संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता|अष्टावक्र गीता| अध्याय २ अष्टावक्र गीता अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अष्टावक्र गीता - अध्याय २ Ashtavakra gita is a perfect moral of life.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila. Tags : ashtavakragitaअष्टावक्रगीता अध्याय २ Translation - भाषांतर ॥ जनक उवाच ॥अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः ।एतावन्तमहं कालं मोहेनैव विडंबितः ॥१॥यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।अतो मम जगत्सर्वमथवा न च किंचन ॥२॥स शरीरमहो विश्वं परित्यज्य मयाधुना ।कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥३॥यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः ।आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥४॥तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः ।आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥५॥यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा ।तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ॥६॥आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते ।रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥७॥प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।यदा प्रकाशते विश्वं तदाहं भास एव हि ॥८॥अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥९॥मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।मृदि कुंभो जले वीचिः कनके कटकं यथा ॥१०॥अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः ॥११॥अहो अहं नमो मह्यं एकोऽहं देहवानपि ।क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥१२॥अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥१३॥अहो अहं नमो मह्यं यस्य मे नास्ति किंचन ।अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥१४॥ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं ।अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ॥१५॥द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजं ।दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः ॥१६॥बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया ।एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥१७॥न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया ।अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥१८॥सशरीरमिदं विश्वं न किंचिदिति निश्चितं ।शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥१९॥शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा ।कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥२०॥अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥२१॥नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ॥२२॥अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितं ।मय्यनंतमहांभोधौ चित्तवाते समुद्यते ॥२३॥मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति ।अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥२४॥मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः ।उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥२५॥ N/A References : N/A Last Updated : May 29, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP