TransLiteral Foundation

श्रीधर स्तुतिमणिमाला
श्रीशिवाय परस्मै ब्रह्मणे नम:
॥श्रीधर स्तुतिमणिमाला॥
॥आख्याषष्ठि: प्रारम्भ:॥


शिवं परमकल्याणं अव्याज करुणानिधिम् ।
तदाख्यां सौख्यजननी वन्दे वक्त्रार्तिहारिणीम् ॥१॥
शिवाख्ये नो जाने शिवमितरदेवानपि जनन्येक्वामी क्वासावहमहह दिष्टया तु भवतीम्
समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां स्वलब्धृस्वाधीनाखिलभुवन साम्राज्य विभवाम् ॥२॥
स्वकीयै: स्त्रोतोभिर्जगदखिलमाक्रामति कलौ
निमग्रास्ते वर्णाश्रमनियमधर्मा: स्फुटमिदम् ।
प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥३॥
शिवाख्ये वाच्योऽर्थस्तव हि पुरभिद्वास्तु मुरभित् ।
स लोकानामीष्टामवतु च सुखेन श्रितजनम् ।
अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे श्रितोऽहं त्वां यत्त्वद्भवति ममकल्याणि तदलम् ॥४॥
स्वयंभू दैत्यारि त्रिपुरमथनानीरितकृत: त्रिलोकी साम्राज्यं तदपि नयनादेशवशगम् ।
विधातुं त्वद्भाजस्त्वमलमलघुस्ते हि महिमा महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥५॥
करालाद्यत् क्ष्वेळाञ्जगदवितवानिन्दुमकुट: कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूढामणिसुतम् ।
अनल्पै: किञ्चल्पै: तदिदमिदमवनीयस्य रसनाकृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपो: ॥६॥
शतंसन्त्वाम्रायाश्शतमपि पुराणागमगणा: विहाय त्वामेते वितरितुमलं किं शिवधियम् ।
अशेषग्लानिं या हरति भवती तु श्रममृते शिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥७॥
त्रिणेत्रस्य ग्लानिस्त्रिपुरदनुजादीन६ मुररिपो: दशग्रीवप्रतिष्ठानपि दलयितुं हन्त कियती ।
नियन्त्री या तेषां निखिलजगतो‍ऽप्याशु दळयस्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥८॥
भवत्या: पन्थानश्शतमखमुख श्रीभिरभित: सुधासारैस्सिक्ता: कुसुमसमवायैश्च निचिता: ।
क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इत: करालम्बौ जाग्रद्विनयभरया मुक्तिरमया ॥९॥
शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिणयनम् ।
विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥१०॥
समाचक्षाणस्य स्मरभिदभिधे देवि भवतीमहो यस्यां यस्यां हरिति नयनान्तोऽवतरति ।
हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटा: शरज्ज्योत्स्त्रा गौरास्सहगिरिजयोद्यन्ति शतश: ॥११॥
शिव: कामं क्रोधाकुलमतिरजैषीत् त्वदनुगै: जित: काम: क्रोधोऽप्यथ मुनिकुमारं यमभयात् ।
शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतोऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगै: ॥१२॥
चरन्तीं त्वच्छायां शशिवदुपवाराशि वसतीत्यदोमुख्यासूक्तिष्वपि रसनया सडकलयत: ।
परागं ब्रह्माद्या: पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वन्निष्ठेर्जितमिति किमम्बाद्भुतमिदम् ॥१३॥
भवत्यां स्पृष्टायां बत पुरहाराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता ।
हुताशेनाश्च्लिष्टो भवति च करोऽडगानि भुजगै: भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥१४॥
दशायामन्त्यायां दळितबलदीनेन्द्रियततौ महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती ।
भवत्येकैवास्य प्रतिभवति भद्राय महते तदा केनान्येनोन्मिषतुकणिका वाप्युपकृते: ॥१५॥
मनागप्यस्पृष्टा गहनदहनेनेह विषयाभिधानेनानेन क्षितिधरसुतानेतुरभिधे ।
रमन्ते कामं ते कतिचिदधि कल्लोलितसुधाझरायां धारायां शिशिरशिशिरायां सुकृतिन: ॥१६॥
वधूटीपुत्रादीन्‍ वसुविसरमानम्र नृपतिच्छटाचूडारत्नच्छविकवचिताशां श्रियमपि ।
जहत्येके धन्या जगति मदनद्रोग्धुरभिधे विहारे सोत्कण्ठाविहतिरहिते त्वल्लहरिषु ॥१७॥
अजस्त्रं तन्वाना: श्वसितुमपि मामक्षममिमं कदा वा क्रामन्तु प्रतिहतकराळोपहतय: ।
पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुखप्रतीपेभध्वंस प्रबलहरयस्त्वल्लहरय: ॥१८॥
शिवाख्ये त्वत्स्त्रोतस्ततिषु विहतिं बाधिषतमा: । प्रकामं बाधन्तामितरमखिलं तेऽभित इमेप्रणामास्ते सन्तु प्रविरचय मत्काडगितमिदम् ॥१९॥
किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित् पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा ।
प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत मनोभवारातेराख्ये त्वदमृतरसास्वाद् रसिका: ॥२०॥
दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं तथान्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् ।
प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे प्रपन्नास्त्वां शान्त्यापि तु सहजयोदास त इमे ॥२१॥
घना: केऽपीशाख्ये त्वदमृतरसासार विसरै: जगत्कल्युद्दामज्वलदनलशान्त्या शिशिरताम् ।
अशेषगलानिं या हरति भवती तु श्रममृते शिवाख्ये मातस्तामितरनिरपेक्ष वितरति ॥२२॥
त्रिनेत्रस्य ग्लानिस्त्रिपुरदनुजादीन्‍ मुररिपो: दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती ।
नियन्त्री या तेषां निखिलजगतोऽप्याशु दळयस्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥२३॥
भवत्या: पन्थानश्शतमखमुख श्रीभिरभित: सुधासारैस्सिक्ता: कुसुमसमवायैश्च निचिता: ।
क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इत: करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥२४॥
शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिणयनम् ।
विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥२५॥
समाचक्षाणस्य स्मरभिदभिधे देवी भवतिमहो यस्यां यस्यां हरिति नयनान्तोऽवतरति ।
हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटा: शरज्ज्योत्स्ना गौरास्सहगिरिजयोद्यन्ति शतश: ॥२६॥
शिव: कामं क्रोधाकुलमतिरजैषीत् त्वदनुगै: जित: काम: क्रोधोऽप्यथ मुनिकुमारं यमभयात् ।
शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतोऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगै: ॥२७॥
चरन्तीं त्वच्छायां शशिवदुपवाराशि वसतीत्यदोमुख्यासूक्तिष्वपि रसनया सड्कलयत: ।
परागं ब्रह्माद्या: पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वत्रिष्ठेर्जितमिति किमम्बाद्भुतमिदम् ॥२८॥
भवत्यां स्पृष्टायां बत पुरहाराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता ।
हुताशेनाश्च्लिष्टो भवति च करोऽड्गानि भुजगै: भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥२९॥
महेशाख्ये जिव्हाञ्चलकलनमात्रात्तनुभृतां समस्ताघच्छेत्रीं सकलसुखदात्री च भवतीम् ।
अवष्टभ्यैबाहुर्भगवति महाकारुणिकतां शिवस्यत्वां हित्वा कथयकतमो निर्वहतु ताम् ॥३०॥
शिवाख्ये स्वाख्यासु त्रिपुरमथन: कैटभरिपु: तदीयान्यामूर्ती रघुपतिरपि त्वां समदधु: ।
अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृति: तदीयस्तादृक्षस्सुकृतपरिपाको विजयते ॥३१॥
अशेषब्रह्माण्डविरतचरिताशेष दुरितान्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् ।
मदीयैरेनोभिर्मदनमथनाख्ये बत यते ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥३२॥
अये जिह्वापीठे जननि समवस्थाप्य भवती ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते ।
तव स्मृत्यैवासौ बत कबळित: कित्रु करवै क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥३३॥
निवेशो जिह्वायां निरवधिकपुण्योञ्चयजुषां निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् ।
निवेशं जिह्वायां मम यदि न धत्से जननि ते नितान्तं पापिष्ठोऽवित इति न सिद्धयेत्रनु यश: ॥३४॥
शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणितिच्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् ।
हरस्येवं कर्तुं हरिरथ हरोवा स किमलं तदीयं माहात्म्यान्तरमपलपामस्तु न वयम् ॥३५॥
पितृभ्यां त्यक्तोऽसावहमतिदुरात्मेति गिरिजागिरीशाभ्यां त्यक्तो ननु जननि लोकेन च तथा ।
ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं शिवाख्ये त्वामेकामयिजहिहि वा मां बिभृहि वा ॥३६॥
परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते शिवाख्ये सड्ग्राह्यस्स जयति तवैतत् समुचितम् ।
प्रपत्रा त्वं किन्नोदयिनि गरले चामृतरसे पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥३७॥
ममाजस्त्रं दोषान्‍ समुपघटयन्तोऽ तररयो जयन्तीश: पश्यन्‍ हृदि वसति मद्दौस्थ्यमखिलम् ।
अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे कथं मामीशाख्ये कथय तव क:स्तौतु विभवम् ॥३८॥
स्फुटायां द्वारीशेतरमितरया साधु नयते यथा प्राप्यस्थानं सृहृदिह मनोजधुगभिधे ।
स्वकर्मादावीशेतरमिममखेदं शिवपदं तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥३९॥
स्वकर्मादावीशं जनमपि भवत्येव बिभृते विना त्वां तस्यापि स्वविरचित साद्रुण्यविरहात् ।
बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं त्वयास्ते लब्धात्मा भगवति शिवाख्ये सच शिव: ॥४०॥
न कर्माध्वन्योऽहं भगवति न वा भक्ति पथिकोऽस्म्युपादेय: कोऽपि स्फुरति गुणलेशोऽपि न मयि ।
असडख्यातादोषा: किमत इह दौरात्म्यमितरत् तदम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गति: ॥४१॥
सुतस्याख्यां नारायणगिरमुपादत्त यदजामिळस्तं तद्भीतास्तपनसुतदूता: प्रविजहु: ।
त्वमीशाख्ये भीतिं नयसि विमतांस्ते मुदमथानुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगा: ॥४२॥
सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन्‍ निरुपहति विहर्तुं नित्यमुत्ग्रीविताशम् ।
अपनयसि किमेवं हन्त मामन्तरायै: मनसि न करु मातर्मामकान्‍ देविमन्तून्‍ ॥
किमकुरुत मुदे मे कर्मवर्णाश्रमार्हं किमभजत मदडिंघ्र किं व्यधादेष को वा ।
इति निजसमितौ मामीक्षमाणे गिरीशे मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥४४॥
जगति वशिगिरा त्वव्द्यत्ययेनोल्लसन्त्या जननि परिगृहीतांस्त्वं स्वकर्मादि निष्ठान्‍ ।
न किमवसि शिवाख्ये हा तया नाद्दतं मावितुमिह विळम्ब: कस्त्वदेकावलम्बम् ॥४५॥
अम्ब त्वदीयमहिमाम्बुधिशीकराणुवेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे ।
ईशाभिधे भुवि समेतु न किं पिपासोरभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥४६॥
इतो रोगा: कामादय इत इत: स्त्रीसुतमुखा: कृतान्तास्सर्वत्रेत्ययमनवधि: क्लेशजलधि: ।
तमेतं चाह्याय त्वदनुगदयोल्लासघटाभूर्निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥४७॥
अम्ब प्रसीद कुरु मामनघं बलात्वं अडके च ते कुरु निषण्णममुं शिवाख्ये ।
जम्बालसक्तममलं कुरुते न माता किं बालकं न कुरुतेडकजुषञ्च हष्टा ॥४८॥
आविर्भवस्यायि नृणां त्वमयत्नतोऽग्रे ग्लानिं धुनोषि घटयस्यपि मड्गलानि ।
ईशाभिधे तव यशो न किमुज्जिहीतां ईर्ष्याकुलत्वममरा न किमश्रुवीरन्‍ ॥४९॥
मदनहन्त्रभिधे तव निर्झरा: मधुसुधालहरीरतिशेरते । कृतधियो विहरन्ति च तेष्वमीष्वरसिकोऽत्र हतोऽस्म्यमेक क: ॥५०॥
शिवाख्ये मा भैषी: पदममरनेतुर्ननु भवेत् अमुष्मै दातव्यं सरसिजभुवो वा पदमिति ।
समीहे नाहं तत् किमपि सहसाभ्येहि रसनां ममेमां माहासीस्समभिलषितं मे पुनरिदम् ॥५१॥
प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि त्वमन्तर्लज्जार्ता भवसि किममुष्मै कृतमिदि ।
व्यथैषा दिष्टया त्वद्रसिकतिलकैस्ते परिहृता विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥५२॥
जन्मास्यवार्यमिति ते जननि प्रसादो जायेत चेन्मयि तदस्तु शिवाभिधे न: ।
त्वन्निष्ठताभरनिरन्तरतातिरम्यं यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥५३॥
विश्वाधिनेतुरखिलार्थविद: स्मरारे: अज्ञाततां मदघराशिममुं नयन्ती ।
मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते चातुर्य साहसभरौ चतुरोऽभिधातुम् ॥५४॥
प्रसीद गिरिशाभिधे प्रदिश मन्मतावम्बया सहस्फुरणमूर्जितं सततमिन्दुमौळेर्विभो: ।
तथानिशमिहासिकां तव मदीयजिह्वाञ्चले ददस्व मम काडकितं द्वयमिदं त्वदेकास्पदम् ॥५५॥
न संस्फुरतु काडगत: स्फुरणमीश्वराख्ये कथं हदि त्वदनुगस्य तद्‍भ्रुकुटिकिड्करश्शडकर: ।
चरन्तु विषया हरस्फुरणरोधिनो हृधमी कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥५६॥
ममायमवबुद्धयतां मधुरिमाणमूर्जस्वलं कदापि विजहातु मां न रसनैतदीयेति मे ।
दयस्व गिरिशाभिधे ननु ददीत सा मेऽथवा तदेतदभिकाड्कितं त्वदनुगेषु जात्वानति: ॥५७॥
मनागपि मन:स्पृशेन्मम यदेदमर्थान्तरं तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम ।
तथाम्ब गिरिशाभिधे तव न विप्रलम्भ: क्षमो भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥५८॥
यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं तदा नियतमाहरोपहरमुख्यसञ्जल्पनै: ।
यथा कलितवञ्चन: पुरहराभिधे त्वामहं नयानि रसनां तथाञ्चतुविधे: प्रसादो मयि ॥५९॥
शरणितवन्त: खलु ये शशिकन्दळशेखराभिधे भवतीम् । तञ्चरणाम्बुजविहरणस्मरणं सुरघटाकिरीटतटे ॥६०॥
शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् । अभिलषितं यदमीषामसुलभमिति तत्र किं वियन्नळिनम् ॥६१॥
महेशे तत्सडगिष्वपि कृतिषु पाषाणहृदये वराके मय्यस्मिन्‍ प्रविदधति सन्त: प्रणयिताम् ।
कथड्कारं मातर्दळय तदिहेमां मम हृदो दृषत्तामत्राम्ब स्मरभिदभिधे त्वं खलु गति: ॥६२॥
॥इति श्री श्रीधरवेड्कटेशार्य कृतौ आख्याषष्टि: सम्पूर्णा ॥

समाप्त.

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2020-02-11T20:43:38.7170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

lest

  • अन्यथा 
  • नाहीतर 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.