अद्वैतमकरन्दः
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
॥अथ अद्वैतमकरन्दः ॥
कटाक्षकिरणाचान्तनमन्मोहाब्धये नमः ।
अनन्तानन्दकृष्णाय जगन्मङ्गलमूर्तये ॥१॥
अहमस्मि सदा भामि कदाचिन्नाहमप्रियः ।
ब्रह्मैवाऽहमतः सिद्धं सच्चिदानन्दलक्षणम् ॥२॥
मय्येवोदेति चिद्व्योम्नि जगद्गन्धर्वपत्तनम् ।
अतोऽहं न कथं ब्रह्म सर्वज्ञं सर्वकारणम् ॥३॥
न स्वतः प्रत्यभिज्ञानान्निरंशत्वान्न चान्यतः ।
न चाश्रयविनाशान्मे विनाशः स्यादनाश्रयात् ॥४॥
न शोषप्लोषविक्लेदच्छेदाश्चिन्नभसो मम ।
सत्यैरप्यनिलाग्न्यम्भः शस्त्रैः किमुत कल्पितैः ॥५॥
आभारूपस्य विश्वस्य भानं भासंनिधेर्विना ।
कदाचिन्नावकल्पेत भा चाहं तेन सर्वगः ॥६॥
न हि भानादृते सत्त्वं नर्ते भानं चितोऽचितः ।
चित्सम्भेदोऽपि नाध्यासादृते तेनाहमद्वयः ॥७॥
न देहो नेन्द्रियं चाहं न प्राणो न मनो न धीः ।
ममतापरिरब्धत्वादाक्रीडत्वादिदं धियः ॥८॥
साक्षी सर्वान्वितः प्रेयानहं नाहं कदाचन ।
परिणामपरिच्छेदपरितापैरुपप्लवात् ॥९॥
सुप्तेऽहमि न दृश्यन्ते दुःखदोषप्रवृत्तयः ।
अतस्तस्यैव संसारो न मे संसर्तृसाक्षिणः ॥१०॥
सुप्तः सुप्तिं न जनाति नाऽसुप्ते स्वप्नजागरौ ।
जाग्रत्स्वप्नसुषुप्तीनां साक्ष्यतोऽहमतदृशः ॥११॥
विज्ञानविरतिः सुप्तिस्तज्जन्म स्वप्नजागरौ ।
तत्साक्षिणः कथं मे स्युर्नित्यज्ञानस्य ते त्रयः ॥१२॥
षड्विकारवतां वेत्ता निर्विकारोऽहमन्यथा ।
तद्विकारानुसन्धानं सर्वथा नावकल्पते ॥१३॥
तेन तेन हि रूपेण जायते लीयते मुहुः ।
विकारि वस्तु तस्यैषामनुसन्धातृता कुतः ॥१४॥
न च स्वजन्म नाशं वा द्रष्टुमर्हति कश्चन ।
तौ हि प्रागुत्तराभावचरमप्रथमक्षणौ ॥१५॥
न प्रकाशेऽहमित्युक्तिर्यत्प्रकाशैकबन्धना ।
स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् ॥१६॥
तथाप्याभाति कोऽप्येष विचाराभावजीवनः ।
अवश्यायश्चिदाकाशे विचारार्कोदयावधिः ॥१७॥
आत्माज्ञानमहानिद्राजृम्भितेऽस्मिन् जगन्मये ।
दीर्घस्वप्ने स्फुरन्त्येते स्वर्गमोक्षादिविभ्रमाः ॥१८॥
जडाजडविभागोऽयमजडे मयि कल्पितः ।
भित्तिभागे समे चित्रचराचरविभागवत् ॥१९॥
चेत्योपरागरूपा मे साक्षितापि न तात्त्विकी ।
उपलक्षणमेवेयं निस्तरङ्गचिदम्बुधेः ॥२०॥
अमृताब्धेर्न मे जीर्णिर्मृषा डिण्डीरजन्मभिः ।
स्फटिकार्द्रो मे रागः स्वाप्नसंध्याभ्रविभ्रमैः ॥२१॥
स्वरूपमेव मे सत्त्वं न तु धर्मो नभस्त्ववत् ।
मदन्यस्य सतोऽभावान्न हि सा जातिरिष्यते ॥२२॥
स्वरूपमेव मे ज्ञानं न गुणः स गुणो यदि ।
अनात्मत्वमसत्त्वं वा ज्ञेयाज्ञेयत्वयोः पतेत् ॥२३॥
अहमेव सुखं नान्यदन्यच्चेन्नैव तत् सुखम् ।
अमदर्थं न हि प्रेयो मदर्थं न स्वतः प्रियम् ॥२४॥
न हि नानास्वरूपं स्यादेकं वस्तु कदाचन ।
तस्मादखण्ड एवास्मि विजहज्जागतीं भिदाम् ॥२५॥
परोक्षतापरिच्छेदशाबल्यापोहनिर्मलम् ।
तदसीति गिरा लक्ष्यमहमेकरसं महः ॥२६॥
उपशान्तजगज्जीवशिष्याचार्येश्वरभ्रमम् ।
स्वतः सिद्धमनाद्यन्तं परिपूर्णमहं महः ॥२७॥
लक्ष्मीधरकवेः सूक्तिशरदम्भोजसम्भृतः ।
अद्वैतमकरन्दोऽयं विद्वद्भृङ्गैर्निपीयताम् ॥२८॥
N/A
References : N/A
Last Updated : January 07, 2026

TOP