संस्कृत सूची|संस्कृत साहित्य|गीता|अष्टावक्र गीता| अध्याय १९ अष्टावक्र गीता अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अष्टावक्र गीता - अध्याय १९ Ashtavakra gita is a perfect moral of life.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila. Tags : ashtavakragitaअष्टावक्रगीता अध्याय १९ Translation - भाषांतर ॥ जनक उवाच ॥तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।नाविधपरामर्शशल्योद्धारः कृतो मया ॥१॥क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ॥२॥क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा ।क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ॥३॥क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा ।क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ॥४॥क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा ।क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे ॥५॥क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा ।क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ॥६॥क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं ।क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ॥७॥अलं त्रिवर्गकथया योगस्य कथयाप्यलं ।अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ॥८॥ N/A References : N/A Last Updated : May 29, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP