तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


एवं गणपतिमिष्ट्वा विधूतसमस्तविघ्नव्यतिकरः
शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत ॥१॥
ब्राह्मे मुहूर्ते ब्राह्मणो मुक्तस्वापः पापविलापाय परमशिवरूपं
गुरुमभिमृश्य ॥२॥
मूलादिविधिबिलपर्यन्तं तडित्कोटिकडारां
तरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं ध्यात्वा
तद्रश्मिनिहतकश्मलजालः कादिं हादिं वा मूलविद्यां मनसा
दशवारमावर्त्य ॥३॥
स्नानकर्मणि प्राप्ते मूलेन दत्वा त्रिः सलिलाञ्जलीन् त्रिस्तदभिमन्त्रिताः
पीत्वाऽपस्त्रिस्सन्तर्प्य त्रिः प्रोक्ष्यात्मानं
परिधाय वाससी ह्रां ह्रीं ह्रूं सः इत्युक्त्वा मार्ताण्डभैरवाय
प्रकाशशक्तिसहिताय स्वाहेति त्रिस्सवित्रे दत्तार्घ्यः ॥४॥
तन्मण्डलमध्ये नवयोनिचक्रमनुचिन्त्य वाचमुच्चार्य
त्रिपुरसुन्दरि विद्महे काममुच्चार्य पीठकामिनि धीमहि शक्तिं
उच्चार्य तन् नः क्लिन्ना प्रचोदयाद् इति त्रिर्महेश्यै दत्तार्घ्यः
शतमष्टोत्तरमामृश्य मनुं मौनमालम्ब्य ॥५॥
यागमन्दिरं गत्वा कॢप्ताकल्पस्सङ्कल्पाकल्पो वा पीठमनुना आसने
समुपविष्टः ॥६॥
त्रितारीमुच्चार्य रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम
इति भूमौ मुञ्चेत् पुष्पाञ्जलिम् ॥७॥
सर्वेषां मन्त्राणामादौ त्रितारीसंयोगः । त्रितारी वाङ्मायाकमलाः ॥८॥
पुरतः पञ्चशक्तिचतुःश्रीकण्ठमेलनरूपं
भूसदनत्रयवलित्रयभूपपत्रदिक्पत्रभुवनार
द्रुहिणारविधिकोणदिक्कोणत्रिकोणबिन्दुचक्रमयं
महाचक्रराजं सिन्दूरकुङ्कुमलिखितं
चामीकरकलधौतपञ्चलोहरत्नस्फटिकाद्युत्कीर्णं वा
निवेश्य ॥९॥
तत्र महाचक्रे अमृताम्भोनिधये रत्नद्वीपाय
नानावृक्षमहोद्यानाय कल्पवृक्षवाटिकायै
सन्तानवाटिकायै हरिचन्दनवाटिकायै मन्दारवाटिकायै
पारिजातवाटिकायै कदम्बवाटिकायै पुष्परागरत्नप्राकाराय
पद्मरागरत्नप्राकाराय गोमेधरत्नप्राकाराय
वज्ररत्नप्राकाराय वैडूर्यरत्नप्राकाराय
इन्द्रनीलरत्नप्राकाराय मुक्तारत्नप्राकाराय
मरकतरत्नप्राकाराय विद्रुमरत्नप्राकाराय
माणिक्यमण्डपाय सहस्रस्तम्भमण्डपाय अमृतवापिकायै
आनन्दवापिकायै विमर्शवापिकायै बालातपोद्गाराय
चन्द्रिकोद्गाराय महाश‍ृङ्गारपरिघायै
महापद्माटव्यै चिन्तामणिगृहराजाय
पूर्वाम्नायमयपूर्वद्वाराय दक्षिणाम्नायमयदक्षिणद्वाराय
पश्चिमाम्नायमयपश्चिमद्वारायोत्तराम्नायमयोत्तरद्वाराय
रत्नप्रदीपवलयाय मणिमयमहासिंहासनाय
ब्रह्ममयैकमञ्चपादाय विष्णुमयैकमञ्चपादाय
रुद्रमयैकमञ्चपादाय ईश्वरमयैकमञ्चपादाय
सदाशिवमयैकमञ्चफलकाय हंसतूलतल्पाय
हंसतूलमहोपधानाय कौसुम्भास्तरणाय महावितानकाय
महाजवनिकायै नमः - इति चतुश्चत्वारिंशन्मन्त्रैस्तत्तदखिलं
भावयित्वा अर्चयित्वा ॥१०॥
गन्धपुष्पाक्षतादींश्च दक्षिणभागे दीपान् अभितो दत्त्वा मूलेन
चक्रमभ्यर्च्य मूलत्रिखण्डैः प्रथमत्र्यस्रे ॥११॥
वाय्वग्निसलिलवर्णयुक्प्राणायामैः शोषणं सन्दहनमाप्लावनं
च विधाय ॥१२॥
त्रिः प्राणान् आयम्य ॥१३॥
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
इति वामपादपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रस्तालत्रयं
दत्वा देव्यहम्भावयुक्तः स्वशरीरे
वज्रकवचन्यासजालं विदधीत ॥१४॥
बिन्दुयुक् श्रीकण्ठानन्ततार्तीयैः मध्यमादितलपर्यन्तं
कृतकरशुद्धिः ॥१५॥
कुमारीमुच्चार्य महात्रिपुरसुन्दरीपदमात्मानं रक्ष रक्षेति
हृदये अञ्जलिं दत्त्वा ॥१६॥
मायाकामशक्तीरुच्चार्य देव्यात्मासनाय नमः - इति स्वस्यासनं
दत्त्वा ॥१७॥
शिवयुग्बालामुच्चार्य श्रीचक्रासनाय नमः -
शिवभृगुयुग्बालामुच्चार्य सर्वमन्त्रासनाय नमो
भुवना - मदनौ ब्लेमुच्चार्य साध्यसिद्धासनाय नमः - इति
चक्रमन्त्रदेवताऽऽसनं त्रिभिर्मन्त्रैश्चक्रे कृत्वा ॥१८॥
बाला-द्विरावृत्त्या त्रिद्व्येकदशत्रिसङ्ख्याऽङ्गुलिविन्यासैः
कॢप्तषडङ्गः ॥१९॥
सबिन्दूनचोब्लूमुच्चार्य वशिनीवाग्देवतायै नमः - इति
शिरसि । सर्वत्र वर्गाणां बिन्दुयोगः । कवर्गं कलह्रीं च
निगद्य कामेश्वरीवाग्देवतायै नमः - इति ललाटे । चुं गदित्वा
न्व्लीं मोदिनीवाग्देवतायै नमः - इति भ्रूमध्ये । टुं भणित्वा
य्लूं विमलावाग्देवतायै नमः - इति कण्ठे । तुं च प्रोच्य ज्म्रीं
अरुणावाग्देवतायै नमः - इति हृदि । पुं च ह्स्ल्व्यूं उच्चार्य
जयिनीवाग्देवतायै नमः - इति नाभौ । यादिचतुष्कं झ्म्र्यूं
उच्चार्य सर्वेश्वरीवाग्देवतायै नमः - इति लिङ्गे । शादिषट्कं
क्ष्म्रीं आख्याय कौलिनीवाग्देवतायै नमः - इति मूले ॥२०॥
मूलविद्यापञ्चदशवर्णान् मूर्ध्नि मूले हृदि चक्षुस्त्रितये
श्रुतिद्वयमुखभुजयुगलपृष्ठजानुयुगलनाभिषु
विन्यस्य षोढा चक्रे न्यस्यान्यस्य वा ॥२१॥
शुद्धाम्भसा वामभागे त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं
कृत्वा पुष्पैरभ्यर्च्य साधारं शङ्खं प्रतिष्ठाप्य
शुद्धजलमापूर्य आदिमबिन्दुं दत्त्वा षडङ्गेनाभ्यर्च्य विद्यया अभिमन्त्र्य
तज्जलविप्रुड्भिः आत्मानं पूजोपकरणानि च सम्प्रोक्ष्य ॥२२॥
तज्जलेन त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं कृत्वा
मध्यं विद्यया विद्याखण्डैस्त्रिकोणं बीजावृत्त्या षडश्रं
सम्पूज्य वाचमुच्चार्य अग्निमण्डलाय दशकलाऽऽत्मने
अर्घ्यपात्राधाराय नमः - इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः
कलाः ॥२३॥
मदनादुपरि सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय
नमः इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोममण्डलाय
षोडशकलाऽऽत्मने अर्घ्यामृताय नमः - इति पूरयित्वा आदिमं
दत्त्वोपादिममध्यमौ पूजयित्वा विधोः कलाषोडशकम् ॥२४॥
तत्र विलिख्य त्र्यस्रमकथादिमयरेखं
हलक्षयुगान्तस्थितहंसभास्वरं
वाक्कामशक्तियुक्तकोणं हंसेनाराध्य बहिर्वृत्तषट्कोणं
कृत्वा षडस्रं षडङ्गेन पुरोभागाद्यभ्यर्च्य मूलेन सप्तधा
अभिमन्त्र्य दत्तगन्धाक्षतपुष्पधूपदीपः तद्विप्रुड्भिः
प्रोक्षितपूजाद्रव्यः सर्वं विद्यामयं कृत्वा तत् स्पृष्ट्वा
चतुर्नवतिमन्त्रान् जपेत् ॥२५॥
त्रितारीनमस्सम्पुटिताः तेजस्त्रितयकला अष्टत्रिंशत् ।
सृष्टिऋद्धिस्मृतिमेधाकान्तिलक्ष्मीद्युतिस्थिरा-
स्थितिसिद्धयो ब्रह्मकला दश । जरा पालिनी
शान्तिरीश्वरी रतिकामिके वरदाह्लादिनी प्रीतिर्दीर्घा विष्णुकला दश ।
तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी
क्रियोद्गारीमृत्यवो रुद्रकला दश ।
पीता श्वेताऽरुणाऽसिताश्चतस्र ईश्वरकलाः ।
निवृत्तिप्रतिष्ठाविद्याशान्तीन्धिकादीपिकारेचिकामोचिका
परासूक्ष्मासूक्ष्मामृता-ज्ञानाज्ञानामृताप्यायिनीव्यापिनी
व्योमरूपाः षोडश सदाशिवकलाः ॥
हंसश्शुचिषद्वसुरन्तरिक्षसद्धोताव्वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्वयोमसदब्जा गोजा ऋतजा
अद्रिजा ऋतं बृहत् ॥
प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि व्विश्वा ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत् परमं पदम् ॥
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥
इत्येते पञ्चमन्त्राः ॥
मूलविद्या चाहत्य चतुर्नवतिमन्त्राः ॥२६॥
अथ हैके पञ्चभिरखण्डाद्यैरभिमन्त्रणमामनन्ति ॥२७॥
अखण्डैकरसानन्दकरै परसुधाऽऽत्मनि ।
स्वच्छन्दस्फुरणमत्र निधेह्यकुलनायिके ॥
अकुलस्थामृताकारे शुद्धज्ञानकरे परे ।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥
तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ।
भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥
इति तिस्रोऽनुष्टुभो विद्याः ॥२८॥
अथो वाचं ब्लूं झौमिति जूं सः - इति चोक्त्वा अमृते अमृतोद्भवे
अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो
मन्त्रः ॥२९॥
वाग्भवो वद वद ततो वाग्वादिनि वाङ्मदनक्लिन्ने
क्लेदिनि क्लेदय महाक्षोभं कुरुयुगलं मादनं शक्तिर्मोक्षं
कुरु कुरु शब्दो हस चतुर्दशपञ्चदशपिण्डः
सहचतुर्दशषोडशपिण्डश्चेति पञ्चमीयं विद्यैताभिः
अभिमन्त्र्य ज्योतिर्मयं तद् अर्घ्यं विधाय ॥३०॥
तद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामिष्ट्वा आर्द्रं ज्वलति
ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि
ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि
स्वाहेति तद्बिन्दुमात्मनः कुण्डलिन्यां जुहुयात् ॥३१॥
एतदर्घ्यशोधनमिति शिवम् ॥३२॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
श्रीक्रम नाम तृतीयः खण्डः समाप्तः ॥ ३॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP