सप्तमः खण्डः वाराहीक्रमः
परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे
इत्थं साङ्गां सङ्गीतमातृकामिष्ट्वा
संवित्साम्राज्ञीसिंहासनाधिरूढाया
ललिताया महाराज्ञ्या दण्डनायिकास्थानीयां
दुष्टनिग्रहशिष्टानुग्रहनिरर्गलाज्ञाचक्रां समयसङ्केतां
कोलमुखीं विधिवद्वरिवस्येत् ॥१॥
तत्रायं क्रमो महारात्रे बुद्ध्वा स्वहृदयपरमाकाशे ध्वनन्तम्
अनाहतध्वनिमूर्जितानन्ददायकमवमृश्य ॥२॥
शिवादिश्रीगुरुभ्यो नमः - इति मूर्ध्नि बध्नीयादञ्जलिम् ॥३॥
वाचमुच्चार्य ग्लौम् - इति च पद्धतावस्यां सर्वे मनवो जप्याः ॥४॥
मूलादिषण्मन्त्रैः यथामन्त्रं लिङ्गदेहं शोधयेत् ॥५॥
मूलशृङ्गाटकात् सुषुम्नापथेन जीवशिवं परशिवे
योजयामि स्वाहा - यं सङ्कोचशरीरं शोषय शोषय स्वाहा
- रं सङ्कोचशरीरं दह दह पच पच स्वाहा - वं
परमशिवामृतं वर्षय वर्षय स्वाहा -
लं शाम्भवशरीरमुत्पादयोत्पादय स्वाहा -
हंसः सोऽहमवतरावतर शिवपदात् जीव
सुषुम्नापथेन प्रविश मूलश्रृङ्गाटकमुल्लसोल्लस ज्वल ज्वल
प्रज्वल प्रज्वल हंसः सोऽहं स्वाहा - इति भूतशुद्धिं विधाय ॥६॥
मातृकासम्पुटितां द्वितारीं काननवृत्तद्व्यक्षिश्रुति
नासागण्डोष्ठदन्तमूर्धास्यदोः पत्सन्ध्यग्रपार्श्व-
द्वयपृष्ठनाभिजठरहृद्दोर्मूलापरगल
कक्षहृदादिपाणिपादयुगलजठराननेषु विन्यस्य ॥७॥
अन्धे प्रभृति सप्तार्णपञ्चकमङ्गुष्ठादिकनिष्ठान्तम् ॥८॥
वाङ्नमो भगवतीत्यारभ्य त्रयोदशभिर्हृदयं षड्भिः शिरः -
दशभिः शिखां, सप्तभिः सप्तभिः सप्तभिः कवचनेत्रास्त्राणि
विन्यस्य ॥९॥
गन्धादिभिरलङ्कृत्य अर्घ्यं शोधयेत् ॥१०॥
आत्मनोऽग्रभागे गोमयेन विलिप्ते हेतुमिश्रितजलेन
चतुरस्रं वर्तुलं षट्कोणं त्रिकोणमन्तरान्तरं - विलिख्य -
अर्घ्यशोधनमनुभिः श्यामाक्रमोक्तैः आधारार्घ्यपात्राणि
संशोध्य - सामान्येनाभ्यर्च्य - तदर्घ्यं वषडित्युद्धृत्य -
स्वाहेति संस्थाप्य हुं - इत्यवकुण्ठ्य - वौषट् इत्यमृतीकृत्य
फडिति संरक्ष्य - नमः - इति पुष्पं निक्षिप्य मूलेन निरीक्ष्य
तत्पृषतैः पावयित्वा सपर्यावस्तूनि ॥११॥
(१) शिरोवदनहृद्गुह्यपादेषु पूर्वोक्तसप्तकपञ्चकं विन्यस्य
(२) विद्यामष्टधा खण्डयित्वा पादादिजानु-जान्वादिकटि-कट्यादिनाभि-नाभ्यादि
हृदय - हृदयादिकण्ठ - कण्ठादिभ्रूमध्य - भ्रूमध्यादिललाट -
ललाटादिमौलिषु एकत्रिंशत् सप्त सप्त सप्त
सप्त सप्त पञ्चत्रिंशदेकादशार्णखण्डान्
(३) मातृकास्थानेषु मूलमनुपदानि च न्यस्य ॥१२॥
पूर्वोक्तानष्टखण्डानेकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्लां
शर्वाय क्षितितत्त्वाधिपतये - ह्लीं भवाय अम्बु-तत्त्वाधिपतये ह्लूं
रुद्राय वह्नि तत्त्वाधिपतये - ह्लैं उग्राय वायुतत्त्वाधिपतये ह्लौं
ईशानाय भानु-तत्त्वाधिपतये सों महादेवाय सोमतत्त्वाधिपतये हं
महादेवाय यजमानतत्त्वाधिपतये औं भीमाय आकाशतत्त्वाधिपतये
नमः - इति तत्त्वन्यासः ॥१३॥
मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा ॥१४॥
पुरतः पटपट्टसुवर्णरजतताम्रचन्दनपीठादिनिर्मितं
दृष्टिमनोहरं
चतुरस्रत्रय-सहस्रपत्र-शतपत्राष्टपत्र-षडस्र
पञ्चास्रत्र्यस्र-बिन्दुलक्षणं कोलमुखीचक्रं विरच्य ॥१५॥
तत्र कुसुमाञ्जलिं विकीर्य स्वर्णप्राकाराय सुधाऽब्धये
वराहद्वीपाय वराहपीठाय नमः इति । आं -आधारशक्तये कुं
कूर्माय कं कन्दाय अं -अनन्तनालाय नमः - इति च धर्मादिभिः
सह षोडशमन्त्रैः पीठे अभ्यर्च्य ॥१६॥
त्रिपञ्चषडरदलाष्टकशतसहस्रारपद्मासनाय नमः
- इति चक्रमनुना चक्रमिष्ट्वा ॥१७॥
वह्निमण्डलाय सूर्यमण्डलाय सोममण्डलाय नमः - इति त्रयो
गुणमन्त्राः -आत्ममन्त्राः चत्वारः - इति सप्तविंशतिकमिदं
पीठे वरिवसनीयम् ॥१८॥
हौं प्रेतपद्मासनाय सदाशिवाय नमः - इति चक्रोपरि
देव्यासनविमृष्टिः ॥१९॥
ॡ षा ई वाराहीमूर्तये ठः ठः ठः ठः हुं फट् - इति
वाग्ग्लौमादि ग्लौंवागन्ता मूर्तिकरणी विद्या ॥२०॥
मूलविद्यया आवाहनसंस्थापनसंनिधापनसंनिरोधन
सम्मुखी करणावकुण्ठनवन्दनधेनुयोनीर्बद्ध्वा ॥२१॥
देव्यङ्गन्यस्तषडङ्गपञ्चाङ्गः ॥२२॥
पाद्यार्घ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजन
छत्रचामरदर्पणरक्षाचमनीयनैवेद्यपानीयताम्बूलाख्य
षोडशोपचारकॢप्त्यन्ते ॥२३॥
ध्यानं देव्याः मेघमेचका
कुटिलदंष्ट्रा कपिलनयना घनस्तनमण्डला
चक्रखड्गमुसलाभयशङ्खखेटहलवरपाणिः पद्मासीना
वार्ताली ध्येया ॥२४॥
दशधा तस्यास्तर्पणं कुर्यात् ॥२५॥
त्र्यस्रे जम्भिनीमोहिनीस्तम्भिन्यः ॥२६॥
पञ्चारे अन्धिनीरुन्धिन्यौ ताश्च ॥२७॥
षट्कोणे आक्षाई ब्रह्माणी ईलाई माहेश्वरी ऊहाई कौमारी ॠसाई
वैष्णवी ऐशाई इन्द्राणी औवाई चामुण्डा तस्यैवाग्रेषु मध्ये
च यमरयूं यां यीं यूं यैं यौं यः याकिनि जम्भय जम्भय
मम सर्वशत्रूणां त्वग्धातुं गृह्ण गृह्ण अणिमाऽऽदिवशं
कुरु कुरु स्वाहेति । अन्यासां धातुनाथानामप्येवं बीजे नामनि
धातौ त्वाराधनकर्मणि मन्त्रसन्नामः ।
रमरयूं राकिणि रक्तधातुं
पिब पिब लमरयूं लाकिनि मांसधातुं भक्षय भक्षय
डमरयूं डाकिनि मेदोधातुं ग्रस ग्रस कमरयूं काकिनि
अस्थिधातुं जम्भय जम्भय समरयूं साकिनि मज्जाधातुं
गृह्ण गृह्ण हमरयूं हाकिनि शुक्रधातुं पिब पिब
अणिमाऽऽदिवशं कुरु कुरु स्वाहा - इति धातुनाथयजनम् ॥२८॥
अनन्तरं षडस्रोभयपार्श्वयोः क्रोधिनीस्तम्भिन्यौ
चामरग्राहिण्यौ तत्रैव स्तम्भनमुसलायुधाय
आकर्षणहलायुधाय नमः षडराद्बहिः पुरतो देव्याः क्ष्रौं
क्रौं चण्डोच्चण्डाय नमः - इति तद्यजनम् ॥२९॥
अष्टदले वार्तालीवाराहीवराहमुख्यन्धिन्यादयः पञ्च
तद्बहिः महामहिषाय देवीवाहनाय नमः ॥३०॥
(१) शतारे देवीपुरतो दलसन्धौ जम्भिन्या इन्द्रायाप्सरोभ्यः
सिद्धेभ्यो द्वादशादित्येभ्योऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्यो
विश्वकर्मणे यमाय मातृभ्यो रुद्रपरिचारकेभ्यो रुद्रेभ्यो
मोहिन्यै निरृतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूतगणेभ्यो
वरुणाय वसुभ्यो विद्याधरेभ्यः किन्नरेभ्यो वायवे स्तम्भिन्यै
चित्ररथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्यो
विष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नमः -
इति देवतामण्डलमिष्ट्वा (२) तद्बहिः औं क्षौं क्षेत्रपालाय
नमः सिंहवराय देवीवाहनाय नमः - इति च तदुभयं
वरिवस्येत् । तद्बहिः महाकृष्णाय मृगराजाय देवीवाहनाय
नमः - इति तत्पूजा ॥३१॥
(१) सहस्रारे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनाय
कुमुदायाञ्जनाय पुष्पदन्ताय सार्वभौमाय सुप्रतीकाय नमः - इति
तत्पूजा बहिः सुधाऽब्धेर्वा ।
(२) बाह्यप्राकाराष्टदिक्षु अध
उपरि च हेतुकादयः - भैरवक्षेत्रपालशब्दयुक्ताः
प्रत्येकं क्षौमादयश्च यष्टव्याः ।
हेतुकत्रिपुरान्तकाग्नियमजिह्वैकपादकालकरालभीमरूप
हाटकेशाचलाः दश भैरवाः ॥३२॥
एवं षडावरणीमिष्ट्वा पुनर्देवीं त्रिधा सन्तर्प्य
सर्वैरुपचारैरुपचर्य ॥३३॥
पुरतो वामभागे हस्तमात्रं जलेनोपलिप्य
रुधिरान्नहरिद्राऽन्नमहिषपलसक्तुशर्कराहेतु
फलत्रयमाक्षिकमुद्गत्रयमाषचूर्णदधिक्षीरघृतैः
शुद्धोदनं सम्मर्द्य चरणायुधाण्डप्रमाणान् दशपिण्डान् विधाय
तत्र निधाय कपित्थफलमानमेकं पिण्डं च तत्समीपे
सादिमोपादिममध्यमं चषकं च निक्षिप्य दशपिण्डान् हेतुकादिभ्यो
मध्यमपिण्डं चषकं च चण्डोच्चण्डाय तत्तन्मन्त्रैः दत्वा
वृन्दमाराध्य ॥३४॥
यथाविभवं श्रीगुरुं सन्तोष्य ॥३५॥
सम्पूर्णयौवनाः सलक्षणामदनोन्मादिनीस्तिस्रः शक्तीराहूय
बटुकं चैकमभ्यर्च्य स्नपयित्वा गन्धादिभिरलङ्कृत्य
वार्तालीबुद्ध्या एकां शक्तिं मध्ये क्रोधिनीस्तम्भिनीबुद्ध्या द्वे
इतरे पार्श्वयोश्चण्डोच्चण्डधिया बटुकमग्रे स्थापयित्वा
सर्वैर्द्रव्यैः सन्तोष्य मम श्रीवार्तालीमन्त्रसिद्धिर्भूयादिति ताः
प्रतिवदेत् ताश्च प्रसीदन्त्वधिदेवताः - इति ब्रूयुः ॥३६॥
एवं सपरिवारामुदारां भूदारवदनामुपतोष्य लक्षं
पुरश्चरणं कृत्वा तद्दशांशं तापिच्छकुसुमैर्हुत्वा मन्त्रं
साधयेत् ॥३७॥
ततश्च पूजितां देवीमात्मनि योजयित्वा स्वैरं विहरन्नाज्ञासिद्धः
सुखी विहरेत् - इति शिवम् ॥३८॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
वाराहीक्रमो नाम सप्तमः खण्डः समाप्तः ॥ ७॥
N/A
References : N/A
Last Updated : February 05, 2026

TOP