अथ चतुर्थस्तोत्रम्

मध्वाचार्य (१२३८-१३१७ ईस्वी) हे तेराव्या शतकातील महान भारतीय दार्शनिक आणि वेदांतातील द्वैतवाद (तत्ववाद) संप्रदायाचे संस्थापक होते.


निजपूर्णसुखामितबोधतनुः परशक्तिरनंतगुणः परमः ।
अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥१॥

यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥२॥ (सुमतिप्रभवम्)
बहुचित्रजगत् बहुधाकरणात्परशक्तिरनंतगुणः परमः ।
सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥३॥

स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥४॥

विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोभिदमीशमनंतमुपास्व हरिम् ॥५॥

न हि विश्वसृजो विभुशंभुपुरंदर सूर्यमुखानपरानपरान् ।
सृजतीड्यतमोऽवति हंति निजं पदमापयति प्रणतां स्वधिया ॥६॥

परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥७॥

इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।
सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥८॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु चतुर्थस्तोत्रं संपूर्णम्

N/A

References : N/A
Last Updated : August 12, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP