संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र प्रथम भाग| पञ्चमः खण्डः ललितानवावरणपूजा परशुरामकल्पसूत्र प्रथम भाग अनुक्रमणिका प्रथमः खण्डः दीक्षाविधिः द्वितीयः खण्डः श्रीगणनायकपद्धतिः तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् पञ्चमः खण्डः ललितानवावरणपूजा षष्ठः खण्डः श्यामाक्रमः सप्तमः खण्डः वाराहीक्रमः अष्टमः खण्डः पराक्रमः नवमः खण्डः होमविधिः दशमः खण्डः सर्वसाधारणक्रमः पञ्चमः खण्डः ललितानवावरणपूजा परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम पञ्चमः खण्डः ललितानवावरणपूजा Translation - भाषांतर अथ प्राथमिके चतुरस्रे अणिमालघिमामहिमेशित्ववशित्वप्राकाम्यभुक्तीच्छाप्राप्तिसर्वकामसिद्ध्यन्ताः मध्यमे चतुरस्रेब्राह्म्याद्यामहालक्ष्म्यन्ताः तृतीये चतुरस्रेसंक्षोभणद्रावणकर्षणवश्योन्मादनमहाङ्कुशखेचरीबीजयोनित्रिखण्डाः सर्वपूर्वास्ताः सम्पूज्याः ॥१॥एताः प्रकटयोगिन्यस्त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयःसायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताःसन्त्विति तासामेव समष्ट्यर्चनं कृत्वा ॥२॥करशुद्धिमुच्चार्य त्रिपुराचक्रेश्वरीमवमृश्य द्रामितिसर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् । चक्रयोगिनीचक्रेशीनांनामानि भिन्नानि । शिष्टं समानम् ॥३॥षोडशपत्रे कामाकर्षिणी नित्याकलेति नित्याकलाऽन्ताःबुद्ध्याकर्षिणी-अहङ्काराकर्षिणी-शब्दाकर्षिणी-स्पर्शाकर्षिणी-रूपाकर्षिणी-रसाकर्षिणी-गन्धाकर्षिणी-चित्ताकर्षिणी-धैर्याकर्षिणी-स्मृत्याकर्षिणी-नामाकर्षिणी-बीजाकर्षिणी-आत्माकर्षिणी-अमृताकर्षिणी-शरीराकर्षिणी-एतागुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्राः इत्यादिपूर्ववत् आत्मरक्षामुच्चार्य त्रिपुरेशीमिष्ट्वा द्रीं - इतिसर्वविद्राविणीं प्रदर्शयेत् ॥४॥दिक्पत्रे कुसुमामेखलामदनामदनातुरारेखावेगिन्यङ्कुशामालिनीरनङ्गपूर्वाः संमृश्यैता गुप्ततरयोगिन्यःसर्वसंक्षोभणचक्रे समुद्राः इत्यादि पूर्ववदात्मासनमुच्चार्यत्रिपुरसुन्दरीमिष्ट्वा क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ॥५॥भुवनारे संक्षोभिणीद्राविण्याकर्षिण्याह्लादिनीसंमोहिनीस्तम्भिनीजृम्भिणीवशङ्करीरञ्जन्युन्मादिन्यर्थसाधिनी-सम्पत्तिपूरणी-मन्त्रमयी-द्वन्द्वक्षयङ्करीःसर्वादीरवमृश्यैताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे समुद्राः- इत्यादि मन्त्रशेषः चक्रासनमुच्चार्य त्रिपुरवासिनींचक्रेश्वरीमिष्ट्वा ब्लूं - इति सर्ववशङ्करीमुद्रामुद्घाटयेत् ॥६॥बहिर्दशारे सिद्धिप्रदासम्पत्प्रदाप्रियङ्करीमङ्गलकारिणीकामप्रदादुःखविमोचिनीमृत्युप्रशमनीविघ्ननिवारिण्यङ्ग-सुन्दरीसौभाग्यदायिनीः सर्वपूर्वाः सम्पूज्यैताःकुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचक्रे मनुशेषमुक्त्वामन्त्रासनमुच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्यस इत्युन्मादिनीमुद्रां दद्यात् ॥७॥अन्तर्दशारे ज्ञानशक्त्यैश्वर्यप्रदाज्ञानमयीव्याधिविनाशिन्याधारस्वरूपा-पापहराऽऽनन्दमयीरक्षास्वरूपिणीप्सितफलप्रदाःसर्वोपपदाः यष्टव्या एतानि गर्भयोगिन्यःसर्वरक्षाकरचक्रे शिष्टं तद्वत् साध्यसिद्धासनमुच्चार्यत्रिपुरमालिनी मान्या क्रोमिति सर्वमहाङ्कुशां दर्शयेत् ॥८॥अष्टारे वशिन्याद्यष्टकं नमःस्थाने पूजामन्त्रसन्नाम एतारहस्ययोगिन्यः सर्वरोगहरचक्रे शिष्टं स्पष्टं मूर्तिविद्यामुच्चार्यत्रिपुरासिद्धामाराध्य शिवभृगुऋद्धि-युक्फ्रें -इति खेचरी देया ॥९॥बाणबीजान्युच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः धंथं सर्वसंमोहनाय धनुषे आं ह्रीं सर्ववशीकरणायपाशाय क्रों सर्वस्तम्भनायाङ्कुशाय नमः - इतिमहात्र्यस्रबाह्यचतुर्दिक्षु बाणाद्यायुधपूजा ॥१०॥त्रिकोणे वाक्कामशक्तिसमस्तपूर्वाःकामेश्वरीवज्रेश्वरीभगमालिनीमहादेव्यः बिन्दौ चतुर्थी ॥११॥तिसृणामासामनन्तरमभेदाय मूलदेव्याः पूजा ।कामेश्वर्यादिचतुर्थी नित्यानां षोडशी चक्रदेवीनां नवमीबिन्दुचक्रस्था चेत्येकैव । न तत्र मन्त्रदेवताभेदः कार्यः। तन्महादेव्या एव । चतुर्षु स्थलेषु विशेषार्चनमावर्तते ॥१२॥एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टंद्रष्टव्यम् । आवाहनीमुच्चार्य त्रिपुराम्बां सम्भाव्य ह्सौं - इतिबीजमुद्राकृतिः ॥१३॥बिन्दुचक्रे मूलेन देवीमिष्ट्वा एषा परापररहस्ययोगिनीसर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहनासपरिवारा सर्वोपचारैः सम्पूजिताऽस्त्विति पुनर्मूलमुच्चार्यमहाचक्रेश्वरीमिष्ट्वा वाग्भवेन योनिं प्रदर्श्य ॥१४॥पूर्ववद्धूपदीपमुद्रातर्पणनैवेद्यादि दत्त्वा ॥१५॥बिन्दुना मुखं बिन्दुद्वयेन कुचौ सपरार्धेन योनिं कृत्वाकामकलामिति ध्यात्वा ॥१६॥सौभाग्यहृदयमामृश्य ॥१७॥वामभागविहितत्रिकोणवृत्तचतुरस्रेगन्धाक्षतार्चिते वाग्भवमुच्चार्य व्यापकमण्डलाय नमःइत्यर्धभक्तभरिताम्भसा आदिमोपादिममध्यमभाजनं तत्र न्यस्य ॥१८॥प्रणवमायाऽन्ते सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुंस्वाहा - इति त्रिः पठित्वा बलिं दत्त्वा ॥१९॥प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य ॥२०॥तद्रूपिणीमेकां शक्तिं बालयोपचारैः सम्पूज्य तां मपञ्चकेनसन्तर्प्य ॥२१॥शिष्टैः सार्धं चिदग्नौ हविश्शेषं हुत्वा ॥२२॥खेचरीं बद्ध्वा क्षमस्वेति विसृज्य तामात्मनिसंयोजयेत् इति शिवम् ॥२३॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेललितानवावरणपूजा नाम पञ्चमः खण्डः समाप्तः ॥ ५॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP