मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|श्री मध्वाचार्य कृत द्वादश स्तोत्र| अथ तृतीयस्तोत्रम् श्री मध्वाचार्य कृत द्वादश स्तोत्र अथ प्रथमस्तोत्रम् अथ द्वितीयस्तोत्रम् अथ तृतीयस्तोत्रम् अथ चतुर्थस्तोत्रम् अथ पंचमस्तोत्रम् अथ षष्ठस्तोत्रम् अथ सप्तमस्तोत्रम् अथ अष्टमस्तोत्रम् अथ नवमस्तोत्रम् अथ दशमस्तोत्रम् अथ एकादशस्तोत्रम् अथ द्वादशस्तोत्रम् अथ तृतीयस्तोत्रम् मध्वाचार्य (१२३८-१३१७ ईस्वी) हे तेराव्या शतकातील महान भारतीय दार्शनिक आणि वेदांतातील द्वैतवाद (तत्ववाद) संप्रदायाचे संस्थापक होते. Tags : dvadashamadhvacharyastotraद्वादशमध्वाचार्यस्तोत्र अथ तृतीयस्तोत्रम् Translation - भाषांतर कुरु भुंक्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् ।हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥१॥न ततोऽस्त्यपरं जगदीड्यतमं (जगतीड्यतमं) परमात्परतः पुरुषोत्तमतः ।तदलं बहुलोकविचिंतनया प्रवणं कुरु मानसमीशपदे ॥२॥यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति ।स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥३॥शऋणुतामलसत्यवचः परमं शपथेरितं उच्छ्रितबाहुयुगम् ।न हरेः परमो न हरेः सदृशः परमः स तु सर्व चिदात्मगणात् ॥४॥यदि नाम परो न भवेत (भवेत्स) हरिः कथमस्य वशे जगदेतदभूत् ।यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥५॥न च कर्मविमामल कालगुणप्रभृतीशमचित्तनु तद्धि यतः ।चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥६॥व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् ।बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥७॥चतुरानन पूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा ।नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥८॥आनंदतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा ।कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥९॥इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितंद्वादशस्तोत्रेषु तृतीयस्तोत्रं संपूर्णम् N/A References : N/A Last Updated : August 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP