मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे| अखण्डमण्डलाकारं व्याप्तं ... गुरु स्तोत्रे जगद्गुरु श्रीभारतीतीर्थमह... जय देव जय देव जय सद्गुरुन... जगद्गुरु आद्यश्रीशङ्कराचा... श्रीमज्जगद्गुरु श्रीचन्द्... श्रीगुरुभ्यो नमः शङ्कारूप... नालीकनीकाशपदादृताभ्यां ना... शुद्धस्फटिकसंकाशं शुद्धवि... ॥श्रीसदाशिवेन्द्रपञ्चरत्न... परतत्त्वलीनमनसे प्रणमद्भव... रीसच्चिदानन्द-शिवाभिनव-नृ... बुद्धाद्यागम बाह्य दुर्मत... प्रस्तावना शरीरं सुरूपं तथा वा कलत्र... यं विज्ञातुं भृगु पितरमुप... विश्वं दर्पणदृश्यमाननगरी... चलल्लोलकल्लोलकल्लोलिनीशस्... प्रह्लाद प्रभृरस्ति चेत्त... श्रीः ॥ विष्णोर्मुखोत्थान... श्रीः ॥ जय राम सदाराम सच्... अखण्डमण्डलाकारं व्याप्तं ... गुरुस्तोत्र - अखण्डमण्डलाकारं व्याप्तं ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessgurustotraगुरूदेवतादेवीस्तोत्र गुरुस्तोत्र Translation - भाषांतर अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥ चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५॥ सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः । वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ ६॥ चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः । बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ॥ ७॥ ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८॥ अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९॥ शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः । गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १०॥ न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ११॥ मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥ गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ १३॥ त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ १४॥ ॥ इति श्रीगुरुस्तोत्रम् ॥ N/A N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP