अथ प्रथमस्तोत्रम्

मध्वाचार्य (१२३८-१३१७ ईस्वी) हे तेराव्या शतकातील महान भारतीय दार्शनिक आणि वेदांतातील द्वैतवाद (तत्ववाद) संप्रदायाचे संस्थापक होते.


वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् ।
इंदिरापतिमाद्यादि वरदेश वरप्रदम् ॥१॥

नमामि निखिलाधीश किरीटाघृष्टपीठवत् ।
हृत्तमः शमनेऽर्काभं श्रीपतेः पादपंकजम् ॥२॥

जांबूनदांबराधारं नितंबं चिंत्यमीशितुः ।
स्वर्णमंजीरसंवीतं आरूढं जगदंबया ॥३॥

उदरं चिंत्यं ईशस्य तनुत्वेऽपि अखिलंभरम् ।
वलित्रयांकितं नित्यं आरूढं श्रियैकया ॥४॥

स्मरणीयमुरो विष्णोः इंदिरावासमुत्तमैः । वर्
इंदिरावासमीशितुः इंदिरावासमुत्तमम्
अनंतं अंतवदिव भुजयोरंतरंगतम् ॥५॥

शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥६॥

संततं चिंतयेत्कंठं भास्वत्कौस्तुभभासकम् ।
वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥७॥

स्मरेत यामिनीनाथ सहस्रामितकांतिमत् ।
भवतापापनोदीड्यं श्रीपतेः मुखपंकजम् ॥८॥

पूर्णानन्यसुखोद्भासिं अंदस्मितमधीशितुः ।
गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥९॥

स्मरामि भवसंताप हानिदामृतसागरम् ।
पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥१०॥

ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभंगं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥११॥

संततं चिंतयेऽनंतं अंतकाले । (अंत्यकाले विशेषतः)
नैवोदापुः गृणंतोऽंतं यद्गुणानां अजादयः ॥१२॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु प्रथमस्तोत्रं संपूर्णम्

N/A

References : N/A
Last Updated : August 12, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP