जून प्रवचन

एकोणिसाव्या शतकाच्या उत्तरार्धांत श्रीब्रह्मचैतन्य तथा गोंदवलेकर महाराज हे महाराष्ट्रीय संत होऊन गेले.


जून १ – कर्तृभावस्य त्यागः एव परमार्थः! रज्जुं यः सर्पम् इति मन्यते सः बद्धः । परं रज्जुं यः रज्जुमेव मन्यते सः मुक्तः । ‘अहं न देही’ इति येन अवगतं सः मुक्तः एव । सत्यज्ञानस्य प्राप्तिः एव मुक्तावस्था । बद्धावस्था अस्माभिः एव निर्मिता । चिन्ता, व्याकुलता, दुःखं च बद्धदशायाः लक्षणानि । कदापि आनन्देन अवस्थानम्इति मुक्तस्य लक्षणम् । जागरा नाम मुक्तावस्था । ‘मदीयं’ मम समीपे एव वर्तते, परं न जानीमः । भगवद्विस्मरणेन ‘अहं देही’ इति मन्यामहे । देहः मम नियन्त्रणे नास्ति । अतः ‘अहं देही न’ इति सिद्धं जातम् । कर्तृत्वं स्वीकुर्मः चेत् तेन सह सुखदुःखम् आयाति । मम सुखं नास्ति, दुःखमपि नास्ति इति यः जानाति सः मुक्तः इति अवगन्तव्यम् । कर्तृत्वं घातकम् । ‘एतादृशं विशालं भवनं मया निर्मितं’, ‘प्रपञ्चः उत्तमः कृतःच’ इति प्रापञ्चिकस्य अभिमानः वर्तते तथा संन्यासिनः मठस्य अभिमानः । इत्युक्ते कर्तृभावात् द्वयोरपि सहजं मुक्तिः न भवति । त्यक्तुम् इच्छामः तथापि कर्तृत्वं न मुच्यते इति वयं नित्यम् अनुभवामः । भगवतः अस्तित्वस्य अङ्गीकरणेन कर्तृत्वं न्यूनं भवति । अतः भगवतः अखण्डस्मरणे अवस्थातव्यम् । भगवान् यथा स्थापयति तथैव समाधानं मन्तव्यम् । भगवत्स्मरणेन विना यत्र सुखम् अनुभूयते सः विषय़ः । विषयसङ्गे परमात्मनः भिन्नम् अवस्थानम् इत्युक्ते प्रपञ्चः । तथा च परमात्मसङ्गः विषयेण सह भवति चेद् अपि सः परमार्थः । फलापेक्षया सह यत् कुर्मः तत् कर्म, परं फलापेक्षां विना कृतं कर्म नाम कर्तव्यम् । इदं कर्तव्यं भगवत्स्मरणे करणं नाम परमार्थः । तत्करणसमये भगवन्तं न विस्मरामः चेत्, तत् अनुसन्धानम् । चिन्तयन्तु, कमपि सुन्दरं पुस्तकं पठन्तं जनं पिपीलिका दशति चेत् तस्य संवेदना अनुक्षणं भवति । सम्पूर्णे शरीरे सा वेदना व्यापृता भवति तद्वत् भगवदनुसन्धानेन प्रपञ्चः व्यापृतः भवेत् । प्रपञ्चे कस्मिन्नपि कर्मणि इदम् अनुसन्धानं रक्षणीयम् । अनुसन्धानस्य अभ्यासः करणीयः । भगवदनुसन्धानम् अस्मान् भगवन्तं प्रति नयति । इदम् अनुसन्धानं दृढं निरन्तरं च भवेत् इति मनसा निश्चेतव्यम् ।

स्वकर्तव्यं न विस्मरणीयम् । भगवदनुसन्धानं रक्षणीयम् ।

जून २ – विना कारणं भगवान् प्रेतव्यः । वस्तुतः जगति लौकिकव्यवहारे च वयम् अज्ञाः भवामः चेद् न कापि हानिः । भगवन्मार्गे तद् लाभाय एव । वयम् अज्ञाः न भूत्वा, स्वविद्यायाः महत्तमत्वं न विस्मृत्य, परमार्थं लब्धुं न शक्नुमः । ग्रामान्तरं गच्छते पुत्राय यथा माता पाथेयं यच्छति तथा परमात्मा यस्यां परिस्थित्याम् अस्मभ्यं जनिं ददाति तस्यां परिस्थित्याम् आवश्यकं समाधानमपि ददाति । तत् स्वीकर्तुं पात्रता अपेक्ष्यते । यत्र अतीव असमाधानं वर्तते तत्र दुष्टशक्तयः कार्यं कर्तुम् अवसरं लभन्ते । प्रत्युत यत्र सत्यं समाधानं वर्तते तत्र सच्छक्तयः साहाय्यं कुर्वन्ति । वयं नामस्मरणे लिप्ताः भवामः चेत् बाह्या विपरीता स्थितिः न बाधेत । देहः मनस्सम्बन्धितः, मनः हृदयसम्बन्धितम्, अतः मनः सदा समाधानेन स्थापनीयम् । तेन शरीरस्वास्थ्यं सम्यक् भवेत्, आयुरपि वर्धेत च । स्वार्थत्यागसमये आरम्भे मनुष्यः व्यवहारनियमनं कर्तुं न शक्नुयात् । येन मिलेत् तं सः आत्मीयः एव इति कथयेत् । परं परमार्थः जीवने दृढः भवति चेद् व्यवहारं सम्यक् कृत्वा सः निःस्वार्थः अपि भवितुमर्हति । वस्तुतः परमार्थः एकं शास्त्रम् । तस्मिन् सुसूत्रता वर्तते । व्यवहारः न त्यक्तव्यः । परं टटंटं अस्माकं वृत्तिः भगवन्मार्गे विक्षेपं जनयति । अतः सा भगवति योजनीया । भगवद्विषये वास्तवा रुचिः उत्पद्येत । भगवति अकारणं प्रेमकरणं नाम परमार्थः । परमार्थाय मस्तिष्कं शान्तं भवेत् । कश्चन जनः सर्वत्र रामं दृष्टवान् । तेन चिन्तितं यद् देवः लब्धः । परम् इदं न भगवतः सम्यक् दर्शनम् । सः सर्वत्र वर्तते इति भावना आवश्यकी । परमार्थस्य चिन्ता न करणीया । सा चिन्ता एव विक्षेपं करोति । वयः यथा वर्धते तथा सर्वाणि अङ्गानि सहजं वर्धन्ते एव । तद्वत् परमार्थाय अपेक्षितानां गुणानां वर्तते । साधनसमये पुनः पुनः उन्नतिः न द्रष्टव्या । चिन्तयन्तु, प्राङ्गणे उप्तं वृक्षं प्रतिदिनम् उत्पाट्य पश्यामः चेत् सः कथं वर्धेत? तद्वत् परमार्थे अस्माकं विकासविषये । मनुष्येण परमार्थः कियान् साधितः इति तस्य भाषणेन, दृष्ट्या च ज्ञायते ।

परमार्थः न जनानाम् उपदेशार्थं, सः तु केवलं स्वस्य कृते वर्तते ।

जून 3 – परमार्थः कथं सिद्ध्येत्? यस्माद् माया उत्पन्ना सः शरणं गन्तव्यः । तं शरणं गन्तु कः विक्षेपः? कर्तृत्वं त्यजन्तु येन शरणं गन्तुं शक्यपपते । भवन्तःममत्वं प्रदर्शयन्ति, अभिमानं सदा रक्षन्ति च तदनु भगवन्तं कथं शरणं गन्तुं शक्नुवन्ति? वयं सत्पुरुषाणां दर्शनार्थं गच्छामः तदा भार्यायाः स्वास्थ्यमिच्छामः च । तेन तत् दर्शनं सम्यक् जातमिति वदामः किम्? दारपुत्राणां कृते सत्पुरुषान् प्रति न गन्तव्यम् । सत्पुरुषैः नामस्मरणं कर्तुं सूचितं, परं पुत्रः न जीवति इति पश्यामः चेद् अस्माकं रामे, नामस्मरणे च विद्यमाना श्रद्धा भज्यते । इत्युक्ते ‘अहं विषयस्य कृते नामस्मरणं करोमि’ इति भवति । विषयाः निर्गच्छेयुः, परं ते न निर्गच्छन्ति । यतो हि अस्माकं तथा बलशालिनी इच्छा एव न वर्तते । संन्यासं स्वीकर्तुं गच्छामः चेत् पत्नी बालकं स्वीकृत्य मध्ये आयाति । ताम् अपाकृत्य गच्छामः चेत् मोहवशाः भवामः । परस्त्रीस्वीकारः आपतति । जनः व्यसनार्थम् इदं सर्वं करोति परं परमार्थाय विषयान् दूरीकृत्य साधनं करोतु इति वदामः चेद् विविधानि कारणानि सः कथयति । चतुर्विंशतिः वर्षाणि कार्यं कृत्वापि कुक्षिम्भरं भोजनं न लभ्यते तदनु परमार्थः वर्षद्वयेन एव सिद्ध्येत् इति कथं वदामः? शान्तिः परमार्थस्य प्रथमं सोपानम् । परमार्थः समञ्जनेन लभ्यते न तु वृथा कष्टेन ग्रन्थपठनेनवा । बद्रीनारायणस्य यात्रां कृत्वा अपि सः न लभ्येत । तदपेक्षया भगवतः अनुसन्धानेन अधिकः लाभः । काचित् क्रीडा स्वयम् एकेन एव करणीया तथैव परमार्थः अपि स्वेन सह स्वयमेव क्रीडनं वर्तते । तत्क्रीडनमित्युक्ते आत्मना सह करणीयः अभ्यासः वर्तते । क्रीडायां किमपि साधनम् अपेक्ष्यते । परम् अस्मिन् अभ्यासे तद् अपि नापेक्ष्यते । परमार्थः वृत्तिपरिष्कारस्य अभ्यासः । अस्माकं परमार्थः जगत् न पश्येत् तावत् अस्माकं कृते लाभाय । जगति विद्यमाने महत्तमत्वे न सार्थक्यम् । वास्तविकेन महत्तमत्वेन विना मोघंमहत्तमत्वेन महान् घातः भवेत् । अन्तरङ्गे स्थिरत्वं, स्वस्थताप्राप्तिः, सावधानता, परिश्रमत्यागः च इति एव परमार्थः । सततम् आनन्दलाभार्थं प्रयत्नाः नाम परमार्थः । ‘जगत् किं वदेत्’ इति मत्वा वर्तनं नाम व्यवहारः तथा च ‘भगवान् किं वदेत्’ इति मत्वा वर्तनं नाम परमार्थः ।

कर्तव्ये भगवतः स्मरणं नाम परमार्थसारः ।

जून ४ – परमार्थमार्गःअभिमानं अवरुणद्धि ।

शास्त्रेषु विषयद्वयं कथितं वर्तते । इहलोक: परलोक: च कथं लभ्येयाताम् इति तत्र स्पष्टं कृतं वर्तते । परन्तु वयं प्रपञ्चं त्वरया, परमार्थं सौकर्येण करणीयौ विषयौ मन्यामहे । विषयद्वये अपि केनचित् सुज्ञेन सह वासः अपेक्ष्यते । परलोकप्राप्तिं कारयति सः सद्गुरुः । ’न जानामि’ इति स्वीकरोति सः एव सद्गुरुं प्रति गन्तुं मार्गं प्राप्नोति । वयं भगवन्तं शरणं न गच्छामः यतो हि अस्माकम् अभिमानः शरणगमनमार्गम् अवरुणद्धि । विलक्षणं यत् व्यवहारे अपि यः सम्यक् जानाति, तं शरणं गच्छामः । इहलोकः अनुभवस्य तथा च परलोकः अनुमानस्य विषयः च इति वयं कल्पयामः । परम् इहलोकस्य अनुभवः दुःखमयः, तथापि टक तं न त्यजामः । तदनु परमार्थस्य अनुभवः न लभ्यते अतः अहं तं न अनुसरामि इति कथनं मिथ्याचारः । ‘प्रपञ्चे वयं किमपि पापाचरणं न कुर्मः तर्हि एतद् विहाय अन्यः कः परमार्थः?’ इति केचन पृच्छन्ति । प्रपञ्चः यद्यपि प्रामाणिकतया कृतः परम् अभिमाने विद्यमाने सति सः परमार्थः भवितुं न अर्हति । ‘रामः एव कर्ता’ इति भावं विना इत्युक्ते अभिमानत्यागं विना परमार्थः न सिद्ध्यति । ‘अहं देही’ इति वदामः चेद् अभिमानः आयाति । देहबुद्ध्याः कारणं वर्तते वासना । वासना सर्वेषां मूलम् । ‘मम जनि: एव वासनायां वर्तते तर्हि ताम् अपाकृत्य अहं कथं जीवितुं शक्नोमि’ इति केचन चिन्तयन्ति । यः वासनां व्यापादयति सः परमार्थाय योग्यः । अन्तसमये या मतिः सा आगामिनः जन्मनः कारणम् । इदं सर्वं ज्ञानस्य वचनम् परं प्रचीतिद्वारा सर्वं ज्ञातव्यम् । दारपुत्राणां पीडा वर्तते, मनः एकाग्रं न भवति च अतः मुनिः जातः । मठः निर्मितः । जनानामागमनम् आरब्धम् । तान् भोजयितुं भिक्षाटनमारब्धम् । परं भगवान् सर्वान् भोजयति इति विस्मृतवान् । छदितः जलं निस्सरति, अतः तां सम्यक् कर्तुं चिन्तितः जातः । तदनु गृहेण किं पापं कृतम्? एतादृशः मुनित्वस्य अपेक्षया प्रपञ्चकरणेन का हानिः । सारांशेन, प्रपञ्चम् अवगत्य तस्य आचरणेन सः शीघ्रं सिद्ध्येत् । प्रपञ्चत्यागस्य आवश्यकता एव न अवशिष्येत् । जगति अस्माकं समाधानम् असमाधानं वा यया वृत्त्या वयं जगत् पश्यामः ताम् अवलम्बते । परमार्थे महत्त्वं बाह्यैश्वर्यस्य न, अपि तु चित्तवृत्तिस्थैर्यस्य वर्तते । भगवतः सततम् अनुसन्धानम् एव वृत्तिस्थैर्यस्य एकः एव उपायः ।

परमार्थाय कापि परिस्थितिः भवेत् । केवलम् अस्माकं वृत्तिः स्थिरा अपेक्ष्यते ।

जून ५ – वैराग्यं विना परमार्थः मिथ्या । पक्षिणां शावका: तेषां पक्षयो: आश्रयेण वर्धन्ते । तद्वत् गृहजनाः प्रेमाश्रये रक्षणीयाः पालनीयाः च । वयं तेषु प्रीणीमः इति ज्ञाते सति तेषां दोषदर्शनेन ते न क्लेशम् अनुभवन्ति । माता पुत्रं तस्य दोषान् कथयति चेत् सः न खिद्यते । रुग्णस्य शरीरगतः ज्वरः निर्गच्छति चेत् शक्तिवर्धकम् औषधं कार्यं करोति, यतो हि शक्तिवर्धनं स्वाभाविकम् । तथैव अन्तःकरणं शुद्धं भवति चेत् परमार्थप्राप्तिः सरला वर्तते । परमार्थे मनःकष्टानि वर्तन्ते, यतो हि अद्ययावत् कृतस्य अभ्यासस्य इदं विपरीतं कार्यम् । अतः परमार्थे आरम्भः स्वतः करणीयः । अन्तःकरणे भगवदनुसन्धानं कल्पयित्वा बाह्यवृत्तिनियमनार्थं यः प्रयतते सः परमार्थं शीघ्रम् अनुभवेत् । भगवदनुसन्धाने चित्तं सावधानतया संस्थापयामः तथापि तद् आक्रान्तुं विषयाः सदैव सिद्धाः सन्ति । मनः किञ्चिद् वा भगवतः दूरं गच्छेत्, विषयाः आक्रमणं कुर्वन्ति एव । साधकेन अहोरात्रं सावधानटपतया प्रहरीरूपेण स्थातव्यं भवति । अतः उक्तिः वर्तते यत् परमार्थः इत्युक्ते अखण्डिता सावधानता । प्रपञ्चः परमार्थः च न भिन्नौ । प्रपञ्चः अनासक्त्या आनन्देन च करणीयः इत्येव परमार्थः । परमार्थे कः अवरोधः? धनं, पत्नी, सुताः चेत्यादयः न, अपि तु तेषु यद् ममत्वं तदेव अन्तरायः । वस्तुषु आसक्तिः न भवेत् इति एव वैराग्यम् । तद्वस्तुनः अभावः इति न वैराग्यम् । कस्यचिद् भार्या न वर्तते, अतः सः विरक्तः, भार्या वर्तते चेद् आसक्तः इति वक्तुं न शक्नुमः । पत्नीयुतः परं लोलुपताविरहितः एव विरक्तः । यत् वर्तते तत् परमात्मना दत्तं तथा च तत् तस्यैव इति मत्वा आनन्देन अवस्थानं नाम वैराग्यम् । अस्मिन्भावे स्थित्वा यः इन्द्रियाणि नानुधावति सः विरागी । वैराग्यं विना सर्वः परमार्थः मिथ्या । कोपि विषयः अभ्यासेन सिद्ध्यति । साम्प्रतं वास्तवा भक्तिः न विद्यते अतः भगवत्स्मरणं न वर्तते । भगवत्स्मरणाभ्यासेन विना वास्तवा भक्तिः न लभ्यते । सुज्ञेन जनेन वृथा कुतर्कःन कृत्वा विकल्पचिन्तनेन विना भगवत्स्मरणम् आरभणीयम् । यत्र कोपि परिचितः नास्ति, आप्तजनाः न सन्ति, कोपि न आद्रियते च तत्र स्थित्वा अनुसन्धानाभ्यासः करणीयः । परिचितजनविरहितस्थानम् अभ्यासार्थम् उत्तमम् ।

बाह्याङ्गेन प्रपञ्चसङ्गः । चित्ते भवतु रघुपतिसङ्गः ॥

जून ६ - भगवान् तथा च अहं न भिन्नौ । समुद्रफेनकःघनवस्तु इति भासते परं सः जलमयः । असत्यं सदा सत्येन सह वर्तते । यत् नास्ति तत् मुखेन कथनं नाम माया । वयं तां सत्यां मन्यामहे । माया असत्या इति मननमात्रेण ब्रह्म सत्यत्वं लभते । वयं मायाम् अनुधावामः, परं सा मृगजलवत् वर्तते इति ज्ञाते सति वयं स्वस्थाः भवामः । जन्मसमये सोहम् इति अवदत्, अनन्तरम् कोहम् इति भाषणम् आरब्धम्, अन्ते देहः एव अहम् इति भणनं कृतम् । वस्तुतः सूर्यः किरणाः च न भिन्नौ तद्वत् भगवान् अहं च न भिन्नौ । तदेव सत्यं यत् चिरकालं वर्तते इत्युक्ते परमात्मरूपम् । सच्चिदानन्दरूपे मनः लग्नं भवति तत् अनुसन्धानम् । भगवन्तं विना इतरसर्वम् उपाधिः विद्यते । अहं न जानामि इति एतस्य अवगमनम् इति परमार्थस्य प्रथमं सोपानम् । अहं भगवान् च न भिन्नौ इति भावनया शरीरं मनः च परिपूर्णे इति अन्तिमं सोपानम् । यत् यत् प्रवर्तते तत् सर्वं परमात्मा करोति अहं केवलं निमित्तमात्रं कर्तव्यार्थं च इति मनोभावेन यत् कर्म प्रवर्तते तत् निष्कामकर्म इति उच्यते । यदि प्राप्तं तर्हि भुक्तं, न प्राप्तं तर्हि त्यक्तम् इति भावेन यत् प्रवर्तते तत् सहजकर्म । दोषाः न बाधेरन् इति विचिन्त्य कृतं कर्म ज्ञानयुक्तं कर्म इति वदन्ति । ईश्वरस्मरणे कृतं कर्म निरासक्तं कर्म इति वदन्ति । अमुकमेव फलम् अहं लभे इति एतस्याः वृत्त्याः त्यागः नाम निरासक्तिः । विषयविरक्तिः भवति चेत् ज्ञानं जातमिति उच्यते । सारांशेन यत् कर्म बन्धनस्य कारणं तत् अज्ञानम् तथा च यत् मोक्षस्य कारणं तत् ज्ञानम् इति अवगन्तव्यम् । कर्ममार्गेण उपासनामार्गेण नवविधाभक्त्या च इत्यादिभिः प्राप्तव्यं ध्येयमेकमेव । कन्यायाः विवाहे अमुकव्ययः अधिकः अमुकव्ययः न्यूनः च करणीयः परं मुख्यकार्यं कन्यायै उत्तमः पतिः वरणीय: इति मनुष्यः चिन्तयति तथैव जीवनस्य मुख्यं कार्यं भगवत्प्राप्तिः । अस्माकं देहबुद्ध्याः अन्तरायः सत्सङ्गत्यां न भवेत्  । भगवद्दर्शनस्य स्वरूपदर्शनस्य वा मार्गे अन्तरायः मम देहबुद्ध्याः गिरिः भवति । सर्वेषांसाधनानाम् उपयोगः अभिमाननाशार्थं भवति । नामस्मरणेन इदं कार्यं शीघ्रं भवति । अतः सर्वसाधनानां सारः भगवन्नाम एव वर्तते । तत् वयं श्रद्धापूर्वकं जपामः भगवता एकत्वं प्राप्स्यामः च । प्रयत्नरते सति भगवान् माम् उद्धरेत् इति विश्वासं धरन्तु भगवन्नामस्मरणे आनन्देन कालं यापयन्तु च ।

साम्प्रतं यावन्तं रिक्तं समयं भवन्तः लभन्ते, तावन्तं सर्वं भगवन्नामजपे यापयितुं प्रयत्नं कुर्वन्तु ।  

जून ७ – नित्यनियमः इत्युक्ते किम्? नित्यनियमः इत्युक्ते किम्? यः नियमः नित्यं वर्तते सः नित्यनियमः । नित्यः कः यः न परिवर्तते सः नित्यः । इत्युक्ते यः पूर्णतः शाश्वतः सः वस्तुतः नित्यः । अतः नित्यः इत्युक्ते भगवान् इति ज्ञातव्यम् । तस्य नियमः इत्युक्ते किं करणीयम्? नियमः करणीयः इत्युक्ते नियमनं करणीयम् । निग्रहः करणीयः । वशः करणीयः । स्वाधीनः करणीयः । स्वमनः भदवदधीनं करणीयम्, तस्मिन् निरन्तरं स्थापनीयम् इति एतस्य नाम नित्यनियमः । साम्प्रतं विद्यमानायां मनस्स्थित्यां तत् भगवदधीनं कर्तुं न शक्नुमःतथा च जडेन, अशाश्वतेन च देहेन नित्यशाश्वतभगवतः नियमः भवितुं नार्हति । अतः देहेन कर्तुम्अशक्यं, देहातीतत्वेन सूक्ष्मत्वेन च भगवता सह शाश्वतं सम्बद्धितं च नामस्मरणं निरन्तरं करणीयम् च इति अस्माकं वास्तवः नित्यनियमः । इतरसर्वे विषय़ाः शास्त्रबन्धनानि ग्रन्थपठनं स्नानसन्ध्यादि नित्यकर्माणि करणीयानि परं तेषा दुराग्रहः मास्तु । कदापि भगवन्नाम न त्यक्तव्यं इति एव आग्रहः क्षम्यः । शुद्धभावनया नाम जपामः चेत् भगवान् दर्शनं ददाति । शुद्धभावनायाः फलं बहु वर्तते । बहुधा निर्धनाः अशिक्षिताः जनाः अस्मिन् विषये श्रेष्ठाः सन्ति । नाम जपन्तः एव भवामः । नाम्ना भावना शुद्धा भवति । वस्तुतः जीवनार्थं वायुः यथा आवश्यकः तथा किं बहुना ततोपि अधिका आवश्यकता परमार्थे नामजपनस्य वर्तते । भगवन्नाम विना न भवामि इति सङ्कल्पः प्रत्येकं जनेन करणीयः । भगवान् दुराग्रहेण वृथा कष्टेन वा साध्य: न भवति । सः केवलं प्रेम्णा वशः भवति । प्रेम्णि भूताः आग्रहाः भूतानि, कष्टानि च शोभन्ते, हितकराः भवन्ति च । वयं भक्तानाम् आग्रहान् कष्टानि च पश्यामः, परं प्रेम न पश्यामः । यः जनः सार्धत्रिकोटिपरिमितं रामनामजपं कुर्यात् सः निश्चयेन भगवत्प्रेम अनुभवेत् । शङ्काः सुदीर्घाःभवन्ति, ताः येन केनापि न म्रियन्ते । अपि च काश्चन शङ्काः आचरणेन अनुभवेन च नश्यन्ति । अतः मनसि शङ्कानां विद्यमानत्वेनापि नाम न त्यक्तव्यम् । सततं नामस्मरणेन मनः स्वच्छं भवति । सर्वाः शङ्काः सहजं लयीभवन्ति । लङ्कायां यदा रावणस्य कारावासे अशोकवने सीता आसीत् तदा तस्याः सन्निकर्षप्रभावेण तत्रस्थाः वृक्षाः पक्षिणः,अश्मान: च सर्वे रामप्रेम लब्धवन्त: इति वर्णनं वर्तते । रामनाम्नः प्रेम तथा च भगवत्प्रेम द्वयमपि एकमेव । नाम्नि अन्तिमः श्वासः भवेत् इति एव जीवनस्य सार्थक्यम् ।

ध्रुववत् नामनिष्ठा भवेत् साक्षात् भगवान् पुरतः आगतः, तथापि तेन नाम न त्यक्तम् ।

जून ८ – विषयाणाम् आवेगः भगवति योजनीयः ।

प्रपञ्चे यः विश्वासः सः एव परमार्थे श्रद्धा इति कथ्यते । अपूर्णता एव प्रपञ्चस्य रूपम्, अतः सः कदापि पूर्णः भवितुं न अर्हति । समाधानं पूर्णत्वस्य स्वभावः । निर्हेतुककर्मणा वास्तविकी सात्विकता उत्पद्येत तथा च अग्रे पूर्णाहुतिः भवेत् । एतेन प्रकारेण सर्वस्वार्पणं नाम यज्ञः । त्यागः भगवत्स्मरणं च यज्ञस्य वास्तवः अर्थः । परमार्थप्राप्त्यनन्तरं मुनेः देहः पुष्टः भवति । किं सः प्रतिदिनं दुग्धं पिबति?न । भगवदानन्देन तस्य देहः पूर्णः वर्तते । परं साधकावस्थायां तस्य देहः कष्टेन एव जीवति । वस्तुतः परमार्थिना जनेन दैन्येन जीवनम् अलम् । धनं वर्तते चेत् प्रतिदिनं श्रीखण्डपुरिकाःखादनीयाः । परं श्वः निराहारे सति अद्यतनीयस्य मधुरभोजनस्य स्मरणमपि न भवेत् ।

गृहस्थाश्रमः सर्वेषु श्रेष्ठः इति कथितं वर्तते । जनहिताय गृहस्थाश्रमसदृशः आश्रमः न विद्यते । परं विवाहं कृत्वा सर्वकालः विषये एव व्यतीतः प्रपञ्चकर्तव्यानि न कृतानि तर्हि विवाहेन किं साधितम्? उद्योगेन उदरपूर्तिः करणीया परं सेवया स्वामी एव सर्वस्वः इति मत्वा देवः विस्मृतः चेत् न योग्यम् । देवं स्मृत्वा सेवा करणीया । गृहस्थाश्रमे देवः न लभ्येत इति यः वदेत् तस्यकथनं न अङ्गीकर्तव्यम् । देवः लभ्येत इति विश्वासः भवेत् । स्वभारः सर्वथा परमेश्वरे त्यक्तव्यः । सङ्कटानि आनन्दं च द्वयमपि भगवन्तं कथयामः । यस्यां स्थित्यां भगवता स्थापिताः तस्यामेव समाधानं कल्पनीयम् । कदाचित् अर्पणबुद्ध्या सर्वकर्माणि अर्पणीयानि । स्वमनः यस्मिन् कार्ये आत्मानं न तुदति तत् कार्यम् उत्तमम् इति ज्ञातव्यम् । कश्चन जनः अस्मिन् प्रपञ्चे सर्वं विद्यते इति मन्यते तावत् सः परमार्थात् दूरः । दुर्जनाः समाधाने वर्तन्ते । परं वास्तवं ते तथा न सन्ति । दुष्कर्मकर्ता कदाचित् पश्चात्तापेन विना न भवितुमर्हति । काचित् विमाता पुत्राय भोजनं ददाति परम् अन्तःकरणे सा न प्रीणाति । तद्वत् वयं परमार्थेन व्यवहारं कुर्मः । वस्तुतः अस्माकम् अत्रैव प्रमादः भवति । अस्माकं विषयेच्छावेगान् वयं परमार्थं प्रति योजयामः चेत् परमार्थः साधितः । येन विषय़सुखं भगवति योजितम् इत्युक्ते भगवत्स्मरणे यः सुखसुविधां प्राप्नोति तस्य जन्मसार्थक्यं जातम् ।

प्रप़ञ्चे यत् अस्माकं सातत्यम् तस्य एकचतुर्थांशं सातत्यं यदि भगवतः कृते योजितम् तर्हि कार्यपूर्तिः भवेत् ।

जून ९ – वासनानाशः एव मोक्षः । बहुधा भक्तिः इत्युक्तेका, परमार्थं कं वदन्ति च इत्येव वयं न जानीमः । यः प्रपञ्चं सम्यक् न करोति सः परमार्थं कर्तुं न शक्नोति । प्रपञ्चस्य जामितत्वेन भक्तिं कर्तुं न शक्नुमः । तिरस्कारः प्रपञ्चस्य न भवेत्, अपि तु विषयाणां भवेत् । मया सुखं प्राप्तव्यमिति प्रत्येकं जीवस्य मुख्यः उद्देशः वर्तते । मोक्षः इत्युक्ते निरतिशयस्य सुखस्य अनुभवः । ‘जीवितावस्थायां लब्धा आत्यन्तिकी सुखस्य स्थितिः’ इति मोक्षस्य व्याख्यां कर्तुं शक्नुमः । वस्तुतः भगवत्समीपे किं न्यूनम्? केवलं स्वमनः तस्मै दत्त्वा तस्य श्रद्धामयी भक्तिः करणीया । चिन्ता इत्युक्ते भगवति अविश्वासः । देहस्य प्रारब्धाधीनत्वम् एव वास्तविकी संन्यस्ता वृत्तिः । वासनां विना वयं कर्म एव कर्तुं न शक्नुमः, एतदर्थं किं करणीयम्? मम समाधानं मम समीपे एव वर्तते परम् अन्यत्र लभेय इति मन्ये इत्यत्र एव मम प्रमादः । याच्ञा यावत् न समाप्ता तावत् समाधानं न लभ्येत । लोभः मृत्युपर्यन्तं न समाप्नोति । इदमेव सर्वरोगाणां मूलम् । अतः यस्य वासनाक्षयः जातः सः मोक्षं प्राप्नोति खलु । आशा निराशा न भवति तावत् भगवद्दासाः भवितुं न शक्नुमः । यदा मनसि आशा उत्पद्येत तदा सा भगवते अर्पणीया । प्रत्येकं जनः मन्यते यत् अहं श्रीमान् भवेयम् । परं कति जनाः भवन्ति? एषा निराशा एव ननु? प्रपञ्चः वस्तुतः नाटकसदृशः । नाटके कश्चन जनः राजा भवेत् वा भिक्षुकः भवेत् साक्षात् जगति तस्य मूल्यमेव नास्ति । प्रत्युत भिक्षुकस्य व्यक्तित्वं सः समीचीनम् अभिनयति चेत् सर्वे तम् अभिनन्दन्ति । तद्वत् प्रपञ्चे कश्चन धनिकः भवेत् वा दरिद्रः भवेत् इति एतस्य महत्त्वं न भवेत् । अनुसन्धानं कियत् इति एतस्य वास्तवं महत्त्वं वर्तते । धनं सङ्गृहीतं तर्हि न कापि हानिः परम् आधारः तस्य न भवेत् । अनुसन्धाने तेन अन्तरायः न भवेत् । यावत् सुखम् विषयाधीनं, तावत् वास्तवं भक्तिसुखं न लभ्यते । मनसा भगवान् एव प्रार्थ्यते इति वर्तते चेत् सः प्राप्यते । अहं करोमि इति कदापि न वक्तव्यम् । अहं मम तपसा भगवन्तं पश्यामि इति यः वदति तस्य भगवद्दर्शनं दुर्लभम् । विषयं न लभामहे चेत् व्याकुलता वर्तते तद्वत् भगवन्तं न लभामहे चेत् व्याकुलता भवेत् । विद्यमानायां स्थित्यां किं कर्तुं शक्नुमः इति प्रथमं द्रष्टव्यम् । परमार्थम् अवगत्य तस्य आचरणं करोति सः शीघ्रं परमार्थं प्राप्नोति । तस्य प्रपञ्चत्यागस्य आवश्यकता एव न भवेत् ।

रागद्वेषयोः आग्रहः न भवेत् । अत्रैव वासनायाः मरणं वर्तते ।

जून १0 - अस्माकं व्यवहाराः परमार्थः च सर्वं तस्य एव इच्छया प्रवर्तते । एवं यदि अभविष्यत् तर्हि सम्यक् अभविष्यत् इति भाषणं न सत्यम् । यद् जातं तद् रामस्य इच्छया एव जातम् । परमात्मना यथा इष्टं तस्य परिहरणम् असंभवम्, इति विश्वसिति चेत् मनः निश्चयेन धैर्यं प्राप्नोति । मम सर्वकर्मणां गुरुः एव सूत्रधारः । सर्वं शासनं गुरोः एव । अन्यस्यकस्यापि शासनं तत्र न प्रवर्तते । अस्माकं जीवनमेव भगवतः हस्ते वर्तते तर्हि अन्यस्य कस्यापि वा का गतिः?कस्यापि, कथमपि परिस्थितिः भवेत् सर्वं सूत्रं परमेश्वरस्य एव हस्ते । अभिमानग्रस्तेन न भवितव्यम् । सर्वं रामेच्छा इति ज्ञातव्यम् । यद्यपि एषः सिद्धान्तः तथापि व्यवहारे सावधानेन भवितव्यम् । अस्माकं सर्वे व्यवहाराः परमार्थः वा तस्यैव इच्छया भवति । यद् भवति अभवत् वा तत् सर्वं भगवन्नियन्त्रणेन । अतः तमेव शरणं गच्छन्तु । यस्य चेतः समाहितं सः एव भगवतः प्रियः । यः रामे विश्वसिति तं समाधानमङ्गीकरोति । मम हितं रामः पश्यति इति यस्य विश्वासः सः सम्यक् समाधानं प्राप्नोति । रामस्य भवितव्यं, समाधानं रक्षणीयम् । ‘मम’, ‘अहं’ च सर्वं रामाय अर्पणम् । तेन समाधानं सम्पूर्णम् । रामचरणयोः इच्छा आनन्दसमाधानयोः अवस्था । अन्तःकरणे समाधानम्, इदमेव भवेत् स्वसाधनम् । गार्हस्थ्ये न्यूनाधिक्यं न द्रष्टव्यम् । यत् वर्तते तस्मिन्नेव समाधानंमन्तव्यम् । यथा यदा परिस्थितिः तदा तस्यामेव समाधानम् । यस्यां स्थित्यां रामः स्थापयति तस्यां स्थित्यां समाधानं रक्षणीयम् । यद्यपि मनसि चिन्ता अहंता वा ममता उत्पद्यते, कश्चन पीडयति, छलकपटम् अपमानं वा करोति, कटुवचनैः क्लिश्नाति तथापि समाधानं न भञ्जनीयम् । अन्यः समाधानं दातुं न शक्नोति । ईश्वरकृपया एव तत् लभ्यते । यावत् मनः संशयग्रस्तं तावत् समाधानं न लभ्येत । विषयाः संवर्धिताः तर्हि समाधानं कथं लभ्येत? यावत् दृश्यभानं तावत् मनसि न समाधानम् । समाधानस्थितिः, उपाधिरहिता वृत्तिः । यत्र समाधानं, तत्रैव मनः योजनीयम् । समाधानं न देहगुणः, मनसा भवतु भगवतः । पाण्डवाः वनवासिनः, परं सदा भगवता सह मनः । यद्यपि पाण्डवाः भगवद्भक्ताः तथापि वनवासं परिहर्तुं न शक्तवन्तः । भगवत्स्मरणे रताः,तेन समाधानं प्राप्तवन्तः । ‘अधुना अहं रामस्य जातः’ इति भवति चिन्तनं चेत् सदैव समाधानम् ।

सर्वकर्ता रामः इति मनसि निधाय एव समाधानम् उत्पद्यते ।   ।

जून ११ – सुखदुःखं मनोधीनम् । यत्र रोगः तत्रैव औषधिः योजनीयः तर्हि उपयुक्तं भवेत् । दुःखमूलं कुत्र वर्तते तत् आदौ द्रष्टव्यम् । प्रपञ्चे काचित् न्यूनता वर्तते चेत् दुःखं भवति ननु! श्रीमतां दरिद्राणां वा सुखदुःखयोः कः भेदः? कस्यचित् धनं प्रचुरं परं पुत्रादयः न सन्ति, अतः सः दुःखी वर्तते । अपरस्य सन्ततिः वर्तते परं धनाभावः,तेन सः खिन्नः । तृतीयस्य सम्पत्, पुत्रादयः च वर्तन्ते परम् उदरपीडया सः व्याकुलः । सारांशेन सुखदुःखं विना न कः अपि वर्तते । न्यूनतां पूरयितुं यत्नेषु अनुष्ठितेषु अपि सा कदापि न समाप्नोति । दुःखानि दूरीकर्तुम् उत्तानान् उपायान् वयं कुर्मः परं दुःखमूलमस्माकं मनः एव इति वयं न अवगच्छामः । वस्तुतः सुखदुःखं वस्तुनि न वर्तते, अपि तु मनस्स्थितौ एव वर्तते । वस्तुनि अपहृते निद्रितः प्रमुदितः च जनः जागृत्यां सत्याम् अपहरणं ज्ञात्वा दुःखितः भवति । इत्युक्ते दुःखि मनः भवति । अतः औषधिः दातव्यः मनसे । सद्भिः मनः बोधितम् । अद्ययावत् अस्माभिः विषयसुखं स्वपुत्रसमंट भुक्तं परमार्थः विपुत्रसदृशः आचरितः च । विमातृसदृशाः वयं मनः बोधितवन्तः । यथा सहवासः तथा मनसः परिणामः । गर्भवासात् आरभ्य विषयैः सह वासः, अतः विषयानन्दः सत्यः इति वयं मन्यामहे । यथा बीजं तथा फलम् । विषयबीजस्य वपनात् फलानि दुःखदायिनि इति शोककरणेन किम्? वणिजः यथा प्रतिवर्षम् आयव्ययसमालोचनं कुर्वन्ति तथा विषय़ाः कियताप्रमाणेन न्यूनाः जाताः इटति अस्माभिः द्रष्टव्यम् । यथा प्रपञ्चार्थं तीव्रतया प्रयतामहे तथा परमेश्वराय आर्ततया प्रयतनीयम् । प्रपञ्चे विद्यमानायाः अनुकूलपरिस्थित्याः अपेक्षया प्रतिकूलपरिस्थितिः एव अधिका लाभदायिनी । न अयं परमार्थः परिस्थितिम् अवलम्बते न श्रीमत्त्वं न वा दारिद्र्यं, न अनामयत्वं न वा सामयत्वम् । मनस्स्वस्थता, अन्तःशुद्धता, आचरणपवित्रता च इति एतेषां सः अधीनः । जीवने विद्यमानाः अनुकूलताः प्रतिकूलताः च परमार्थमार्गे अन्तरायाः सन्ति । मार्गे सुगन्धापणं दृष्ट्वा वा मरीचिकापणं दृष्ट्वा वा वयं संस्थिताः चेत् द्वयमपि घातकम् एव । प्रपञ्चः मूलतः न समीचीनः, न वा असमीचीनः । वयम् अस्माकम् आसक्तिं तस्मिन् कलयामः तेन सः अस्मभ्यं सुखदुःखं ददाति । एताम् आसक्तिं त्यजामः चेत् सः एव परमार्थः ।

ते एव विषयाः परम् आसक्तिं त्यक्त्वा स्वीकरणीयाः इति नाम परमार्थः ।

जून १२ – परमार्थः साधनीयः इति एव अस्माकं जन्मनः वास्तवः हेतुः । द्वैते दुःखम्, एकत्वे सुखं च वर्तेते । वयम् एकत्वे अवतिष्ठामः चेत् आनन्दः लभ्येत । इदं जगत् विविधं भासते परं तत् एकमेव । प्रपञ्चस्य दशदिशः परं परमार्थस्य एका एव दिक् । तां प्रति एव द्रष्टव्यम् । मनसा किमपि न करणम् इति एव वास्तवः परमार्थः । परमार्थे उपाधिः स्वल्पः अपि न वर्तते । न इत्युक्ते कियान् न? तर्हि ‘अहम्’ अपि तत्र न वर्तते । प्रपञ्चः द्वैतरूपः । तस्य आडम्बरं विशालमेव भवेत् । यावत् अस्माकं जीवनस्य उद्देशः अस्माभिः न ज्ञातः तावत् प्रपञ्चः एव अस्माकं ध्येयं वर्तते । वस्तुतः मनुष्यः देहमनसोःसंयोजनेन वर्तते । अतः तेन ऐहिकं पारलौकिकं च द्वयमपि साधनीयम् । परमार्थप्राप्तिः एव अस्माकं जीवनस्य वास्तवः हेतुः । व्यवहारे द्वैतं विना आनन्दं न वर्तते । अतः आरम्भे परमार्थे मानसपूजा वा ‘अहं परमात्मा च’ इति द्वैतचिन्तनं करणीयं भवति । यावत् परमार्थः अस्माकं जीवने दृढः न जातः तावत् पठनस्य आवश्यकता वर्तते । तेन साधने बलं लभ्यते । मनः भगवति योजयितुं किं करणीयम् इति द्रष्टव्यम् । कश्चन पिता स्वपुत्रं तरणं पाठय़न् आसीत् । आदौ सः तं गुल्फपरिमितं जलं नीतवान् । अनन्तरं जानुपरिमितं जलं ततः अनन्तरं किञ्चित् अधिकम् । एतेन प्रकारेण अन्ते गभीरं जलं नीतवान् । तद्वत् अस्माकं गुरुः अस्मान् परमार्थं पाठयति । अस्माभिः जले अवश्यम् अवतरणीयम् । देहेन कृतः प्रपञ्चः न फलति, अतः सद्भिः नामस्मरणस्य उपायः कथितः । परम् अस्माकं सूज्ञत्वम् अस्माकम् अभिमानः च अन्तरायौ भवतः, तदर्थं किं करणीयम्? एषः अभिमानः अन्येन केनापि उत्पादितः किम्? वयं नावगच्छामः इति एतेन प्रकारेण अतिसूक्ष्मरूपेण वासनाबीजम् अस्माकं मनसि निहितं वर्तते । तेन लौकिकस्य अभिलाषः न मुञ्चति । एतदर्थं सद्भि: कश्चन उपायः सूचितः । सः इत्युक्ते नामस्मरणं कुर्वन् विषयावेगः अवरोधनीयः । प्रपञ्चे आगताः विघ्नाःसूचनारूपेण सन्ति । ते अस्मान् सावधानं कुर्वन्ति । जनिः भगवन्तम् अभिज्ञातुम् लब्धा इति स्मारणाय विघ्नानां योजना वर्तते । विघ्नाः भगवन्तं प्रति गन्तुमेव आयान्ति । अतः तेभ्य: न भीत्वा भगवन्नाम्नि एव आत्मा विस्मर्तव्य: इति एषः एव परमार्थस्य सरलः मार्गः ।

यत्र अलसः प्रादुर्भूतः तत्र परमार्थः नष्टः ।

जून १3 – प्रपञ्चः परमार्थप्राप्तिसाधनम् । बहुकालपर्यन्तम् उपजीविकावृत्तिः कृता चेत् मनुष्यस्य मनसि दासभावस्य अभ्यासः भवति । तत् न समीचीनम् । स्वामित्वभावेन कानिचिद्दिनानि वा तेन अवस्थातव्यम् । वृत्तिसमये एव अनुसन्धानाभ्यासः करणीयः । तेन वृत्तित्यागानन्तरं लब्धे समये अनुसन्धानं भवेत् । प्रत्येकं जनः जन्मतः परमार्थस्य अभ्यासं करोति । प्रत्येकं जनः आनन्दं समाधानं च इच्छति, तदर्थं प्रयतते च । वस्तुतः परमार्थे अन्यजनस्य आवश्यकता नास्ति । अतः अन्यः कश्चन स्वस्य परमार्थं कथं भ्रष्टं कुर्यात्? जगति विद्यमानं सर्वम् उत्तमम् । अहमेव असमीचीनः । द्वारं वातायनानि च यथा गृहस्य साधनानि, अथ वा स्वग्रामं गन्तुं लोहमार्गयानं यथा साधनं तथा परमार्थप्राप्त्यर्थं प्रपञ्चः साधनम् । अन्यथा प्रपञ्चमात्रे सुखं न विद्यते । प्रपञ्चः इतः ततः च सर्वत्र समानः । दरिद्रस्य वा श्रीमतः वा, अधिकारिणः वा लिपिकस्य वा, एतद्देशीयस्य वा परदेशीयस्य वा भवेत् प्रपञ्चधर्मस्य अपूर्णत्वं, न्यूनत्वं, तात्कालिकत्वं च यानि लक्षणानि तानि कुत्रापि न परिवर्तन्ते  । अतः स्वसमीपे यत् न वर्तते परम् अन्यस्य समीपे वर्तते तेन अस्माभिः मूढैः न भवितव्यम् । यत् वर्तते तस्मिन्नेव समाधानं स्वीकरणीयम् । परमार्थे कस्यापि दानेन अधिकारः न लभ्यते । स्वाधिकारः स्वकृत्यधीनः । परमार्थभानं यथा दुःखे भवति तथा सुखे न भवति । तत् सुखं दुःखान्तेएव भवति । यया ज्ञप्त्या वयं ज्ञानं प्राप्नुमः तस्याः स्वरूपं ज्ञातुं कः अपि न प्रयतते । वैषयिकी बुद्धिः विकारवशा भवति चेत् ते विकाराः प्रबलाः भूत्वा घातकाः भवन्ति । अस्मिन् समये मनःपूतम् आचरणं परिहृतं चेत् विकाराः क्षीयन्ते । मम विकारवशता वर्तते चेत् मया प्रेमयुतं नामस्मरणं सततं करणीयम् । विकारवशैः न भूत्वा प्रारब्धप्राप्ताः भोगाः भोक्तव्याः, तेन तेषां शासनं न प्रवर्तेत । ज्वरमापकः ज्वरं दर्शयति न दूरीकरोति, तद्वत् शास्त्राणि अस्माकं प्रमादान् दर्शयन्ति, कर्तव्यं दर्शयन्ति च परं कार्यं तु अस्माभिः एव करणीयं भवति । समर्थरामदासः रामं दृष्टवान्  । वयं किमर्थं द्रष्टुं न शक्नुमः? यतो हि वयं समर्थसदृशं श्रद्धां कल्पयित्वा उपासनां सततम् आदरेण च न कुर्मः । कथमपि कुर्वन्तु परम् अहं रामस्य इति भावं जागरयन्तु । ज्ञात्वा अज्ञात्वा श्रद्धया अश्रद्धया वा कथमपि नामजपं कुर्वन्तु । रामः भवताम् अन्नवस्त्रस्य न्यूनतां न कुर्यात् इति निश्चितम् । श्रद्धया नामजपं कुर्मः चेत् विशेषं फलम् । अतः अखण्डं नामजपरताःभूत्वाआनन्दे अवस्थास्यामः ।

सुखेन प्रपञ्चं कुर्वन्तु परं भगवतः अनुसन्धानेन इति एव मम भवतां कृते कथनम् ।

जून १४ – भगवतः योजना एव धर्मः । भगवता सह योजनं भवति चेत् अधर्मः अपि अनुमतः । भगवता सह योजनम् एव एकः धर्मः । अभिमानेन कृतं किमपि कर्म भगवन्तं प्रति न गच्छति । दानं कृतं, धर्मशालाः निर्मिताः, परं प्रसिद्ध्यर्थं कृतं चेत् भवतः कल्याणार्थं कः लाभः? भगवान् समीपं न आयाति परम् अभिमानः एव वर्धते । बब्बुलवृक्षवपनेन आम्रफलानि कथं लभेरन्?अहन्त्वेन कृतं कर्म न उपयुक्तम् । शरणबुद्ध्या कृतं कर्म एव सत्यधर्मः । ‘अहं भगवतः हस्ते विद्यमाना यन्त्रपाञ्चालिका । रामः कर्ता’ इति चिन्तनीयम् । इत्युक्ते देवं शरणं गच्छामः । भगवन्निष्ठा कस्मिन्नपि वयसि, कस्यामपि अवस्थायां च वर्धयितुं शक्यते । एषा निष्ठा कस्मादपि पराजयं न स्वीकरोति, न कस्यापि पुरतः अधोमुखी भवति । एकदा भगवते सम्पूर्णां निष्ठां समर्पयामः चेत् चिन्तायाः किं कारणम्? चिन्तया कार्यनाश: भवति, कर्तव्यं विस्मरति च । भगवति श्रद्धां संस्थाप्य प्रयत्नः करणीयः यत् फलं लभेत तेन समाधातव्यम् च । व्यवहारे सौख्यं कर्तव्यपालनेन लभ्यते तद्वत् परमार्थे सौख्यं निष्ठया लभ्यते । परमार्थिना जनेन कस्यापि अन्तःकरणं न दूषणीयम् । परमार्थः न धूर्तस्य, न वा दाम्भिकस्य, तथा च न अजागलजनस्य अपि । व्यवहारे कः अपि न वञ्चनीयः, न कस्मादपि अस्माभिः मुग्धेनभवितव्यम् । अस्माकं चातुर्यं कमपि वञ्चयितुं न वर्तेत । कः अपि अस्मान् न वञ्चयेत्, तावत् वयं व्यवहारिणः भवेम । यावत् धनं समीपे वर्तते तदनुगुणमेव देयादेयं कर्तव्यम् । व्यवहारतः ऋणं न भवेत् तथा वर्तनीयम् । ‘कस्यामपि परिस्थित्याम् अहम् आनन्देन भवेयम्’ इति यः भणति सः कदापि न्यूनतां न अनुभवति । धनिकानां द्वेषः न करणीयः, दरिद्राः निम्नस्तरीयाः इति न मन्तव्यम् च । एतादृशीं निष्ठां लब्धुं भगवन्निष्ठा अपेक्ष्यते । प्रत्येकं जनः अन्नं जलं च प्रचुरमात्रेण लभेत । एतत् समानं धनविभाजनम् । प्रतिफलं विना धनं स्वीकुर्मः चेत् यस्मात् स्वीकृतं तस्य वासना अपि तेन सह लग्ना वर्तते । कथं विचित्रं यत् इतरविषयेषु मनुष्यः वचनपालनार्थं भूरिः प्रयत्नान् करोति परं धनस्य वचनं सहजं ददाति, सहजं भग्नं करोति च । केवलं तस्मिन्नेव वचनपालने सः मन्दतां दर्शयति । धनाभावः मार्गं रुणद्धि तथा च धनिकत्वं समस्याः उत्पादयति च । एतादृशी अस्माकं परिस्थितिः । संन्यासिना एकस्य दिनस्य कृते यावत् अपेक्ष्यते तावदेव संग्रहणीयम्, गृहस्थेन दिनत्रयस्य रक्षणीयम् च । दिनत्रयस्य अन्नं वर्तते चेत् किञ्चिदपि चिन्ता न करणीया ।

‘अहं कर्ता’ इति प्रपञ्चे प्रथमंसोपानं, ‘रामः कर्ता’ इति परमार्थे प्रथमं सोपानम् ।

जून १५ – अहं केवलं नाम्नि एव अस्मि । मनुष्यः कियान् अपि श्रेष्ठः भवेत्, उत्तमः प्रवचनकर्ता, पुराणवक्ता च भवेत्, परं यदि सः नाम्नि न वर्तते, तस्य सहवासे परमेश्वरस्य प्रेम न लभ्यते च, चेत् सः कदापि सत्पुरुषः न मन्यते । सत्पुरुषाणाम्आप्ताःसाधवः एव सन्ति इति न । अस्माभिः सेवावृत्तिः स्वीकृता, अतः अस्माकं पुत्राः सेवावृत्तिमेव स्वीकुर्वन्ति इति न । अतः भागवतस्य पुत्रः भागवतः एव भवेत् इति न । सद्भिः अपि सामान्यजनसदृशमेव वर्तनीयम् । यद्वा तद्वा वर्तनं सत्पुरुषाणां भवितुं न अर्हति । आत्यन्तिकी निर्भयता सतां प्रथमलक्षणम् । यतो हि ‘सर्वत्र अहमेवास्मि’ इति भावनया भयस्य कारणमेव न विद्यते । मुनीनाम् अन्तःकरणे भयसङ्कल्पस्य अविद्यमानेन व्याघ्राः सिंहाः सर्पाः च तान् न पीडयन्ति । अति हिंस्र: व्याघ्रः अपि निर्भयतया तस्य दृष्टौ स्वदृष्टिं योजयामः चेत् न आक्रमति । अपि च मुनीनां शुद्धान्तःकरणानि तस्य मनः परिणमयन्ति । सताम् अन्तःकरणं प्राणिनः अपि जानन्ति । एतादृशैःसद्भिः सहवासः दुर्लभः । परमेश्वरप्रेमप्राप्तिः अथ वा मुखेन सततं नामस्मरणम् एव सत्सङ्गत्या साधनीयम् । सताम् अखण्डसङ्गतिः नामस्मरणेन एव लभ्यते । यत्र नाम तत्र सत्सङ्गतिः । तुकाराममहाराजसदृशः सत्पुरुषः अपि ‘भवतः विस्मरणं न भवेत्’ इति देवं प्रार्थयते । तथा च स्वामी रामदासः अपि देवं वदति, ‘भवतः योगः इत्युक्ते सहवासः मया नित्यं लभ्येत’ । योगः इत्युक्ते न किमपि अन्यत्, केवलं मनः यदा अनुसन्धानात् विमुखं भूत्वा इतरविचारेषु विभ्रमति तदा तं संयम्य पुनः अनुसन्धाने योजनीयमिति एव योगशक्तिः । आज्ञा कियती अपि उग्रा भवेत् अधः स्वाक्षरी न वर्तते चेत् तस्याः महत्त्वं न विद्यते । अधिकारिस्वाक्षरीयुतः कर्गजः एव महत्त्वपूर्णः । सर्वेषु साधनेषु नाम स्वाक्षरीसदृशं विद्यते । कश्चन बालकः अतिकोपिष्ठः आसीत् । तमहमवदम्, स्नानानन्तरं प्रतिदिनं उदरे रामनाम लिखतु । यदा यदा कोपः उद्भवेत् तदा तदा तं नाम पश्यतु । तेन प्रयोगेण तस्य कोपः शान्तः जातः । वस्तुतः नाम्नि कियती शक्तिः वर्तते । अनुभवेनैव पश्यतु । अद्ययावत् अहं सर्वान् नाम एव कथितवान् । अहम् अत्र नास्मि । अहं तत्र नास्मि । अहं न गतः । न गच्छामि । अहं केवलं नाम्नि एव भवामि । यस्य मुखे भगवन्नाम तं परितः अहम् अस्मि एव ।

’भवन्तः भगवन्नाम जपन्तु’, इतोऽपि अधिकं किमपि न अपेक्षे इति सत्यं वच्मि ।

जून १६ – परमार्थः श्रद्धया करणीयः । भगवत्प्राप्त्यर्थमेव वयं मनुष्यजन्म प्राप्तवन्तः । अद्ययावत् अहं बह्लीषु योनिषु भ्रमितवान् । अधुना भगवताअहं मनुष्ययोनिम् आनीतः । ‘भगवन् अधुना भवन्तं न विस्मरिष्यामि’, इति अङ्गीकृत्य मनुष्यजन्म प्राप्तवता मया अनुक्षणं ‘भवान् कः’ इति प्रष्टुम् आरम्भः कृतः । सन्तः ‘सः अहम्’ इति अस्माकम् अङ्गीकरणं स्मारयन्ति । सद्भिः जागरितं तथापि वयं शिरसि आच्छादनम् आकर्षयामः, एतदर्थं किं करणीयम्? निद्रानाटकं कुर्वतः जनस्य जागरणं दुष्करमेव । बह्व्यः तीर्थयात्राः कृताः,परं यथा आसं तथैव अस्मि तर्हि दोषः गङ्गायाः वा मम?‘गङ्गातटं बहवः जनाः आगच्छन्ति, स्नानं कुर्वन्ति, पूजार्चनं कुर्वन्ति । अतः इदं कलियुगम् इति कथं वदामः?’ इति कश्चन उक्तवान् । तथा अन्यः अभणत्, ‘एतस्य उत्तरं साक्षात् दर्शयामि’ । अनन्तरं सः उद्घोषणां कृतवान्,‘पुरतः कश्चन कुष्ठरोगी उपविष्टः अस्ति । यः पापी नास्ति सः यदि तम् आलिङ्गति तर्हि तस्य रोगः गच्छेत् । परं यः आलिङ्गति सः यदि पापी वर्तते तर्हि रोगिण: कुष्ठं तं प्रति आगच्छेत्’ इति । एवंश्रुत्वाशनैः शनैः सर्वे ततः पलायिताः । एतावन्तः नियमिताः विद्वांसः प्रतिदिनं गङ्गास्नानं कुर्वाणाः च परं कः अपि स्वान्तःकरणं शुद्धं वर्तते इति न अमन्यत । तदा एव वऱ्हाडदेशस्थः कश्चन दरिद्रः कृषकः कम्बलम् आच्छाद्य यष्ट्याः आधारेणं तत्र आगतः । एकवारं गङ्गायां निमज्जनं करोमि चेत् सर्वं पापं नश्यति इति तस्य निष्ठा । गङ्गायां स्नानं कृत्वा सः रुग्णं दृढम् आलिङ्गितवान् । आश्चर्यं यत् तस्यः रोगः अकस्मात् गतः । एतादृशाःनिर्धनाः सरलाः जनाः अन्धश्रद्धया यत् प्राप्तुं शक्नुवन्ति तत् श्रेष्ठानां विदुषां कृते अपि असंभवम् वर्तते । व्यवहारे वयं बहुधा अन्धश्रद्धां धरामः । गृहतः प्रस्थानसमये कार्यालयं समयेन प्राप्स्यामः इति अस्माकं चिन्तनम् अन्धश्रद्धा एव वर्तते । कदाचित् अकस्मात् वयं न प्राप्स्यामः तथापि अस्माकं विश्वासः वर्तते एव । व्यवहारे वयं परस्परं यावतीं निष्ठां कल्पयामः तावतीं भगवति संस्थापयामः चेत् भगवान् अस्मभ्यं निश्चयेन समाधानं दद्यात् । परमार्थः पूर्णत्वेन ज्ञातव्यः, अज्ञजनसदृशं श्रद्धया करणीयःवा । परं वयम् अल्पज्ञानिनः, इत्युक्ते पूर्णम्अज्ञात्वा सर्वं जानीमः इति अस्माकं भावः । एतेषां जनानां शङ्काः अधिकाः तेषां समाधानकरणमपि दुष्करम् । सत्यं ज्ञात्वापि यः आचरितुं न शक्नोति सः वास्तवः अज्ञानी । ये अनुभवेन परिष्कृताः ते सूज्ञाः ननु!

परमार्थे अन्धश्रद्धा न किञ्चिदपि अपेक्ष्यते । परं श्रद्धां विना तत्र न स्वल्पमपि प्रवर्तते ।

जून १७ – प्रपञ्चस्य कोलाहले एव परमार्थः साधनीयः । न्यायालये स्वीकृतं शपथं जनाः सत्यं न मन्यन्ते, तथैव केचन जनाः प्रपञ्चे धूर्ततया व्यवहरन्ति तथा च एषः एव व्यवहारः इति कथयन्ति । एषः सुव्यवस्थितः प्रपञ्चः न । प्रपञ्चे दिग्भ्रमितः जनः परमार्थमपि साधयितुं न शक्नोति । यः प्रपञ्चं कर्तुं न शक्नोति सः मुनित्वम् अपि आचरितुं न शक्नुयात् । ऋणम् अधिकम्, अतः प्रपञ्चः त्यक्तः तर्हि कः स्वार्थत्यागः? प्रपञ्चत्यागः इत्युक्ते वनं गत्वा वासः । शैत्यं वर्तते अतः वृक्षशलाकाः संगृह्य अग्निः प्रज्वालितः । स्थानं स्वच्छं कृतम् । तुलसी रोपिता । कुटिः रचिता । भिक्षासमये कुट्याः एव चिन्ता । तर्हि गृहं किमर्थं त्यक्तम्? प्रपञ्चबन्धनं स्वयमेव निगलेत् । बलेन त्यागः कथं शक्यः? एषः प्रपञ्चः एषः संसारः च भगवता एव निर्मितः तर्हि कः त्यक्तुं शक्नुयात्? यः आसक्त्या प्रभावितः तस्य संसारः वर्तते इति ज्ञातव्यम् । तुकाराममहाराजस्य ज्ञानेश्वरमहाराजस्य च अपि संसारः आसीत्, परं तस्मिन् तयोः आसक्तिः नासीत् । अतः सः तौ न अबाधत । निवृत्तिं स्वीकृत्य परमार्थं करिष्यामः इति भाषणं न योग्यम् । प्रपञ्चकोलाहले एव परमार्थः साधऩीयः । किमर्थं सावधानता अपेक्ष्यते? जन्मसमये मया यत् अङ्गीकृतं तद्विषये सावधानता आवश्यकी । प्रपञ्चे ध्यातव्यः भगवान् । विषये रतःअतः भगवान् विस्मृतः । एषः क्षणः रक्षणीयः । भगवतः स्मरणं करणीयम् । यथा विषयान् शरणं गतवन्तः तथा भगवन्तं शरणं गच्छेम । चित्तं शुद्धं कृत्वा विवेकं कुर्याम । अहं कियान् विषयाधीनः जातः इति द्रष्टव्यम् । विषयेभ्यः विभक्ताः भवामः तेन इदं द्रष्टुं शक्नुमः । व्यसनासक्तजनेन व्यसनात् प्राक् स्ववर्तनं स्मरणीयम् । मारुतिराजस्य दर्शनार्थम् अहं गच्छामि स्म । अधुना तस्य स्मरणमेव न भवति, एतदर्थं किं करणीयम्? सेवावृत्तिसमये भवन्तः अधिकारिणं शरणं गच्छन्ति ननु? तदनु यत् उदरपूरणार्थं कुर्वन्ति तत् भगवत्प्राप्तर्थ्यं किमर्थं न कुर्वन्ति? भगवन्तं शरणगमनं बहु सरलम् । तदर्थम् अन्यवस्तूनि न अपेक्ष्यन्ते । यदा मनसि इच्छामि तदा भगवन्तं शरणं गन्तुं शक्नोमि । भगवन्तं शरणगमनम् इत्युक्ते ‘अहं भगवतः’ इति मन्तव्यम् । ‘अहं रामस्य, यत् किमपिवर्तते तत् रामस्य’ इति यः मन्यते तस्य भिन्ना सावधानता न आवश्यकी ।

प्रपञ्चः माम् अपेक्षते । अहं भगवन्तं अपेक्षे ।

जून १८ – परमार्थे गुप्तता अपेक्ष्यते । वासनामुक्तिः बहु दुष्करा । यतो हि वासनायामेव प्राणिनः जनिं लभन्ते । तासां वासनानां शासनम् इत्युक्ते स्वमरणमिव दुष्करम् । वासनायाः उदरे जन्म तथा च तदनन्तरम् अहंकारः इति एतयोः उदरे कामक्रोधादय: विकाराः जायन्ते । एतस्य युगलस्य विशेषः वर्तते यत् भार्या पत्युरपेक्षया ज्येष्ठा । यतो हि आदौ वासना अनन्तरं ततः अहंकारः । भगवत्समीपे वासः वर्तते चेत् वासना नश्यति । मूलतः प्रपञ्चः न समीचीनः, न असमीचीनःअपि । प्रपञ्चे विद्यमाना वासना बहिः निष्कासनीया इत्युक्ते परमार्थः । प्रपञ्चे प्रसिद्धिः अपेक्ष्यते । प्रत्युत परमार्थे गुप्तता अपेक्ष्यते । चिन्तयन्तु, काचित् महिला पत्युः समीपे आभूषणार्थं हठं करोति । पतिः स्वीकरोति परम् एकं समयम् उपस्थापयति, यत् यदा सा आभूषणानि शरीरे धरेत् तदा पिहितप्रकोष्ठे एव तिष्ठेत् । एतादृशं समयम्अङ्गीकृत्य का महिला आभूषणानि धरेत्? यतो हि जनाः आभूषणानि पश्येयुः इति एव तस्याः समाधानम् । एषा प्रपञ्चस्य रीतिः । प्रत्युत परमार्थे गुप्ततायाः आवश्यकता वर्तते । स्वसाधना कस्यापि दृष्टिपथं न आगच्छेत् इति द्रष्टव्यम् । यतो हि परमार्थं दृष्टिदोष:शीघ्रं बाधते । न केवलम् अन्येषां, स्वस्य अपि बाधितुं शक्नोति । अतः परमार्थे गुप्तता आवश्यकी । मत्तः यत् साधनं प्रवर्तमानम् अस्ति तत् सद्गुरोः परमात्मनः वा कृपया एव, ते मत्तः कारयन्ति । इदं भानं कल्पनीयम् । रुग्णेन जनेन केवलं विश्रान्तिः करणीया औषधमात्रं नियतं स्वीकरणीयम् । अन्यविषयान् इतरजनाः कुर्वन्ति । औषधमात्रं स्वेन स्वीकरणीयं भवति । कियान् अपि महान् राजा भवेत् कटु औषधंदास्यै दत्त्वा स्वरोगं दूरीकर्तुं न प्रभवति । तद्वत् परमार्थे भगवत्स्मरणं स्वेन एव करणीयं भवति । वृथा कस्यापि अनुधावनं न करणीयम् । परमार्थः इत्युक्ते किं करणीयमिति सम्यक् अवगच्छन्तु । अनन्तरमेव तेन मार्गेण गच्छन्तु । कस्मादपि न वञ्च्यताम् । स्ववञ्चना जगतः वञ्चना इव पापम् । यस्य प्रपञ्चे परमात्मा रक्षकः तस्य प्रपञ्चः एव परमार्थः । प्रत्युत यस्य रक्षकः अहंकारः तस्य परमार्थः अपि प्रपञ्चः एव वक्तव्यः ।

बाह्यतः प्रपञ्चे द्रष्टव्यम् । अन्तरङ्गे परमार्थिना भवितव्यम् । एषा एव वास्तवा कला ।

जून १९ – ‘अहं कश्चन अस्मि’ इति वृत्तिः घातकी । बहूनां जनानां समस्याः श्रुत्वा मनसि विचारः आगतः यत्जगति सर्वदुःखानां मूलं देहदुःखे धनाभावे च मुख्यतः सङ्गृहीतं वर्तते । एतयोः द्वयोः विषय़े साहायं कर्तुं शक्नुमः चेत् बहून् जनान् सुखिनः कर्तुं शक्नुमः इति मत्वा तद्दृष्ट्या चिन्तनम् आरब्धम् । धनविषये चिन्तयामि चेत् अहं तु एकवस्त्रधारी, समीपे न धनं न वा तस्य लोभः । अन्येभ्यः धनं दातव्यं चेत् आदौ स्वमनसि तद्विषये लोभः उत्पादनीयः । तदा एव धनप्राप्त्यर्थं बुद्धिः लभ्येत । अनन्तरं धनप्राप्तिः, अपेक्षावते दातव्यं च । परम् इदं कार्यं यथा मन्यामहे तथा सुकरं नास्ति । यतो हि अन्येभ्यः दातुं धनलाभाय उत्पादितः लोभः एव धनत्यागे अन्तरायः भवेत्, दानबुद्धिं हन्यात् च । इत्युक्ते परिणामतः अन्येभ्यः धनदानं तु न जातं परं स्वमनसि आदौ अविद्यमानः लोभः तु उत्पन्नः । एतेन अन्यस्य कार्यं तु न जातं, परं स्वहानिः केवलं जाता । अपरः विषय़ः देहबुद्धेः । यस्य देहबुद्धिः मृता तस्य अन्येषां देहदुःखानां भानं न भवितुम् अर्हति । इत्युक्ते अन्येषां देहदुःखस्य नाशार्थं बुद्धिम् उत्पादयितुम् स्वस्मिन् देहबुध्दिः जागरणीया भवेत् । चिन्तयन्तु, एतावत् सर्वं कृतं, तस्य देहदुःखं निवारितं, तथापि तस्य पुनः देहदुःखं न भवेत् इति कथं भवितुम् अर्हति? विद्यमाना उदरपीडा नाशिता चेत् ज्वरः इतररोगःवा न उद्भवेत् इति कथं भवितुमर्हति? इत्युक्ते देहदुःखं शाश्वतं परिहर्तुं न शक्नुमः, धनमपि दातुं न शक्नुमः च । एतया पद्धत्या जगत् सुखि कर्तुं न शक्नुमः, परम् अस्मासु वृथा दोषाणाम् उत्पादनेन स्वस्य अवनतिः भवेत्, हानिः च लभ्येत । अतः रामस्य प्रार्थना कृता यत् एतादृशान् विषयान् कर्तुं शक्तिं बुद्धिं च मह्यं न ददातु । शैशवावस्थायां विद्यमाना सरला वृत्तिः कारणद्वयेन नष्टा, एकं वित्तम्, अपरं विद्या । द्वाभ्याम् ‘अहं कश्चन श्रेष्ठः’ इति भावः उत्पद्यते सः तु घातकः एव । ‘अहं कश्चन अस्मि’ इति भावस्य अपेक्षया ‘अहं कस्यचन अस्मि’ इति भावः हितकरः । जगति विद्यमानाः अत्याचारः, अनीतिः, अधर्मः, असमाधानं च इति एतेषां सर्वेषां कारणम् इदमेव वर्तते यत् मनुष्यः अधिकः लोभी जातः अस्ति । देवस्य यस्मिन् कृपा वर्तते तस्मै सः उदरपूर्तिपर्याप्तं धनं ददाति परं यस्य सः परीक्षां कर्तुमिच्छति तस्मै अधिकं धनं ददाति ।

अस्मभ्यम् इष्टदाने न भगवतः वास्तवा कृपा, विद्यमानायां परिस्थित्यां समाधानस्य दृढीकरणमेव तस्य वास्तवा कृपा ।

जून२० - यस्यनास्तिसम्यक्प्रपञ्चः । तस्यभवतिपरमार्थःशिथिलः । पित्रोःनपश्यतुदोषं । सत्पुत्रस्यइदमेवलक्षणम् ॥ पित्रोःसमाधानं । सत्पुत्रस्यलक्षणंवास्तवम् ॥ तयोःसमाधानरक्षणम् । अनन्तरंयत्किमपिकरणीयम् ॥ मातुःअन्तःकरणम्अतिकोमलं । पुत्रस्यदुःखेनदुःखितं । पुत्रस्यआनन्देनप्रमुदितं । अतःपुत्रैःआनन्देनभवितव्यं । चित्तंसदाभवतुक्षोभरहितम् ॥ शब्दैःतेषांसमाधानंकरणीयम् । अपशब्दानांदुःखंनमन्तव्यम् । वृत्तिः,सेवा,उद्योगः । उदरपोषणार्थंकरणीयः ॥ धनंविपुलम्अर्जनीयं । परंतत्नसुखसाधनंमन्तव्यम् ॥ प्रपञ्चेहानिःपरिहरणीया । वाणीकदापिनतथाउच्चारणीया ॥ अतिथिःभोजनीयः । विन्मुखःनप्रेषणीयः ॥ निरुत्साहेननभवितव्यं । निराशत्वेननमन्तव्यम् ॥ नितरांव्यवहारमार्गेणगन्तव्यं । तत्ररामस्यभवतुअधिष्ठानम् ॥ यस्यसम्यक्नास्तिप्रपञ्चः । तस्यपरमार्थःशिथिलः ॥ प्रपञ्चस्यचिन्ताकरोतियः । तस्यपरमार्थायलग्नःकीटः ॥ परमात्मायस्यआधारः । चिन्तानकरोतितत्रवासः ॥ यदिप्रतिवेशीरामः । तर्हिदुःखस्यचिन्तायाःचनप्रवेशः ॥ कोऽहम्इतिजानाति । चिन्तामुक्तातस्यवृत्तिः ॥ रामःत्राताइतिमनसिभावः । सःभविष्यतिनिर्भयः ॥ येनरामायअर्पितःदेहः । सर्वदासःचिन्तामुक्तः ॥ यदिकर्तारामःइतिमनसि । तर्हिपापपुण्ययोःभयंनास्ति ॥ परमात्मासखायस्य । कुत्रापिनास्तिभयंतस्य ॥ ‘कर्ताहम्’इतिकल्पनं । सर्वदुःखकारणम् ॥ यद्जायतेतद्जायते । यद्भविष्यतितद्परिहर्तुंनशक्यते ॥ अतःचिन्ताकरणीया । रामःसाक्षीसर्वदा ॥ यद्यद्वर्ततेमम । तद्तद्रामस्यचिन्तय ॥ रामःनिभालयति । चिन्तायाःकारणंनास्ति ॥ दारपुत्राणांचिन्तानकुर्यात्मनः । प्रसादनीयःरामः ॥ स्वगार्हस्थ्यंरामस्यमत्वामनसि । निश्चिन्तताएवसुयोग्यारीतिः ॥ यावच्छक्यंनामस्मरणं । मास्तुस्वस्यचिन्ताकरणम् ॥ गार्हस्थ्यंरामस्यमत्वाकृतं । तेननवर्ततेचिन्ताकारणम् ॥ भगवान्यदिसंरक्षकः । तर्हिचिन्ताकरोतिकः? ॥ अतःमुखेनामचित्तेरामः । तेनमनसिआरामः ॥ सर्वदामनसिनिश्चयः । रघुपतिःनत्यक्तव्यः ॥ सर्वसाराणांसारः । भजनीयःरघुवीरः ॥ नियमेषुनियमः । रामात्ऋतेनजीवामः ॥

सर्वकर्तारामः । भवतुएषःविश्वासः । नावशिष्यतेचिन्ताविषयः ॥

जून २१ – भावं विना परमार्थः न भवितुमर्हति । प्रपञ्चे यथा वित्तं तथा परमार्थे भावः अपेक्षितः । प्रपञ्चे वित्तं विना कार्यं न प्रवर्तते । परमार्थः अपि भावं विना न भवितुमर्हति । यथा भवतः भावः तथा देवस्य प्राप्तिः । प्रह्लादः स्तम्भात् अपि देवं प्राप्तवान् । नामदेवः पाषाणविग्रहं भोजितवान् । गोपीकथां भवन्तः जानन्ति । गोपी श्रीकृष्णाय भोजयितुमिष्टवती, परं तस्याः पतिः तां न अन्वमन्यत । तदा सा उक्तवती, ‘अस्मिन् देहे भवतः स्वामित्वं, परं मनसि भवतः स्वामित्वं न विद्यते’ । इति उक्त्वा देहं तस्य समीपे संस्थाप्य सा श्रीकृष्णं प्रति गतवती ननु? तद्वत् अस्माकं परमार्थे भावः अपेक्षितः । परं केवलं वचनैः किम्? वयं वदामःयत् सः सर्वव्यापी सर्वसाक्षी च विद्यते परं वयं पापम् आचरितुं बिभेमः किम्? सः अस्मान् पश्यति इति निश्चयेन मन्यामहे चेत् वयं पापं कर्तुं शक्नुमः किम्? परं वयं तथा न मन्यामहे एव । अस्मत्सदृशः आस्तिकः ‘देवः अपेक्षितः’ इति मन्यते खलु, परं ‘देवः एव अपेक्षितः’ इति न मन्यते । वयं प्रपञ्चे साहायार्थं देवमिच्छामः । ‘प्रपञ्चः अपेक्षितः एव’ इति वयं मन्यामहे, परं ‘भगवान् वर्तते चेत् सम्यक्’ इति मन्यामहे । प्रत्युत ‘देवः अपेक्षितः एव’,‘प्रपञ्चः वर्तते चेत् सम्यक्’ इति मन्तव्यम् । प्रपञ्चे रुचिः न भवेत्, प्रपञ्चे कर्तव्यपालनस्य रुचिः भवेत् । देहेन कर्तव्यं करणीयं, मनसा तु अनुसन्धातव्यं च । मनसि तुदत: विषयान् न कुर्मः चेत् अस्माकं विकारान् नियन्तुं शक्नुमः । भगवतः पुरतः कर्तुं न लज्जामहेतादृशी कृतिः करणीया । व्यापृताः जनाः रुदन्ति । अव्यापृताः जनाः अपि रुदन्ति । तदनु सुखं क्व वर्तते? धनं सुखं ददाति किम्? धनप्राप्तिः दुष्करा, प्राप्तं चेत् तस्य शाश्वतता नास्ति । धनमिव कथा अन्यसर्ववस्तूनाम् । प्रपञ्चे सर्वसुखी कः वर्तते? प्रत्येकं जनस्य काचित् याच्ञा विद्यते एव । प्रत्येकं जनस्य आशा विद्यते यत् अहम् अद्यापेक्षया श्वः सुखितरः भविष्यामि । सः कदापि पूर्णसुखी न भवति । तस्य याच्ञा न समाप्नोति । प्रपञ्चे विद्यमानानि सर्वाणि वस्तूनि नाशवन्ति दुःखमयानि च सन्ति । अतः प्रपञ्चः मिथ्या इति अनुभवं प्रपञ्चः ददाति । एतेन अनुभवेन प्रपञ्चे यः अनासक्तः सः सुखी । अनुभवं विस्मृत्य यः आसक्तः सः दुःखी । सुखं समञ्जने विद्यते, भगवतः भवितव्यम् इति एव समञ्जनं सत्यम् ।

प्रपञ्चः आनन्देन, अनासक्त्या च करणीयः ।

जून २२ – सुखं त्यागे, न तु भोगे । अमुकम् इष्यते परं न प्राप्यते तदा दुःखं भवति । अमुकस्य इच्छा एव न भवेत् । यथा परमात्मा कल्पयति तथा समाधानं मन्तव्यम् इति एतस्य नाम वैराग्यम् । वयं विषयेषु निमज्जामः । पुनः विषयम् एव धरामः चेत् अधिकमेव निमज्जनं भवेत् ननु? विषयाणाम् आशा इत्युक्ते तेषां दासत्वम् । मनुष्यः सुखार्थं परिश्राम्यति, अन्ते दु:खमयानां विषयाणामेव आशां करोति । सुखं त्यागे वर्तते, न तु भोगे इति बहवः न अङ्गीकुर्वन्ति । परिसस्पर्शेण लोहस्य सुवर्णं भवति, न तु रूप्यकस्य । तद्वत् वयं दीनेषु दीनाः अभिमानरहिताः च भवामः । तेन वयं परमात्मानम् अनन्यशरणं गन्तुं शक्नुमः । एतदर्थं तस्य कृपा आवश्यकी । तदर्थं सः नित्यं प्रार्थनीयः । केनचित् विषयेण अस्माकं मनः अस्वस्थं किमर्थं भवति? तं विषयं वयं सत्यं मन्यामहे अतः । एषा सर्वा क्रीडा, मिथ्या च इति मत्वा यथा नटः नाटके स्वभूमिकां पूर्णतः वास्तवसदृशीं करोति तथा व्यवहारः करणीयः । सुखं समाधानं च सत्यत्वे विद्यते, न तु मिथ्यात्वे । अद्ययावत् वयं विषयान् उपभुञ्ज्महे, परं ततः सुखं न प्राप्तम् । तदनु विषयाः मिथ्या इति अनुभूतिः भगवता भवद्भ्यः न दता किम्? तथापि भवन्तः मां विषयेषु एव प्रपञ्चः कथं परिष्करणीयः इति पृच्छन्ति तदा किं वदामि? यत् दुःखमयमेव वर्तते तस्मिन् सुखं कथं लभ्येत? द्वे बालिके बालपाकक्रीडां क्रीडतः । या निर्धना सा रोटिकां गुडाम्ररसं च कृतवती । या धनिका सा श्रीखण्डं, पायसं च कृतवती । प्रथमायाः गुडाम्ररसः यथा उदरपूर्त्यर्थं न उपयुक्तः तथैव द्वितीयायाः श्रीखण्डमपि न उपयुक्तम् । प्रपञ्चस्य सत्यत्वं तथैव विद्यते । प्रपञ्चार्थं दारपुत्राणाम् आवश्यकता विद्यते एव इति न । यः परावलम्बी सः प्रपञ्ची एव । अतः एकः जनः अपि प्रपञ्ची एव । अन्येभ्यः सुखाकाङ्क्षः प्रपञ्ची एव । पञ्चजनानां प्रपञ्चः भवति । तेषु प्रत्येकं जनः स्वार्थी वर्तते । तदनु सर्वं सुखं एकः एव लभेत इति कथं शक्यते? प्रपञ्चे नैकानि वस्तूनि । परं भगवत्समीपे एकमेव वस्तु । प्रपञ्चे कतिचन वस्तूनि आनीतानि चेत् न पर्याप्तानि । यतो हि आनीते प्रत्येकं वस्तूनि आनीयमानस्य वस्तुनः बीजं निहितं वर्तते । परं भगवतः तथा नास्ति । एकवारं भगवद्वस्तु आनयामः चेत् पुनः आनयनस्य आवश्यकता न वर्तते ।

अमुकवस्तुन: अस्तित्वेन अहं सुखी इति भावे न रामः । वस्तुनः अभावे अपि समाधानं स्थिरं भवेत् ।


जून २3 – हेतुः शुद्धः भवेत् । मनुष्येणहेतुःशुद्धःकल्पयितुं प्रयत्नाः करणीयाः । हेतुः शुद्धः वर्तते चेत् स्वभावतः कृतिः अपि तदनुरूपा भवति, उन्नत्यर्थं सहाय्यं भवति च । हेतुः कूपस्थः निर्झरः इव वर्तते । यदि निर्झरः मधुरजलयुतः, तर्हि कूपः अपि मधुरजलयुतः भवति । अतः शुद्धहेतवे दक्षता आवश्यकी, तदर्थं रामस्य प्रार्थना करणीया । मनुष्यस्य देहरक्षणार्थम् अन्नं वस्त्रं तथा च नामस्मरणबुद्धिः वर्तते चेत् असमाधानं न भवितुमर्हति । भक्तिं विना दीनजीवनं मास्तु । एषा प्रार्थना रामरायं प्रति करणीया । पर्वसमये भगवान् कामधेनुरूपेण आगच्छति । यः यत् इच्छति तत् तस्मै ददाति । पर्वसमये सज्जनाः दुर्जनाः च स्वकार्याणि कारयन्ति । जारणमारणमपि पर्वसमये शीघ्रं साध्यं भवति । अस्माभिः तु केवलं भगवान् एव द्रष्टव्यः । शुभेच्छा धरणीया । भावना जागरणीया । ‘किमपि करोतु परं भवतः विस्मरः न भवेत्’, इति भगवन्तं याच्ञाकरणीया । अद्ययावत् ज्ञात्वा अज्ञात्वा यत् पापं कृतं तत् नाशयतु । पुनः न करिष्यामि । इति वक्तव्यम् । तेन पूर्वतनपापानि नश्यन्ति । यस्मै विषयाः रोचन्ते तस्य परमार्थे रुचिः न भवति । नरके विद्यमानाः कीटकाः घृणां न कुर्वन्ति । विषयिण: जनाः प्रपञ्चे विरम्य सत्पुरुषाणां निन्दां कुर्वन्ति । अहमेव सूज्ञः श्रेष्ठः च इति अभिमानं धरन्ति । परं तेषामपेक्षया लक्षलक्षाः सूज्ञाः धनिकाः च जगति विद्यन्ते इति ते न अवगच्छन्ति । अधस्तरीयान् जनान् दृष्ट्वा अहं श्रेष्ठः इति ते वदन्ति । मम प्रमादाः भवन्ति इति अवगच्छामि चेत् पर्याप्तम् । विषयिणः जनाः ‘क्व अहं दुःखी?’ इति मन्यन्ते । परं मद्यवत् विषयाणां मूर्छा निर्गच्छति चेत् पश्चात्तापः भवति । देवः वर्तते इति सत्यत्वेन ये मन्यन्ते ते अल्पाः जनाः । सद्विचारः, सच्छास्त्रं,सद्बुद्धिः च इति सर्वं प्रत्येकं जनं भगवन्तं प्रति नेतुमेव सन्ति । प्रपञ्चस्य अनुभवः कष्टमयः, परं भगवतः अनुभवः आनन्दमयः । ज्वरपीडितः जनः स्वेदमिच्छति । परं केवलं मननेनस्वेदः न आयाति । तदर्थं वैद्यस्य औषधं स्वीकरणीयं भवति । तद्वत् यः भगवत्प्रेम अपेक्षते तेन नामजपौषधिः स्वीकरणीयः । भगवत्प्रेम एकदा लब्धं चेत् अनन्तरं न कः अपि अन्तरायः । खनिमध्ये पाषाणेषु यथा सुवर्णं वर्तते, तथा अस्मासु परमात्मा वर्तते । पाषाणेषु विद्यमानां मृत्तिकां विविधैः यन्त्रैः यथा निष्कासयन्ति अनन्तरं सुवर्णं लभ्यते तथा नैकानां वासनानां नाशं कारयित्वा परमात्मा हस्ते लभ्यते । स्वस्य अहंकारः म्रियते चेत् परमात्मा प्रकटीभवति ।

शुद्धम् आचरणं । तथैवअन्तःकरणं । तस्मिन् भगवत्स्मरणम् । इदमेव प्रपञ्चसुखसाधनम् ।

जून २४ – ज्ञानं द्विविधं शस्त्रम् । लोककल्याणस्य तीव्रेच्छया यः ग्रन्थं लिखति सः वास्तवः ग्रन्थकारः । पठितम् आचरय्य जनान् कथयति सः वास्तवः वक्ता । कथितम् आचरति सः वास्तवः श्रोता साधकः च । साम्प्रतं ज्ञानप्रसारस्य नैकानि साधनानि उपलब्धानि सन्ति । तेन निषेधार्हं ज्ञानमपि झटिति प्रसरति । ज्ञानं द्विविधं शस्त्रं वर्तते । यय़ा कर्ता तथा ज्ञानस्य सम्यक् असम्यक् वा उपयोगः भवति । ज्ञानं मूलतः पवित्रम् । यत् ज्ञानं नीतिधर्मयोः अधिष्ठाने स्थिरं वर्तते तत् अधिकं प्रभावि वर्तते । सर्वेषां परस्परं प्रेम भवेत्, सर्वे संभूय भवेयुः च इति एतादृशं ज्ञानं भवेत् । धनिकः निर्धनः, सूज्ञः अज्ञः, बालः ज्येष्ठः, महिला पुरुषः च सर्वे परस्परं स्निह्येयुः, परस्पराणां विषये आदरः आत्मीयता च वर्धेत इति एतादृशं ज्ञानं प्रकटीभवेत् । द्वेषमत्सरौ वर्धयितृ,नीतिधर्मौ परिहर्तृच ज्ञानं पुस्तके न भवेत् । विद्वांसः शास्त्रज्ञाःच नूतनानि अन्वेषणानि कृत्वा जगत् स्वार्थि लोभिच कुर्वन्ति, तेन सर्वनाशः भवति । यत् समाधानं न ददाति तत् वास्तवं ज्ञानं न । जगतः वास्तवं स्वरूपं ज्ञायेत तदेव सत्यं ज्ञानम् । देहविषयकं यत् ज्ञानं तत् व्यावहारिकं ज्ञानम् । यत् यथा वर्तते तस्य अभिज्ञानम् इत्युक्ते तत्त्वज्ञानम् । अहं ‘देहः मम’ इति वदामि, इत्युक्ते अहं न देहः । ‘मम गृहं’ वदन् वक्ता गृहात् भिन्नः भवति । जडत्वमित्युक्ते किम्? देहे ममत्वमित्युक्ते जडत्वम् । पदार्थस्य यथार्थं ज्ञानं यस्य वर्तते सः सूज्ञः, व्यवहाररहस्यं यः जानाति सः प्रपञ्ची । जगतः रहस्यं यः जानाति सः तत्त्वज्ञानी । सूक्ष्मज्ञाने सुखं वर्तते । आत्मा समुद्रःइव जीवः तस्मिन् कश्चन लघु बिन्दुःइव । तम् अभिज्ञाय आत्मना सह सामरस्यम् एव वास्तवं तत्त्वज्ञानम् । ‘ब्रह्म सत्यं जगत् मिथ्या’ इति ज्ञानप्राप्तिः दुर्लभा । परम् अभ्यासेन दीर्घकालानन्तरं लभ्येत । परं नाममाहात्म्यं न अवगच्छेत्, तत् सत्कृपया एव ज्ञायेत । नामजपे विश्वासः महद्भाग्यलक्षणम् । बुद्धिभेदविषये सावधानेन भवितव्यम्, दूरेण भवितव्यम् । सद्वचने विश्वस्य अखण्डं नामजपः करणीयः । तेन समाधानं लभ्येत । यस्य ग्रन्थस्य श्रवणेन भगवद्विषये प्रेम उत्पद्यते, येन जगत्विषयेविरक्तिः उत्पद्यते, अनीतिवर्तनपरित्यागपूर्वकं नीतिधर्ममार्गौ अनुसर्तुम् इच्छा उत्पद्यते सः सद्ग्रन्थः । उदाहरणार्थं ज्ञानेश्वरी, दासबोधः, नाथभागवतम् चेति एतेषां ग्रन्थानां पठनं मननं च बहु लाभाय । तेन ईश्वरप्रेम उत्पद्येत ।

अतिकठिनप्रमेययुताः ग्रन्थाः पठनीयाः । परम् अन्ते सरलतमं नाम जपनीयम् ।

जून२५–सदाचरणंपरमार्थस्यअधिष्ठानम् । रामःसहजंलभ्येत, एतदर्थंसमर्थरामदासैःयानिसाधनानिकथितानिसन्ति, तेषुसद्ग्रन्थपठनम्अन्यतमम् । किमपिपठनीयम्इतिमत्वाकश्चनग्रन्थःधर्मग्रन्थःवानपठनीयः । अर्थज्ञानंविनाग्रन्थःपठितःइतिभवितुंनार्हति । तथैवयावत्पठितंतावत्आचरितुंप्रयत्नाःविधेयाः । यद्वयंनकुर्मःतत्आदौकर्तुम्आरम्भःकरणीयः । बहुकिमपिपठितं, किन्तुनाचरितंतर्हिकःलाभः? चतुर्मैलदीर्घःमार्गःआरम्भेएवदृश्येतइतिकथनंकियत्युक्तम्? एकमैलान्तरंगच्छामःचेत्अग्रिमःमार्गःदृश्येत । यथायथाअग्रेगच्छामःतथातथाततोऽपिअग्रिमंदृश्येत । परमार्थेअपितथैव । पित्रासदृशंश्मश्रुःममभवतुइतिबालकःहठंकरोतिचेत्कथंशक्यते?अद्यैवममदेवदर्शनंभवेत्इतिकथंशक्येत? सद्गुरोःआज्ञापालनीया, साधनंकरणीयं, तेनसर्वंभवति । भोक्तुमारभ्यतेचेत्उदरंपूर्णंभविष्यतिएव! नूनंपरमार्थमार्गःअतीवसरलः । प्रपञ्चमार्गःगिरिकन्दरयुतःकण्टकाकीर्णःच । प्रपञ्चःपरमार्थःसुकरंकर्तुंभवेत् । परंप्रत्युतअस्माभिःपरमार्थःप्रपञ्चंसुकरंकर्तुम्उपयुक्तः । वृतिःक्षेत्रंभुञ्जेतइतिअस्माकंजातम् । क्षेत्रंवृतिम्अपेक्षते । अन्यथापशवःक्षेत्रंप्रविश्यसस्यम्भुञ्जेरन् । तथैववृतेःआत्यन्तिकंवर्धनमपिक्षेत्रस्यमहतींहानिंकरोतिइत्यपिअवधातव्यम् । येनव्यवहारःसम्यक्परिशील्यकृतः, तस्यपरमार्थःसिद्ध्यतिएव । परमार्थःशर्कराइववर्तते । शर्करायाःकारवेलःक्रियतेचेदपिमधुरःएवतस्यस्वादःभवति । तथैवप्रपञ्चेकृतःपरमार्थःअपिमधुरःएव । परमार्थःस्यस्यकृतेएववर्तते, अतःसःस्वेनकर्तुंशक्यतेनवाइतिपरिशीलनीयम् । यदिशक्यतेइतिविश्वस्यतेतर्हिकरणेनविनानस्थातव्यम् । उदरम्अन्नंनेतुंमुखंद्वारं, तथापरमार्थस्यद्वारंसदाचरणम् । सदाचरणंपरमार्थस्यअधिष्ठानम् । अधिष्ठानंनगृहं, किन्तुअधिष्ठानेनविनागृहंनभवितुमर्हति, इत्यपिसत्यमेव । स्वपुत्रःयथाप्रेम्णाआलिङ्ग्यतेतथापरमार्थःकरणीयः । अन्यबालकंयथास्वीकुर्मःतथाप्रपञ्चःकरणीयः । भगवत्स्मरणेप्रपञ्चःसुखमयःकरणीयःइतिएवयथार्थःपरमार्थः । तथैवयस्यवृत्तिःसंशुद्ध्यभगवतिलग्ना, तेनएवपरमार्थःयथार्थःज्ञातः ।

भगवतिअकारणंप्रेमकरणम्इत्येवपरमार्थः ।  

जून२६– नियमःस्वल्पःकरणीयःपरंसःशाश्वतःभवतु । यंवृक्षंवर्धयितुम्इच्छामःतंवयंजलंसिञ्चामः । तंसंवर्धयामः, निभालयामःच । परंयंवृक्षंनेच्छामः, यस्यमहत्त्वंनमन्यामहेतंदुर्लक्षंकुर्मः । तथैवयेनबुद्धिःपरमेश्वरेस्थिराभवेत्,तंसंवर्धयामः । देहं, विचारं, विषयंचदुर्लक्षामः,तेनसहजंतान्विस्मरामः । यथावृक्षंनिभालयितुंतंवृतिंकुर्मः, तथापरमार्थःअपिरक्षणीयः । यावत्सःगुप्तःतावत्सुष्ठु । तस्यप्रदर्शनंभवतिचेत्तस्यदृष्टिदोषःभवति । अतःपरमार्थःगुप्ततयाकरणीयः, प्रेम्णाकरणीयः । उप्तस्यवृक्षस्यवर्धनंनकोऽपितम्उत्पाट्यप्रतिदिनंपश्यति । तथैवअनुभवस्यप्रचितेःचअवगमनार्थंनअनुधावन्तु । तेनउन्नतिःस्थगेत् । हठिनःव्यसनिनःचजनाःमह्यंरोचन्ते । यतोहितेषांहठःभगवन्तंप्रतिपरिवर्तितःभवतिचेत्कार्यंजातम् । परमार्थेनियमःस्वल्पःकरणीयः, परंसःशाश्वतःभवेत् । येनभगवत्प्रेमलभ्येततथाभवेत् । सःप्राणैःसहरक्षणीयःच । अतिभाग्यशालिनःएवध्यानमार्गम्आचरितुंप्रभवन्ति । एषःमहापुरुषाणांमार्गः । ध्यानेजगत्विस्मर्यते । अस्यामवस्थायांनदिनानिअपितुवर्षाणिगच्छन्ति । तथापिदेहेकोऽपिविकारःनजायते । अस्मादृशानांकृतेसाधनेषुसाधनंनामस्मरणम्,दानेषुदानम्अन्नदानंम्, उपासनासुउपासनासगुणोपासना । एतैःत्रिभिःकारणैःदेहस्यविस्मरणंभवति । अतःयावच्छक्यम्एतान्त्रीन्विषयान्आचरन्तु । स्वभावतःमनुष्यःप्रवृत्तिंवर्धयति । द्वैतंवर्धयित्वातस्मिन्अद्वैतदर्शनेआनन्दःइतितुसत्यम् । सामान्यंमधुमक्षिकाणाम्उदाहरणंपश्यन्तु । ताःनैकेभ्यःवृक्षेभ्यःमधुसंगृह्णन्ति । सःएकत्रीकृतःमधुकियान्मधुरःभवति! एवंसर्वेषुद्वैतेषुअद्वैतम्इत्युक्तेएकंप्रभुंरामंद्रष्टुंशिक्षणीयम् । यःसर्वत्ररामंद्रष्टुकामःसःआदौआत्मनिरामंपश्येत् । प्रत्येकंकृतिःरामस्यएवइतिकल्पयेत् । आत्मनिरामदर्शनेनविनातंसर्वत्रद्रष्टुंनशक्यते । अतःस्वस्यइत्युक्तेदेहस्यविस्मरणेनविनासुखंनलभ्येत । स्वविस्मरःराममयःभूत्वाएवभवेत् । अतःअखण्डंभगवदनुसन्धानेभवतु ।

परमार्थःनितरांस्वतःआरभणीयः ।

जून२७–शाश्वतंसुखंकथंलभ्येत? पश्यन्तु, कश्चनप्रवचनकारः, वैदिकःवासमाधानंलभतेइतिन । सःअसमाहितःएवभवति । सूज्ञत्वेप्राप्तेसतिसदाचारेणव्यवहृत्य, देवधर्मकार्याणिकृत्वाअपिसमाधानंनलभ्यतेइत्येतस्यकिंकारणम्? तदस्तिअस्माकंध्येयंननिश्चितम्इति । वयंनीत्याआचरामःजनभयेन । जनाःनिन्देयुःअतः । लौकिकार्थंकृतंकर्मकदापिसमाधानंदातुंनप्रभवति । पापकर्ताअपिसमाधानंनलभते । यतोहिसःदुष्कर्माचरतिइतिसःअपिजानात्येव । कदाचित्कश्चनगृहस्थःमाम्आगतः,अवदत्च, देवःअतीवअन्यायी, तस्यसविंधेन्यायःअस्तिनवा?”मयापृष्टम्, एवंकिमभवत्?”तदनुसःउदतरत्, अहंकदापिकस्मादपिउत्कोचंनस्वीकृतवान् । सदासदाचरितवान् । परंकेवलम्एकाट्टात्मकंभवनंरचितवान् । किन्तुममाधीनःकश्चनयःकश्चित्लिपिकःउत्कोचंस्वीकुर्वन्ममगृहाभिमुखम्एवद्व्यट्टात्मकंस्वगृहंनिर्मितवान् । तदामयापृष्टं, तर्हिभवान्किमर्थम्उत्कोचंनस्व्यकरोत्?”तत्मह्यंनरोचते । जनाःनिन्देयुःसःअभणत् । अतःलौकिकार्थंकृतेनकर्मणाकदापिसमाधानंनलभ्येत । प्रपञ्चेसुखंप्राप्तुंवयंदेवकर्माणिकुर्मः, लौकिकार्थंनीतीधर्मम्आचरामः । ततःशाश्वतंसुखंकथंलभ्येत? शरीरंसुन्दरैःआभूषणैःअलङ्कृतम्,उत्तमाशाटिकापरिधृता, किन्तुभालेकुम्कुमंनास्तिचेत्एतस्यसर्वस्यकिंमूल्यम्? तथैवयदिदेवस्यप्रीतिःनास्तितर्हिसत्कर्माणांनतावान्लाभः । प्रत्युतआत्यन्तिकेदेवप्रेम्णिनीतिधर्मविरहितम्आचरणंपरमार्थभवनम्उध्वस्तीकुर्यात् । वस्तुतःपरमार्थःअतीवसरलः । विद्वांसःतंवृथाक्लिष्टंकुर्वन्ति । किंसम्यक्किमसम्यक्इतिज्ञातेसतियःतदनुरूपंव्यवहरति, सःनिश्चयेनपरमार्थंप्राप्नुयात् । परमार्थसिद्ध्यर्थंत्रिभ्यःकश्चनएकःउपायःभवितुमर्हति । प्रथमःदेहेनसाधुनासहवासः,द्वितीयःसतांवाङ्ग्मयपठनम्आचरणंच, तृतीयःभगवतःनामस्मरणम् । नामजपेनतेन(ईश्वरेण) सहअखण्डसहवासःलभ्येत । सद्भिःकथितंविनासंशयं,विश्वासेनकरणीयम्इतिप्रथमंसोपानम् । तत्सततंनिश्चयेन,श्रद्धया, प्रेम्णाचप्रवर्तनीयम्इतिअन्तिमंसोपानम् । एषःएवशाश्वतसमाधानस्यमार्गः ।

जगत्किंवदेत्इतिमत्वाव्यवहरणीयम्इतिप्रपञ्चः । परमेश्वरःकिंवदेत्इतिमत्वाव्यवहरणीयम्इतिपरमार्थः ।  

जून२८- परमार्थः कृतिशास्त्रम् । कदाचिद् जनकराजस्य गृहं कश्चन विद्वानागतः । स्वागमनस्य सूचना तेन प्रेषिता । ‘अधुना राजा मम पूजां कुर्यात्’ इति भावः तस्य मनसि आगतः । तस्य एतादृशं भावं ज्ञात्वा राजा तस्मै सन्देशं प्रेषितवान् यत् भवान् एकाकी एव आगच्छतु इति । तथैव अस्माभिः अभिमानस्यूतं बहिः संस्थाप्य एव राम: गन्तव्य: । सद्गुरोः गृहमपि स्वपरिच्छदम् अपाकृत्य गन्तव्यम् । ‘अहं कः’ इत्येतस्य ज्ञानं यावद् भवति तावद् द्वित्वं वर्तते एव । अभिमानं वर्धयितुं भगवान् न गन्तव्यः । परस्य विषये दुर्भावना मनः आगच्छति चेद् अभिमानः वर्धमानः इति ज्ञातव्यम् । पुत्रादिषु यथा स्निह्यते तथा भगवति स्नेहनीयम् । अस्माकं तथा भगवतः इच्छा एका एव भवेदिति परमार्थसूत्रम् । भगवतः इच्छाम् अस्मदीयां कृत्वा आनन्दे स्थातव्यम् । पूर्णनिःस्वार्थबुद्ध्या कृतं कर्तव्यं न वृथा भवति । कस्यचिद् उत्तमर्णस्य समीपे कानिचिद् आभूषणानि तारणं संस्थाप्य ऋणं स्वीकरोति । उत्तमर्णेन तेषां गृहे विवाहसमारम्भे उपयोजनम् अन्यायः एव । तथैव स्वपुत्राः देवेन अस्मभ्यं दत्ताः । तेषां रक्षणं पालनं चास्माकं कर्तव्यम् । परं तेषां विषये ममत्वेन सुखदुःखभोगःतु पापम् । संन्यासिनः काषायवस्त्राणि धरामः चेत् तस्य स्वल्पः वा परिणामः बुद्ध्यां भवति । भजनपूजनस्य परिणामः अपि अस्मासु द्रष्टव्यः । ज्ञानिना सम्यग् अवगत्य अज्ञेन श्रद्धया च बन्धनानि स्वीकरणीयानि । स्वमतविषयेनितरां निश्चितता आवश्यकी । तत्र संभ्रमः मास्तु । मनसा दृढं वर्तनीयम् । यथा शुभ्रवस्त्रे मलिनतायाःसंभावनाअधिका तथा सत्कर्मणि विध्नानि अधिकानि । तान्परिहृत्य सत्कर्माणि करणीयानि । आचारविचारयोः समञ्जनं भवति चेद् उच्चारोऽपि तथैव भवति । नारिकेले यावज्जलं मधुरं तावान् गर्भः रुचिकरः, तथा यावद् वैदुष्यम् अधिकं तावती निष्ठा न्यूना । अधिकं मा पठन्तु । यद्भवन्तः स्वल्पं पठन्ति, तस्य मननं कुर्वन्तु; तदाचरन्तु । यथा पित्रा लिखितं पत्रम् अनुसरामः तथा ग्रन्थपठनानन्तरं तदनुसारं वर्तामहे । परमार्थः सर्वथा कृतिशास्त्रम् । समाधानम् आनन्दः च तस्य शास्त्रस्य साध्यम् । भगवतः स्मरणे कर्तव्याचरणेन जीवने आनन्दः उत्पद्यते ।

सर्वं करणीयं, परं यथार्थं प्रेम साधने भवतु ।

जून२९ - पुण्यतिथिः कथमाचरणीया? सत्पुरुषाणां पुण्यतिथिसमारोहः कथं सम्पादनीयः? अस्मिन् दिने यंयनियमं भवन्तः कुर्वन्ति सःनिरन्तरंप्रवर्तितःभवितुमर्हति । अतःअद्यारभ्य नाम विना किमपि न वक्तव्यमिति निश्चिनोतु । नामन्येव स्थातुं प्रयत्नेनात्रागत्य किमपि कृतमिति श्रेयःलभ्येत । यः कोऽपिअत्रागच्छति तेन स्थातुमिच्छामि परं यदि भवद्भिः कपाटमेव पिहितं तर्हि किं करोमि? अतिथिः गृहम्आयाति, परं द्वारमेव यदि नोद्घाटितं तर्हि सः किं कर्तुं शक्नुयात्? तद्वद् विषयेषु स्थित्वा मनसः द्वाराणि मा पिहितानिकुर्वन्तु । नामघोषः कण्ठे भवतु, तेन विषयाणाम्आक्रमणं न भवेत् । साम्प्रतं कलिः प्रमत्तः जायमानः वर्तते, तस्याक्रमणं परिहर्तुं नाम्नि विश्वासः भवतु । कोऽपि किमपि वदेत् नाम न त्यजन्तु । यथा प्रबलजलावेगे वृक्षबद्धं वस्तु न प्रवाहपतितं भवति तथा नाम दृढं निगृहीतं चेत् कालः किमपि कर्तुं न शक्नोति । समर्थरामदासस्वामिभिः नामसमासे कथितं तथा नामैव रूपमिति मत्वा जपं करोति चेद् रूपमपि दृश्येत । भगवान्अस्माकम्अन्तःकरणेप्रकटयिष्यति, अतः नामस्मरणेन तस्य शनैः शनैः प्रकटनं हितकरं, शाश्वतं च भविष्यति । मस्तके हस्तं संस्थाप्यजातः चमत्कारः, तेजदर्शनं,दृष्टान्तः वा क्षणजीवी । कश्चन कृशः जनः सुदृढं भवितुंशरीरेशोथःभवेदिति वदति चेद् मूर्खतैव, तदपेक्षया सम्यगौषधिं स्वीकृत्य सः कदाचित् स्थूलः न भवेत्, परं सुदृढं निश्चयेन भवेत् । तथैवपरमार्थानुभवविषयेवर्तते । एषःअनुभवःवर्धेतएतदर्थंपुण्यतिथिःआचरणीया । नामस्मरणंसततंक्रियतेचेत्भगवत्प्रेमनिश्चयेनउदेत् । प्रपञ्चस्यकोलाहलेभगवन्तंस्मर्तुम्उत्सवपर्वपुण्यतिथ्यादयःभवन्ति । नूनंप्रापञ्चिकस्यकियन्तःपाशाः! धनं, लौकिकं, पुत्राः, आप्ताःचेतिसर्वेपाशाःएव । एवंनैकेषुपाशेषुबद्धेननामजपनंकियत्दुष्करम् । तदर्थम्अतीवदृढःजनःअपेक्षितः । नाम्निभगवतःअस्तित्वंवर्तते । अतःनाम्निसत्सङ्गतिःअपिअस्ति । प्रतिफलम्अनपेक्ष्यपूर्णमनसानामजपन्तु । अद्यारभ्यनिश्चयंकुर्वन्तु ।

जून३० – एवंकरणीयःनियमः । येनयुक्तःभवेत्आत्मारामः । एवंकरणीयःनियमः । येनयुक्तःभवेत्आत्मारामः ॥ नियमःभवतुशाश्वतः । येनकृपायेतश्रीरामः ॥ वाण्याःमनसःचनियमः । येनसन्तुष्येत्प्रभुरामः ॥ कर्तव्येयोजयतुशरीरं । येनरघुवीरःलभेतआनन्दम् ॥ सत्याःएकमेवदैवतम् । केवलंपतिःएवप्रमाणम् ॥ तस्यगुणदोषान्नपश्यतु । स्वकर्तव्यंकरोतु । पतिव्रताधर्मःअतिश्रेष्ठः । वन्दन्तेसर्वेसन्तः ॥ पत्युःआज्ञाप्रमाणा । साध्व्याःएषाएवभावना ॥ मुखेनअपशब्दःनोच्यते । ईश्वरायतद्नरोचते ॥ सन्ततिःसम्पद्च । भगवत्कृपयालभ्येत । तयोःकरणीयंरक्षणं । परंमनःनभवतुआसक्तम् ॥ यत्रपत्युःरुचिः । तत्रैवपत्न्याःधर्ममतिः ॥ मनसाभगवत्स्मरणं । यत्परिहरेत्जन्ममरणम् ॥ अखण्डंमनःसमाहितं । नच्यवेत्अनुसन्धानम् ॥ कायःप्रपञ्चे । मनःरघुनाथे ॥ प्रपञ्चेसावधानता । मनःरामेसदा ॥ रामःतस्यदाता । तेननकरणीयाचिन्ता ॥ मुखेनामजपनं । हृदयेभगवदस्तित्वभानम् । शुद्धम्आचरणं । पवित्रतमम्अन्तःकरणम् ॥ मुखेभगवत्स्मरणंसदा । रघुनन्दनःकरोतिकृपां तदा । इतिभवतुविश्वासः । लभ्येतनिश्चयेनअनुभवः ॥ पतिम्एकवारंवाप्रणमतु । सःरामःइतिकल्पयतु ॥ तस्यज्ञात्वामनोगतं । तदनुगुणंकरोतुवर्तनं । तेनएवभवतुस्वकल्याणम् ॥ एवंनियमःयस्यगृहे । स्थितःरामःतस्यद्वारे ॥ आगतायअतिथयेअन्नंददातु । कमपिविन्मुखंनप्रेषयतु ॥ रामःकर्ताइतिभवतुभावना । तेननभवतिकापिन्यूनता ॥ सर्वेषाम्उद्गमःएकः । इतिअवगच्छतुमनः ॥ तस्यनकस्मादपिभयं । रामंविनानजगद्दर्शनम् ॥ समाधानस्यइदमेवचिह्नम् ॥ यद्यद्आयाति । तद्रामात्आयाति । इतिभवतुभावः ॥ साक्षित्वेनदेहप्रपञ्चःद्रष्टव्यः । अन्तःरघुनाथःभजनीयः । प्रारब्धेदेहगतिः । इतिसर्वशास्त्रंकथयति ॥ किन्तुमनःनावगच्छति । जगतिएकःएवममरघुपतिः ॥ मुखेसदारामनाम । हृदयेपरमात्मप्रेम ॥ अन्यःनभवतुकोपिविचारः । एषःएवनिर्धारः ॥ चातुर्मासेआरम्भः । नियमःअखण्डंप्रवर्तनीयः ॥ स्वल्पःनियमः । कृत्वाअनुभवनीयः ॥ भगवतःनामजपनं । भोजने,प्राशने, कार्यकरणे ॥ यावच्छक्यंतावत्करणीयं । परमात्माकरिष्यतिअवशिष्टम् ॥ सर्वेभ्यःममआशिषः । सर्वैःयोजनीयःईश्वरः ॥

N/A

References : N/A
Last Updated : March 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP