प्रोक्षणाय चोदितः प्राह ।

अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतम यतोऽनेन शशो भक्षितः ॥१७॥

ततश्चासौ विकुक्षिर्गरुणैवमुक्तश्शशादसंज्ञामवाप पित्रा च परित्यक्तः ॥१८॥

पितर्युपरते चासावखिलामेतां पृथ्वी धर्मतश्शूशास ॥१९॥

शशादस्य तस्य पुरत्र्जयो नाम पुत्रोऽभवत् ॥२०॥

तस्येदं चान्यत् ॥२१॥

पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ॥२२॥

तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवन्तं विष्णुमाराधयात्र्चक्रुः ॥२३॥

प्रसन्नश्च देवानामनादिनिधनोऽखिलजगत्परायणो नारायणः प्राह ॥२४॥

ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम् ॥२५॥

पुरत्र्चयो नाम राजर्षेशशशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेऽहमंशेन स्वयमेवावतीर्य

तानशेषानसुरान्निहनिष्यामि तद्भवद्भिः पुरत्र्जयोऽसुरवधार्थमुद्योगं कार्यतामिति ॥२६॥

एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरत्र्चयसकाशमाजग्मुरूचश्चैनम् ॥२७॥

भो भो क्षत्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरतिवधोद्यतानां कर्तव्यं

साहाय्यमिच्छामस्तद्भवतास्माकमभ्यागतानां प्रणयभंगो न कार्य इत्युक्तः पुरत्र्जयः प्राह ॥२८॥

त्रैलोक्यनाथो योऽयं युष्माकमिन्द्रः शतक्रतुरस्य यद्यहं स्कन्धाधिरुढो युष्माकमरातिभिस्सह योत्स्ये तदहं भवतां सहायाः स्याम् ॥२९॥

इत्याकर्ण्य समस्तदेवैरिन्द्रेण च बाढमित्येवं समन्वीप्सितम् ॥३०॥

ततश्च शतक्रतोर्वृषरूप धारिणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य

तेजासाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ॥३१॥

यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषुदितमतश्चासौ ककुत्स्थसंज्ञामवाप ॥३२॥

ककुत्स्थस्याप्यनेनाः पुत्रो‍ऽभवत् ॥३३॥

पृथुरनेनसः ॥३४॥

पृथोर्विष्टराश्वः ॥३५॥

तस्यापि चान्द्रो युवनाश्चः ॥३६॥

चान्द्रस्य तस्य युवनाश्चस्य शावस्तः यः पुरीं शावस्तीं तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥३७॥

शावस्तस्य बृहदश्वः ॥३८॥

तस्यापि कुवलयाश्चः ॥३९॥

योऽसावौदकस्य महर्षेरकारिणं धुन्धुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्त्रैरेकविंशाद्भिः परिवृतो जघान धुन्धुमारसंज्ञामवाप ॥४०॥

तस्य च तनयास्समस्ता एव धुन्धुमुखनिः श्वासाग्निना विल्पष्टा विनेशुः ॥४१॥

दृढाश्वचन्द्राश्वकपिलाश्वाश्च त्रयः केवलं शोषिताः ॥४२॥

दृढाश्वाद्धर्यश्वः ॥४३॥

तस्माच्च निकुम्भः ॥४४॥

निकुम्भस्यामिताश्वः ॥४५॥

ततश्च कृशाश्वः ॥४६॥

तस्माच्च प्रसेनजित ॥४७॥

प्रसेनजितो युवनाश्वोऽभवत् ॥४८॥

तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रमण्डले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टिः कृता ॥४९॥

तस्यां च मध्यरात्रौ निवृत्तायां मन्त्नपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ॥५०॥

सुप्तेषु तेषु अतीव तृट्परीतस्स भूपालस्तमाश्रमं विवेश ॥५१॥

सुत्पांश्च तानुषीन्नैवोत्थापयामास ॥५२॥

तच्च कलशमपरिमेयमाहात्म्यमन्त्नपुतं पपौ ॥५३॥

प्रबुद्धाश्च ऋषयः पप्रच्छुः केनैतन्मन्त्नपूतं वारि पीतम् ॥५४॥

अत्र हि राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह ॥५५॥

गर्भश्च युवनाश्वस्योदरे अभवत् क्रमेण च ववृधे ॥५६॥

प्राप्तसमयश्च दक्षिणं कुक्षिमव निपेतेर्निर्भिद्य निश्चक्राम ॥५७॥

न चासौ राजा ममार ॥५८॥

जातो नामैष कं धास्यातीति ते मुनयः प्रोचुः ॥५९॥

अथागत्य देवराजो‍ऽ‍ब्रवीत् मामयं धास्यतीति ॥६०॥

ततो मान्धातृनामा सोऽभवत् वक्त्रे चास्य प्रदेशिनी देवेन्द्रेण न्यस्ता तां पपौ ॥६१॥

तां चामृतस्त्राविणीमास्वाद्याह्नैव स व्यवर्द्धत ॥६२॥

ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं बुभुजे ॥६३॥

तत्रायं श्‍लोकः ॥६४॥

यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥६५॥

मान्धाता शतबिन्दोर्दुहितरं बिन्दुमती- मुपयेमे ॥६६॥

पुरुकुत्समम्बरीषं मुचुकुन्दं च तस्यां पुत्रत्रयमुत्पादयामास ॥६७॥

पत्र्चाशद्दुहितरस्तस्यामेव तस्य नॄपतेर्बभूवूः ॥६८॥

तस्मिन्नन्तरे बह्‌वृचश्च सौभरिर्नाम महर्षिरन्तर्जले द्वादशाब्दं कालमुवास ॥६९॥

तत्र चन्तर्जले सम्मदो नामातिबहुप्रजोऽतिमात्रप्रमाणो मीनाधिपतिरासीत ॥७०॥

तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तस्तेनैव सदाहर्निशमतिनिर्वृता रेमिरे ॥७१॥

स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैरात्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुतरां रेमे ॥७२॥

अथान्तर्जलावस्थितस्सौभरिरेकाग्रतस्समाधिमपहायानुदिनं तस्य

मत्स्यस्यात्मजपुत्रपौत्रदौहित्रादिभिस्सहातिरमणीयतामवेक्ष्याचिन्तयत् ॥७३॥

अहो धन्योऽयमीदृशमनभिमतं योन्यन्तरमवाप्यैभिरात्मजपुत्रपौत्रदौहित्रादिभिस्सह रममाणोऽतीवास्माकं स्पृहामुत्पादयति ॥७४॥

वयमप्येवं पुत्रादिभिस्सह ललितं रंस्यामहे इत्येवमभिकांक्षन स तस्मादन्तर्जलान्निष्क्रम्य

सन्तानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत ॥७५॥

आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना सम्पुजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥७६॥

सौभरिरुवाच

निवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः । न ह्यार्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति ॥७७॥

अन्येऽपि सन्त्येव नॄपाः पृथिव्यां मान्धातरेषां तनयाः प्रसूताः । किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतं श्लाघ्यामिदं कुलं ते ॥७८॥

शतार्धसंख्यास्तव सन्ति कन्यास्तासां ममैकां नॄपते प्रयच्छ । यत्प्रार्थनाभंगभयाद्विभेमि तस्मादहं राजवरातिदुःखात् ॥७९॥

श्रीपराशर उवाच

इति ऋषिअचनमाकर्ण्य स राजा जराजर्जरितदेहमृषिमालोक्य प्रत्याख्यनकातरस्तस्माच्च शापभीतो बिभ्यत्कित्र्चिदधोमुखाश्चिरं दध्यौ च ॥८०॥

सौभरिरूवाच

नरेन्द्र कस्मात्समुपैषि चिन्ता मसह्यामुक्तं च मयात्र कित्र्चित् । यावश्यदेया तनया तयैव कृताथैता नो यदि किं न लब्धा ॥८१॥

श्रीपराशर उवाच

अथ तस्य भगवतश्श्यापभीतस्सप्रश्रयस्तमुवाचासौ राजा ॥८२॥

राजोवाच भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिरुचितो‍ऽभिजनवान्वरस्तस्मै कन्यां प्रदीयते

भगवद्याच्त्रा चास्मन्ममोरथानामप्यतिगोचरवर्त्तिनी कथमप्येषा सज्जाता तदेवमुपस्थिते

न विद्यः किं कुर्म इत्येतन्मया चिन्त्यत इत्याभिहिते च तेन भूभुजा मुनिरचिन्तयत् ॥८३॥

अयमन्योऽस्मत्प्रत्याख्यानोपायो वृद्धोऽप्यमनभिमतः स्त्रीणां किमुत कन्यकानामित्यमुना

सत्र्चिन्त्यैतदभिहित मेवमस्तु तथा करिष्मामीति सत्र्चिन्त्य मान्ध्यातार मुवाच ॥८४॥

यद्येवं तदादिश्यतामस्माकं प्रवेशाय कन्यान्तः पुरवर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं

दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारम्भणेनेत्युक्त्वा विरराम ॥८५॥

ततश्च मान्धात्रा मुनिशापशंकितेन कन्यान्तः पुरवर्षवरस्समाज्ञप्तः ॥८६॥

तेन सह कन्यान्तः पुअं प्रविशन्नेव भगवानखिलसिद्धगन्धर्वेभ्योऽति शयेन कमनीयं रूपमकरोत ॥८७॥

प्रवेश्य च तमृषिमन्तःपुरे वर्षवरस्ताः कन्याः प्राह ॥८८॥

भवतीनां जनयिता महाराजस्समाज्ञापयति ॥८९॥

अयमस्मान ब्रह्मार्षिः कन्यार्थं समभ्यागतः ॥९०॥

मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति त्याकर्ण सर्वा एव ताः कन्याः

सानुरागाः सप्रमदाः करेणव इवेभयूथपतिं तमृषिमहमहमिकया वरयाम्बभूवुरूचुश्च ॥९१॥

अलं भगिन्योऽहमिमं वृणोमि वृणोम्यहं नैष तवानुरुपः । ममैष भर्त्ता विधिनैव सृष्ट स्सृष्टाहमस्योपशमं प्रयाहि ॥९२॥

वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् । मया मयेति क्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥९३॥

यदा मुनिस्ताभिरतीवहार्दाद् वृतस्स कन्याभिरनिन्द्यकीर्तिः । तदा स कन्याधिकृतो नॄपाय यथावदाचष्ट विनम्रमूर्तिः ॥९४॥

श्रीपराशर उवाच

तदवगमात्किंकिमेतत्कथमेतत्किं किं करोमि किं मयाभिहितामित्याकुलमतिरनिच्छन्नापि कथमापि राजानुमेने ॥९५॥

कृतानुरूपविवाहश्च महर्षिस्सकला एव ताः कन्यास्स्वमाश्रममनयत् ॥९६॥

तत्र चाशेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूया सकलकन्यानामेकैकस्याः

प्रोत्फुल्लपंकजाः कूजत्कलहंसकारण्डवादिविहंगमाभिरामजलाशयास्सोपधानाः

सावकाशास्साधुशय्यापरिच्छादाः प्रासादाः क्रियन्तामित्यादिदेश ॥९७॥

तच्च तथैवानुष्ठितमशेशिल्पविशेषाचार्यस्त्वष्टा दर्शितवान् ॥९८॥

ततह परमार्षिणा सौभारिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानन्दनामा महानिधिरासात्र्चके ॥९९॥

ततोऽनवरतेन भक्ष्यभोज्यलेह्याद्युपभोगैरागतानुगतभॄत्यादीनहर्निशमशेषगृहेषु ताः क्षितीशदुहितरो भोजयामासुः ॥१००॥

एकदा तु दुहितृस्त्रेहाकृष्टहृदयस्स महीपतिरतिदुः खितास्ता उत सुखिता वा इति विचिन्त्य

तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ॥१०१॥

प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्त्रेहनयनाम्बुनर्भनयनोऽब्रवीत् ॥१०२॥

अप्यत्र वत्से भवत्याः सुखमुत कित्र्चिदसुखमपि ते महर्षिस्स्नेहवानुत न,

स्मर्यतेऽस्मद्‌गृहवास इत्युक्ता तं तनया पितरमाह ॥१०३॥

ताआतिरमणीयः प्रासादोऽत्रातिमनोज्ञमुपवनमेते कलवाक्यविहंगमाभिरुताः

प्रोत्फूल्लपद्माकरजलाशया मनो‍ऽनुकूओलभक्ष्यभोज्यानौलेपनवस्त्रभूषनादिभोगो

मृदूनि शयनासनानि सर्वसम्पत्समेतं मे गार्हस्थ्यम् ॥१०४॥

तथापि केन वा जन्मभूमिर्न स्मर्यते ॥१०५॥

त्वत्प्रसाददिदमशेषमतिशोभनम् ॥१०६॥

किं त्वेकं ममैतहुः खकारणं यदस्मद्‍गृहान्महर्षिरयम्मद्भर्त्ता न निष्क्रामति ममैव

केवलमतिप्रीत्या समीपपरिवर्ती नान्यासामस्मद्भगिनीनाम् ॥१०७॥

एवं च मम सोदर्योऽतिदुःखिता इत्येवमतिदुःखकारणमित्यक्तस्तया द्वितीयं

प्रासादमुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान् ॥१०८॥

तयापि च सर्वमेतत्तत्प्रासादाद्युतभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्त्ती,

नन्यासामस्मद्भगिनीनामित्येवमादि श्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवापृच्छत ॥१०९॥

सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भरविवशहॄदयो भगवन्तं सौभरिमेकन्तास्थिरविवशहृदयो

भगवन्तं सौभरिमेकान्तावस्थितमुपेत्य कृतपूजोऽब्रवीत् ॥११०॥

दृष्टस्ते भगवन्‌ सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कास्यचिदस्माभिर्विभूतिभिर्विलसितमुपलक्षितं

यदेतद्भगवतस्तपसः फलमित्यभिपुज्य तमृषिं तत्रैव तेन ऋषिवर्य़ेण

सह कित्र्चित्कालमभिमतोपभोगान् बुभुने स्वपुरं च जगाम ॥१११॥

कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं स्पार्धमभवत् ॥११२॥

अनुदिनानुरूढस्नेहप्रसरश्च स तत्रातीव ममताकृष्टहृदयोऽभवत् ॥११३॥

अप्येतेऽस्मत्पुत्राः कलभाषिणः पदभ्यां गच्छेयुः अप्येते यौवनिनो भवेयुः

अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पश्यामीत्यादिमनोरथाननुदिनं

कालसम्पत्तिप्रवृद्धानुपेक्ष्यैतच्चिन्तयामास ॥११४॥

अहो मे मोहस्याति विस्तारः ॥११५॥

मनोरथानां न समाप्तिरस्ति वर्षायुतेनापि तथाब्दलक्षैः । पूर्णैषु पूर्णैषु मनोरथानामुप्तत्तयस्सन्ति पुनर्नवानाम् ॥११६॥

पद्‌भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसुताः । दृष्टाः सुतास्तत्तनयप्रसुतिं द्रष्टुं पुनर्वात्र्छति मेऽन्तरात्मा ॥११७॥

द्रक्ष्यामि तेषामिति चेत्प्रसुतिं मनोरथो मे भविता ततोऽन्यः । पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ॥११८॥

आमृत्युतो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य । मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ॥११९॥

स मे समाधिर्जलवासमित्र मत्सस्य संगात्सहसैव नष्टः । परिग्रहस्संगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा ॥१२०॥

दुःखं यदैवैकशरीरजन्म शतार्द्धसंख्याकमिदं प्रसूतम् । परिग्रहेण क्षितिपात्माजानां सुतैरनेकैर्बहुलीकृतं तत् ॥१२१॥

सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां च परिग्रहेण । विस्तारमेष्यत्यतिदुःखहेतूः परिग्रहो वै ममताभिधानः ॥१२२॥

चीर्ण तपो यत्तु जलाश्रयेण तस्यद्धिरेषा तपसोऽन्तरायः । मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोऽस्मि तेन ॥१२३॥

निस्संगता मुक्तिपदं यतीनां संगादशेषाः प्रभवन्ति दोषाः । आरूढयोगी विनिपात्यतेऽधस्संगेन योगी किमुताल्पबुद्धिः ॥१२४॥

अहं चिरष्यामि तदात्मनोऽर्थें परिग्रहग्राहगृहेतबुद्धिः । यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी ॥१२५॥

सर्वस्य धातारमचिन्त्यरूप मणोरणीयांसमतिप्रमाणम् । सितासितं चेश्चरमीश्वराणा माराधयिष्ये तपसैव विष्णुम् ॥१२६॥

तस्मिन्नशेषौजसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनन्ते । ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः ॥१२७॥

समस्तभूतादमलादनन्तत्सर्वेश्वरादन्य्दनादिमध्यात् । यस्मान्न कित्र्चित्तमहं गुरुणां परं गुरुं संश्रयमेमि विष्णुम् ॥१२८॥

श्रीपराशर उवाच

इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिचछादादिकमशेषमर्थाजातं सकलभार्यासमन्वितो वनं प्रविवेश ॥१२९॥

तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्कमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ॥१३०॥

भगवत्यासज्याखिलं कर्मकलापं हित्वानन्तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतामच्युतां पदम् ॥१३१॥

इत्येतन्मान्धातृदुहितसम्बन्धादाख्यातम् ॥१३२॥

यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयाति श्रृणोति श्रावयति धरत्यवधारयति लिखति लेखयति

शिक्षयत्यध्यापयत्युपदिशति वा तस्य षड् जन्मानि दुस्सन्ततिरसद्धर्मो

वाड्‍मनसयोरसन्मार्गाचरणमशेषहेतुषु वा ममत्वं न भवति ॥१३३॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP