अष्टावक्र गीता - अध्याय १२

Ashtavakra gita is a perfect moral of life.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila.


॥ जनक उवाच ॥
कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः ।
अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ॥१॥
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः ।
विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥२॥
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये ।
एवं विलोक्य नियमं एवमेवाहमास्थितः ॥३॥ ।
हेयोपादेयविरहाद् एवं हर्षविषादयोः ।
अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः ॥४॥
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं ।
विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ॥५॥
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा ।
बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः ॥६॥
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ ।
त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः ॥७॥
एवमेव कृतं येन स कृतार्थो भवेदसौ ।
एवमेव स्वभावो यः स कृतार्थो भवेदसौ ॥८॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP