मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे| रीसच्चिदानन्द-शिवाभिनव-नृ... गुरु स्तोत्रे जगद्गुरु श्रीभारतीतीर्थमह... जय देव जय देव जय सद्गुरुन... जगद्गुरु आद्यश्रीशङ्कराचा... श्रीमज्जगद्गुरु श्रीचन्द्... श्रीगुरुभ्यो नमः शङ्कारूप... नालीकनीकाशपदादृताभ्यां ना... शुद्धस्फटिकसंकाशं शुद्धवि... ॥श्रीसदाशिवेन्द्रपञ्चरत्न... परतत्त्वलीनमनसे प्रणमद्भव... रीसच्चिदानन्द-शिवाभिनव-नृ... बुद्धाद्यागम बाह्य दुर्मत... प्रस्तावना शरीरं सुरूपं तथा वा कलत्र... यं विज्ञातुं भृगु पितरमुप... विश्वं दर्पणदृश्यमाननगरी... चलल्लोलकल्लोलकल्लोलिनीशस्... प्रह्लाद प्रभृरस्ति चेत्त... श्रीः ॥ विष्णोर्मुखोत्थान... श्रीः ॥ जय राम सदाराम सच्... अखण्डमण्डलाकारं व्याप्तं ... श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् - रीसच्चिदानन्द-शिवाभिनव-नृ... गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय. Tags : gurustotraगुरूस्तोत्र श्रीशङ्कराचार्यभुजङ्गप्रयात-स्तोत्रम् Translation - भाषांतर रीसच्चिदानन्द-शिवाभिनव-नृसिंह-भारती महास्वामिभिः श्रीकालटिक्षेत्रे विरचितं॥श्रीशङ्कराचार्यभुजङ्गप्रयात-स्तोत्रम्॥कृपासागरायाशुकाव्यप्रदाय प्रणम्राखिलाभीष्टसन्दायकाय ।यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय प्रबोधप्रदात्रे नमः शङ्कराय ॥१॥चिदानन्दरूपाय चिन्मुद्रिकोद्य- त्करायेशपर्यायरूपाय तुभ्यम् ।मुदा गीयमानाय वेदोत्तमाङ्गैः श्रितानन्ददात्रे नमः शङ्कराय ॥२॥जटाजूटमध्ये पुरा या सुराणां धुनी साद्य कर्मन्दिरूपस्य शम्भोःगले मल्लिकामालिकाव्याजतस्ते विभातीति मन्ये गुरो किं तथैव ॥३॥नखेन्दुप्रभाधूतनम्रालिहार्दा- न्धकारव्रजायाब्जमन्दस्मिताय ।महामोहपाथोनिधेर्बाडबाय प्रशान्ताय कुर्मो नमः शङ्कराय ॥४॥प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे दिवारात्रमव्याहतोस्राय कामम् ।क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां विहीनाय कुर्मो नमः शङ्कराय ॥५॥प्रणम्रास्यपाथोजमोदप्रदात्रे सदान्तस्तमस्तोमसंहारकर्त्रे ।रजन्या मपीद्धप्रकाशाय कुर्मो ह्यपूर्वाय पूष्णे नमः शङ्कराय ॥६॥नतानां हृदब्जानि फुल्लानि शीघ्रं करोम्याशु योगप्रदानेन नूनम् ।प्रबोधाय चेत्थं सरोजानि धत्से प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥७॥प्रभाधूतचन्द्रायुतायाखिलेष्ट- प्रदायानतानां समूहाय शीघ्रम्।प्रतीपाय नम्रौघदुःखाघपङ्क्ते- र्मुदा सर्वदा स्यान्नमः शङ्कराय ॥८॥ विनिष्कासितानीश तत्त्वावबोधा - न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।रजांसि प्रपन्नानि पादाम्बुजातं गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥९॥मतेर्वेदशीर्षाध्वसम्प्रापकाया- नतानां जनानां कृपार्द्रैः कटाक्षैः ।ततेः पापबृन्दस्य शीघ्रं निहन्त्रे स्मितास्याय कुर्मो नमः शङ्कराय ॥१०॥सुपर्वोक्तिगन्धेन हीनाय तूर्णं पुरा तोटकायाखिलज्ञानदात्रे।प्रवालीयगर्वापहारस्य कर्त्रे पदाब्जम्रदिम्ना नमः शङ्कराय ॥११॥भवाम्भोधिमग्नान्जनान्दुःखयुक्तान् जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।विदित्वा हि ते कीर्तिमन्यादृशाम्भो सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ॥१२॥॥इति श्रीशङ्कराचार्य-भुजङ्गप्रयातस्तोत्रम्॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP