संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय २२ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय २२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२ Translation - भाषांतर ॥ सूत उवाच ॥एवं शिवतमः पंथाः शिवेनैव प्रदर्शितः ॥नृणां संसृतिबद्धानां सद्योमुक्तिकरः परः ॥१॥अथ दुर्मेधसां पुंसां वेदेष्वनधिकारिणाम् ॥स्त्रीणां द्विजातिबंधूनां सर्वेषां च शरीरिणाम् ॥२॥एष साधारणः पंथाः साक्षात्कैवल्यसाधनः ॥महामुनिजनैः सेव्यो देवैरपि सुपूजितः ॥३॥यत्कथाश्रवणं शंभोः संसारभयनाशनम् ॥सद्योमुक्तिकरं श्लाघ्यं पवित्रं सर्वदेहिनाम् ॥४॥अज्ञानतिमिरांधानां दीपोऽयं ज्ञानसिद्धिदः ॥भवरोगनिबद्धानां सुसेव्यं परमौषधम् ॥५॥महापातकशैलानां वज्रघातसुदारुणम् ॥भर्जनं कर्मबीजानां साधनं सर्व संपदाम् ॥६॥ये शृण्वंति सदा शम्भोः कथां भुवनपावनीम् ॥ते वै मनुष्या लोकेस्मिन्रुद्रा एव न संशयः ॥७॥शृण्वतां शूलिनो गाथां तथा कीर्तयतां सताम् ॥तेषां पादरजांस्येव तीर्थानि मुनयो जगुः ॥८॥तस्मान्निश्रेयसं गन्तुं येभिवांछंति देहिनः ॥ते शृण्वंतु सदा भक्त्या शैवीं पौराणिकीं कथाम् ॥९॥यद्यशक्तः सदा श्रोतुं कथां पौराणिकीं नरः ॥मुहूर्तं वापि शृणुयान्नियतात्मा दिनेदिने ॥१०॥अथ प्रतिदिनं श्रोतुमशक्तो यदि मानवः ॥पुण्यमासेषु वा पुण्ये दिने पुण्यतिथिष्वपि ॥११॥यः शृणोति कथां रम्यां पुराणैः समुदीरिताम् ॥स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥१२॥मुहूर्त्तं वा तदर्द्धं वा क्षणं वा पावनीं कथाम् ॥ये शृण्वंति सदा भक्त्या न तेषामस्ति दुर्गतिः ॥१३॥यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥सकृत्पुराणश्रवणात्तत्फलं विंदते नरः ॥१४॥कलौ युगे विशेषेण पुराणश्रवणादृते ॥नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ॥१५॥पुराणश्रवणाच्छंभोर्नास्ति संकीर्तनं परम् ॥अत एव मनुष्याणां कल्पद्रुममहाफलम् ॥१६॥कलौ हीनायुषो मर्त्या दुर्बलाः श्रमपीडिताः ॥दुर्मेधसो दुःखभाजो धर्माचारविवर्जिताः ॥१७॥इति संचिंत्य कृपया भगवान्बादरायणः ॥हिताय तेषां विदधे पुराणाख्यं सुधारसम् ॥१८॥पिबन्नेवामृतं यत्नादेतत्स्यादजरामरः ॥शम्भोः कथामृतं कुर्यात्कुलमेवाजरामरम् ॥१९॥बालो युवा दरिद्रो वा वृद्धो वा दुर्बलोऽपि वा ॥पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ॥२०॥नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ॥यस्य वक्त्रांबुजाद्वाणी कामधेनुः शरीरिणाम् ॥२१॥गुरवः संति लोकेषु जन्मतो गुणतस्तथा ॥तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः ॥२२॥भवकोटिसहस्रेषु भूत्वाभूत्वावसीदति ॥यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः ॥२३॥पुराणज्ञः शुचिर्दांतः शांतो विजितमत्सरः ॥साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधी ॥२४॥व्यासासनं समारूढो यदा पौराणिको द्विजः ॥असमाप्तप्रसंगश्च नमस्कुर्यान्न कस्य चित् ॥२५॥ ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ॥तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ॥२६॥न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ॥२७॥सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ॥पुण्ये नदनदीतीरे वदेत्पुण्यकथां सुधीः ॥२८॥शिवभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥वाग्यताः सुश्रवोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥२९॥अभक्ता ये कथां पुण्यां शृण्वंति मनुजाधमाः ॥तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ॥३०॥पुराणं ये त्वसंपूज्य तांबूलाद्यैरुपायनैः ॥शृण्वंति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ॥३१॥कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ॥भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः ॥३२॥सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ॥ते बलाकाः प्रजायन्ते पापिनो मनुजाधमाः ॥३३॥तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ॥स्वविष्ठां खादयंत्येतान्नरके यमकिंकराः ॥३४॥ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः ॥अक्षयान्नरकान्भुक्त्वा ते भवंत्येव वायसाः ॥३५॥ये च वीरासनारूढा ये च मंचकसंस्थिताः ॥शृण्वंति सत्कथां ते वै भवंत्यनृजुपादपाः ॥३६॥असंप्रणम्य शृण्वंतो विषवृक्षा भवंति ते ॥कथां शयानाः शृण्वन्तो भवंत्यजगरा नराः ॥३७॥यः शृणोति कथां वक्तुः समानासनमाश्रितः ॥गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत् ॥३८॥ये निंदंति पुराणज्ञं कथां वा पापहारिणीम् ॥ते वै जन्मशतं मर्त्याः शुनका संभवंति च ॥३९॥कथायां वर्तमानायां ये वदंति नराधमाः ॥ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥४०॥कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ॥ते भुक्त्वा नरकान्घोरान्भ वंति वनसूकराः ॥४१॥ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ॥अशृण्वंतोऽपि ते यांति शाश्वतं परमं पदम् ॥४२॥कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये शठाः ॥कोट्यब्दान्नरकान्भुक्त्वा भवंति ग्रामसूकराः ॥४३॥ये श्रावयंति मनुजान्पुण्यां पौराणिकीं कथाम् ॥कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदम् ॥४४॥आसनार्थं प्रयच्छंति पुराणज्ञस्य ये नराः ॥कम्बलाजिनवासांसि मञ्चं फलकमेव च ॥४५॥स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम् ॥४६॥पुराणज्ञस्य यच्छंति ये सूत्रवसनं नवम् ॥भोगिनो ज्ञानसंपन्नास्ते भवंति भवेभवे ॥४७॥ये महापातकैर्युक्ता उपपातकिनश्च ये ॥पुराणश्रवणादेव ते यांति परमं पदम् ॥४८॥अत्र वक्ष्ये महापुण्यमितिहासं द्विजोत्तमाः ॥शृण्वतां सर्वपापघ्नं विचित्रं सुमनोहरम् ॥४९॥दक्षिणापथमध्ये वै ग्रामो बाष्कलसंज्ञितः ॥तत्र संति जनाः सर्वे मूढाः कर्मविवर्जिताः ॥५०॥न तत्र ब्राह्मणाचाराः श्रुतिस्मृतिपराङ्मुखाः ॥जपस्वाध्यायरहिताः परस्त्री विषयातुराः ॥५१॥कृषीवलाः शस्त्रधरा निर्देवा जिह्मवृत्तयः ॥न जानंति परं धर्मं ज्ञानवैराग्यलक्षणम् ॥५२॥स्त्रियश्च पापनिरताः स्वैरि ण्यः कामलालसाः॥दुर्बुद्धयः कुटिलगाः सद्गताचारवर्जिताः ॥५३॥तत्रैको विदुरो नाम दुरात्मा ब्राह्मणाधमः ॥आसीद्वेश्यापतिर्योऽसौ सदारोऽपि कुमार्गगः ॥५४॥स्वपत्नीं बंदुलां नाम हित्वा प्रतिनिशं तथा ॥वेश्याभवनमासाद्य रमते स्मरपीडितः ॥५५॥सापि तस्यांगना रात्रौ वियुक्ता नवयौवना ॥असहंती स्मरावेशं रेमे जारेण संगता ॥५६॥तां कदाचिद्दुराचारां जारेण सह संगताम् ॥दृष्ट्वा तस्याः पतिः क्रोधादभि दुद्राव सत्वरः ॥५७॥जारे पलायिते पत्नीं गृहीत्वा स दुराशयः ॥संताड्य मुष्टिबंधेन मुहुर्मुहुरताडयत् ॥५८॥सा नारी पीडिता भर्त्रा कुपिता प्राह निर्भया ॥भवान्प्रतिनिशं वेश्यां रमते का गतिर्मम ॥५९॥अहं रूपवती योषा नवयौवनशालिनी ॥कथं सहिष्ये कामार्ता तव संगतिवर्जिता ॥६०॥इत्युक्तः स तया तन्व्या प्रोवाच ब्राह्मणाधमः ॥युक्तमेव त्वयोक्तं हि तस्माद्वक्ष्यामि ते हितम् ॥६१॥जारेभ्यो धनमाकृष्य तेभ्यो देहि परां रतिम् ॥तद्धनं देहि मे सर्वं पण्यस्त्रीणां ददामि तत् ॥६२॥एवं संपूर्यते कामो ममापि च वरानने ॥तथेति भर्तृवचनं प्रतिजग्राह सा वधूः ॥६३॥एवं तयोस्तु दंपत्योर्दुराचारप्रवृत्तयोः ॥कालेन निधनंप्राप्तः स विप्रो वृषलीपतिः ॥६४॥मृते भर्तरि सा नारी पुत्रैः सह निजालये ॥उवास सुचिरं कालं किंचिदुत्क्रांतयौवना ॥६५॥एकदा दैवयोगेन संप्राप्ते पुण्यपर्वणि ॥सा नारी बंधुभिः सार्धं गोकर्णं क्षेत्र माययौ ॥६६॥तत्र तीर्थजले स्नात्वा कस्मिंश्चिद्देवतालये ॥शुश्राव देवमुख्यानां पुण्यां पौराणिकीं कथाम् ॥६७॥योषितां जारसक्तानां नरके यमकिंकराः ॥संतप्तलोहपरिघं क्षिपंति स्मरमंदिरे ॥६८॥इति पौराणिकेनोक्तां सा श्रुत्वा धर्मसंहिताम् ॥तमुवाच रहस्येषा भीता ब्राह्मणपुंगवम् ॥६९॥ब्रह्मन्पापमजानंत्या मयाचरितमुल्बणम् ॥यौवने कामचारेण कौटिल्येन प्रवर्तितम् ॥७०॥इदं त्वद्वचनं श्रुत्वापुराणार्थविजृंभि तम् ॥भीतिर्मे महती जाता शरीरं वेपते मुहुः ॥७१॥धिङ्मां दुरिंद्रियासक्तां पापां स्मरविमोहिताम् ॥अल्पस्य यत्सुखस्यार्थे घोरां यास्यामि दुर्गतिम् ॥७२॥कथं पश्यामि मरणे यमदूतान्भयंकरान् ॥कथं पाशैर्बलात्कंठे बध्यमाना धृतिं लभे ॥७३॥कथं सहिष्ये नरके खंडशो देहकृंतनम ॥पुनः कथं पतिष्यामि संतप्ता क्षारकर्दमे ॥७४॥कथं च योनिलक्षेषु क्रिमिकीटखगादिषु ॥परिभ्रमामि दुःखौघात्पीड्यमाना निरंतरम् ॥७५॥ कथं च रोचते मह्यमद्यप्रभृति भोजनम् ॥रात्रौ कथं च सेविष्ये निद्रां दुःखपरिप्लुता ॥७६॥हाहा हतास्मि दग्धास्मि विदीर्णहृदयास्मि च ॥हा विधे मां महापापे दत्त्वा बुद्धिमपातयः ॥७७॥पततस्तुंगशैलाग्राच्छूलाक्रांतस्य देहिनः ॥यद्दुःखं जायते घोरं तस्मात्कोटिगुणं मम ॥७८॥अश्वमेधायुतं कृत्वा गंगां स्नात्वा शतं समाः ॥न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥७९॥किं करोमि क्व गच्छामि कं वा शरणमाश्रये ॥को वा मां त्रायते लोके पतंती नरकार्णवे ॥८०॥त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पितासि च ॥उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥८१॥इति तां जातनिर्वेदां पतितां चरणद्वये ॥उत्थाप्य कृपया धीमान्बभाषे द्विजपुंगवः ॥८२॥॥ ब्राह्मण उवाच ॥दिष्ट्या काले प्रबुद्धासि श्रुत्वेमां महतीं कथाम् ॥मा भैषीस्तव वक्ष्यामि गतिं चैव सुखावहाम् ॥८३॥सत्कथाश्रवणादेव जाता ते मतिरीदृशी ॥इंद्रियार्थेषु वैराग्यं पश्चात्तापो महानभूत् ॥८४॥पश्चात्तापो हि सर्वेषामघानां निष्कृतिः परा ॥तेनैव कुरुते सद्यः प्रायश्चित्तं सुधीर्नरः ॥८५॥प्रायश्चित्तानि सर्वाणि कृत्वा च विधिवत्पुनः ॥अपश्चात्तापिनो नार्या न यांति गतिमुत्तमाम् ॥८६॥सत्कथाश्रवणान्नित्यं संयाति परमां गतिम् ॥पुण्यक्षेत्रनिवासाच्च चित्तशुद्धिः प्रजायते ॥८७॥यथा सत्कथया नित्यं संयाति परमां गतिम् ॥तथान्यैः सद्व्रतैर्जंतोर्नभवेन्मतिरुत्तमा ॥८८॥यथा मुहुः शोध्यमानो दर्पणो निर्मलो भवेत् ॥तथा सत्कथया चेतो विशुद्धिं परमां व्रजेत् ॥८९॥विशुद्धे चेतसि नृणां ध्यानं सिध्यत्युमापतेः ॥ध्यानेन सर्वं मलिनं मनोवाक्कायसंभृतम् ॥९०॥सद्यो विधूय कृतिनो यांति शम्भोः परं पदम् ॥अतः संन्यस्तपुण्यानां सत्कथा साधनं परम् ॥९१॥कथया सिध्यति ध्यानं ध्यानात्कैवल्यमुत्तमम् ॥असिद्धपरमध्यानः कथामेतां शृणोति यः ॥सोऽन्यजन्मनि संप्राप्य ध्यानं याति परां गतिम् ॥९२॥नामोच्चारणमात्रेण जप्त्वा मंत्रमजामिलः ॥पश्चात्तापसमायुक्तस्त्ववाप परमां गतिम् ॥९३॥सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् ॥यस्तद्विहीनः स पशुः कथं मुच्येत बन्धनात् ॥९४॥अतस्त्वमपि सर्वेभ्यो विषयेभ्यो निवृत्तधीः ॥भक्तिं परां समाधाय सत्कथां शृणु सर्वदा ॥शृण्वंत्याः सत्कथां नित्यं चेतस्ते शुद्धिमेष्यति ॥९५॥तेन ध्यायसि विश्वेशं ततो मुक्तिमवाप्स्यसि ॥ध्यायतः शिवपादाब्जं मुक्तिरेकेन जन्मना ॥९६॥भविष्यति न सन्देहः सत्यं सत्यं वदाम्यहम् ॥इत्युक्ता तेन विप्रेण सा नारी बाष्पसंकुला ॥९७॥पतित्वा पादयोस्तस्य कृतार्थास्मीत्यभाषत ॥तस्मिन्नेव महाक्षेत्रे तस्मादेव द्विजोत्तमात् ॥९८॥शुश्राव सत्कथां साध्वीं कैवल्यफल दायिनी॥स उवाच द्विजस्तस्यै कथां वैराग्यबृंहिताम् ॥९९॥यां श्रुत्वा मनुजः सद्यस्त्यजेद्विषयवासनाम् ॥तस्याश्चित्तं यथा शुद्धं वैराग्यरसगं यथा ॥१००॥तथोवाच द्विजः शैवीं कथां भक्तिसमन्विताम् ॥यथायथा मनस्तस्याः प्रसादमभिगच्छति ॥तथातथा शनैः शंभोर्ध्यानयोगमुपादिशत् ॥१॥शनैः शनैर्ध्वस्तरजस्तमोमलं विमुक्तसर्वेन्द्रियभोगविग्रहम् ॥विशुद्धतत्त्वं हृदयं द्विजस्त्रिया विवेश विश्वेश्वर रूपचिंतनम्॥ २॥इत्थं सद्गुरुमाश्रित्य सा नारी प्राप्तसन्मतिः ॥दध्यौ मुहुर्मुहुः शंभोश्चिदानंदमयं वपुः ॥३॥नित्यं तीर्थजले स्नात्वा जटावल्कलधारिणी ॥भस्मोद्धूलितसर्वांगी रुद्राक्षकृतभूषणा ॥४॥शिवनामजपासक्ता वाग्यता मितभोजना ॥बद्धपद्मासनाऽव्यग्रा सत्कथा श्रवणोत्सुका ॥५॥गुरुशुश्रूषणरता त्यक्तापत्यसुहृजना ॥गुरूपदिष्टयोगेन शिवमेवमतोषयत् ॥६॥विश्वेश विश्वविलयस्थितिजन्महेतो विश्वैकवंद्य शिव शाश्वत विश्वरूप ॥विध्वस्तकालविपरीतगुणावभास श्रीमन्महेश मयि धेहि कृपाकटाक्षम् ॥७॥शंभो शशांककृतशेखर शांतमूर्ते गंगाधरामरवरार्चितपादपद्म ॥नागेंद्रभूषण नगेंद्रनिकेतनेश भक्तार्तिहन्मयि निधेहि कृपाकटाक्षम् ॥८॥श्रीविश्वनाथ करुणाकर शूलपाणे भूतेश भर्ग भुवनत्रयगीतकीर्ते ॥श्रीनीलकण्ठ मदनान्तक विश्वमूर्ते गौरीपते मयि निधेहि कृपाकटाक्षम् ॥९॥इत्थं प्रतिदिनं भक्त्या प्रार्थयंती महेश्वरम्॥शृण्वंती सत्कथां सम्यक्कर्मबंधं समाच्छिनत् ॥११०॥अथ कालेन सा नारी समुत्सृज्य कलेवरम् ॥महेशानुचरैर्नीता संप्राप्ता शिव मंदिरम् ॥११॥तत्र देवैर्महादेवं सेव्यमानं सहोमया ॥गणेशनंदिभृंग्याद्यैर्वीरभद्रेश्वरादिभिः ॥१२॥उपास्यमानं गौरीशं कोटिसूर्यसमप्रभम् ॥त्रिलोचनं पंचमुखं नीलग्रीवं सदाशिवम् ॥१३॥वामांके बिभ्रतं गौरीं विद्युच्चंद्रसमप्रभाम् ॥दृष्ट्वा ससंभ्रमं नारी सा प्रणम्य पुनःपुनः ॥१४॥आनन्दाश्रुजलोत्सिक्ता रोमहर्षसमाकुला ॥संमानिता करुणया पार्वत्या शंकरेण च ॥१५॥तस्मिँल्लोके परानन्दघनज्योतिषि शाश्वते ॥लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ॥१६॥सा कदाचिदुमां देवीमुपसृत्य प्रणम्य च ॥पर्यपृच्छत मे भर्त्ता कां गतिं गतवानिति ॥१७॥तामुवाच महादेवी स ते भर्त्ता दुराशयः ॥भुक्त्वा नरकदुःखानि विंध्ये जातः पिशाचकः ॥१८॥पुनः प्रपच्छ सा नारी देवीं त्रिभुवनेश्वरीम् ॥केनोपायेन मे भर्त्ता सद्गतिं प्राप्नुयादिति ॥१९॥॥ देव्युवाच ॥सोऽस्मत्कथां महापुण्यां कदाचिच्छृणुयाद्यदि ॥निस्तीर्य दुर्गतिं सर्वामिमं लोकं प्रयास्यति ॥१२०॥इति गौर्या वचः श्रुत्वा सा नारी विहितांजलिः ॥प्रार्थयामास तां देवीं भर्तुः पापविशोधने ॥२१॥तया मुहुः प्रार्थ्यमाना पार्वतीकरुणायुता ॥तुंबुरुं नाम गंधर्वमाहूयेदमथाब्रवीत् ॥२२॥तुंबुरो गच्छ भद्रं ते विंध्यशैलं सहानया ॥आस्ते पिशाचकस्तत्र योऽस्याः पतिरसन्मतिः ॥२३॥तस्याग्रे परमां पुण्यां कथामस्मद्गुणैर्युताम् ॥आख्याय दुर्गतेर्मुक्तं तमानय शिवांतिकम् ॥२४॥इति देव्या समादिष्टस्तुंबुरुस्तां प्रणम्य च ॥तया सह विमानेन विंध्याद्रिं सहसा ययौ ॥२५॥तत्रापश्यन्महाकायं रक्तनेत्रं महाहनुम् ॥प्रहसंतं रुदंतं च वल्गंतं च पिशाचकम्॥ २६॥बलाद्गृहीत्वा तं पाशैर्बद्ध्वा वै संनिवेश्य च ॥तुंबुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥२७॥स पिशाचो महापुण्यां कथां श्रुत्वा पुरद्विषः ॥विधूय कलुषं सर्वं सप्ताहात्प्राप संस्मृतिम् ॥२८॥स पैशाचं वपुस्त्यक्त्वा स्वरूपं दिव्यमाप्य च ॥जगौ स्वयमपि श्रीमच्चरितं पार्वतीपतेः ॥२९॥विमानमारुह्य स दिव्यरूपधृक्स तुंबुरुः पार्श्वगतः स्वकांतया ॥गायन्महेशस्य गुणान्मनोरमाञ्जगाम कैवल्यपदं सनातनम् ॥१३०॥सूत उवाच ॥इत्येतत्कथितं पुण्यमाख्यानं दुरितापहम् ॥महेश्वरप्रीतिकरं निर्मलज्ञानसाधनम् ॥३१॥य इदं शृणुयान्मर्त्यः कीर्तयेद्वा समाहितः ॥शंभोर्गुणानुकथनं विचित्रं पापनाशनम् ॥३२॥परमानन्दजनकं भवरोगमहौषधम् ॥भुक्त्वेह विविधान्भोगान्मुक्तो याति परां गतिम् ॥३३॥॥ सूत उवाच ॥यूयं खलु महाभागाः कृतार्था मुनिसत्तमाः ॥ये सेवंते सदा शंभोः कथामृतरसं नवम् ॥३४॥ते जन्मभाजः खलु जीवलोके येषां मनो ध्यायति विश्वनाथम् ॥वाणी गुणान्स्तौति कथां शृणोति श्रोत्रद्वयं ते भवमुत्तरंति ॥३५॥विविधगुणविभेदैर्नित्यमस्पृष्टरूपं जगति च बहिरंतर्वा समानं महिम्ना ॥स्वमहसि विहरंतं वाङ्मनोवृत्तिदूरं परमशिवमनंतानंदसांद्रं प्रपद्ये ॥१३६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोतरखण्डे पुराणश्रवणमहिमवर्णनंनाम द्वाविंशो ऽध्यायः॥२२॥इति स्कान्दे तृतीयं ब्राह्मखण्डं संपूर्णम्॥३॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP