अष्टावक्र गीता - अध्याय १८

Ashtavakra gita is a perfect moral of life.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila.


॥ अष्टावक्र उवाच ॥
यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।
तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥१॥
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।
न हि सर्वपरित्याजमन्तरेण सुखी भवेत् ॥२॥
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः ।
कुतः प्रशमपीयूषधारासारमृते सुखम् ॥३॥
भवोऽयं भावनामात्रो न किंचित् परमर्थतः ।
नास्त्यभावः स्वभावनां भावाभावविभाविनाम् ॥४॥
न दूरं न च संकोचाल्लब्धमेवात्मनः पदं ।
निर्विकल्पं निरायासं निर्विकारं निरंजनम् ॥५॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोका विराजन्ते निरावरणदृष्टयः ॥६॥
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः ।
इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥७॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥८॥
अयं सोऽहमयं नाहं इति क्षीणा विकल्पना ।
सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः ॥९॥
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।
न सुखं न च वा दुःखं उपशान्तस्य योगिनः ॥१०॥
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने ।
निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥११॥
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ॥१२॥
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना ।
यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥१३॥
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता ।
सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः ॥१४॥
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै ।
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥१५॥
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् ।
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥१६॥
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ ।
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥१७॥
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् ।
नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥१८॥
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।
नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥१९॥
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।
यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम् ॥२०॥
निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः ।
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥२१॥
असंसारस्य तु क्वापि न हर्षो न विषादिता ।
स शीतलहमना नित्यं विदेह इव राजये ॥२२॥
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् ।
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥२३॥
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया ।
प्राकृतस्येव धीरस्य न मानो नावमानता ॥२४॥
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा ।
इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥२५॥
अतद्वादीव कुरुते न भवेदपि बालिशः ।
जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥२६॥
नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः ।
न कल्पते न जाति न शृणोति न पश्यति ॥२७॥
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः ।
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥२८॥
यस्यान्तः स्यादहंकारो न करोति करोति सः ।
निरहंकारधीरेण न किंचिदकृतं कृतम् ॥२९॥
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितं ।
निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥३०॥
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।
निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते ॥३१॥
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां ।
अथवा याति संकोचममूढः कोऽपि मूढवत् ॥३२॥
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं ।
धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ॥३३॥
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं ।
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥३४॥
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं ।
आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥३५॥
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा ।
धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥३६॥
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति ।
अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥३७॥
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः ।
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥३८॥
न शान्तिं लभते मूढो यतः शमितुमिच्छति ।
धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥३९॥
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते ।
धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥४०॥
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै ।
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥४१॥
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः ।
उभयाभावकः कश्चिद् एवमेव निराकुलः ॥४२॥
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः ।
न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ॥४३॥
मुमुक्षोर्बुद्धिरालंबमन्तरेण न विद्यते ।
निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥४४॥
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।
विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥४५॥
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः ।
पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ॥४६॥
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥४७॥
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः ।
नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥४८॥
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः ।
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥४९॥
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं ।
स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम् ॥५०॥
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा ।
तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ॥५१॥
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते ।
न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ॥५२॥
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् ।
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥५३॥
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियं ।
दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना ॥५४॥
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥५५॥
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते ।
तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥५६॥
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः ।
शून्याकारा निराकारा निर्विकारा निरामयाः ॥५७॥
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः ।
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥५८॥
सुखमास्ते सुखं शेते सुखमायाति याति च ।
सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः ॥५९॥
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः ।
महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते ॥६०॥
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते ।
प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥६१॥
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता ॥६२॥
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा ।
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥६३॥
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः ।
न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि ॥६४॥
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥६५॥
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं ।
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥६६॥
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः ।
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥६७॥
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः ।
भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ॥६८॥
महदादि जगद्द्वैतं नाममात्रविजृंभितं ।
विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥६९॥
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी ।
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥७०॥
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः ।
क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥७१॥
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः ।
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥७२॥
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते ।
निर्ममो निरहंकारो निष्कामः शोभते बुधः ॥७३॥
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः ।
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥७४॥
निरोधादीनि कर्माणि जहाति जडधीर्यदि ।
मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥७५॥
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां ।
निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ॥७६॥
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् ।
नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन ॥७७॥
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन ।
निर्विकारस्य धीरस्य निरातंकस्य सर्वदा ॥७८॥
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा ।
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥७९॥
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि ।
बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ॥८०॥
नैव प्रार्थयते लाभं नालाभेनानुशोचति ।
धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥८१॥
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति ।
समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति ॥८२॥
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति ।
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥८३॥
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च ।
निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ॥८४॥
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः ।
स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ॥८५॥
पततूदेतु वा देहो नास्य चिन्ता महात्मनः ।
स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ॥८६॥
अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः ।
असक्तः सर्वभावेषु केवलो रमते बुधः ॥८७॥
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः ।
सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ॥८८॥
सर्वत्रानवधानस्य न किंचिद् वासना हृदि ।
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥८९॥
जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥९०॥
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।
भावेषु गलिता यस्य शोभनाशोभना मतिः ॥९१॥
क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः ।
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥९२॥
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना ।
अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥९३॥
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥९४॥
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः ।
सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः ॥९५॥
न सुखी न च वा दुःखी न विरक्तो न संगवान् ।
न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन ॥९६॥
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।
जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ॥९७॥
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः ।
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥९८॥
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति ।
नैवोद्विजति मरणे जीवने नाभिनन्दति ॥९९॥
न धावति जनाकीर्णं नारण्यं उपशान्तधीः ।
यथातथा यत्रतत्र सम एवावतिष्ठते ॥१००॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP