संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय १९ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय १९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९ Translation - भाषांतर ॥ सूत उवाच ॥एवं महाव्रतं तस्याश्चरंत्या गुरुसन्निधौ ॥संवत्सरो व्यतीयाय नियमासक्तचेतसः ॥१॥संवत्सरांते सा बाला तत्रैव पितृमंदिरे ॥चकारोद्यापनं सम्यग्विप्रभोजनपूर्वकम् ॥२॥दत्त्वा च दक्षिणां तेभ्यो ब्राह्मणेभ्यो यथार्हतः ॥विसृज्य तान्नमस्कृत्य पितृभ्यामभिनंदिता ॥३॥उपोषिता स्वयं तस्मिन्दिने नियममाश्रिता ॥जजाप परमं मंत्रमुपदिष्टं महात्मना ॥४॥अथ प्रदोषसमये प्राप्ते संपूज्य शंकरम् ॥तस्मिन्गृहांतिकमठे गुरोस्तस्य च सन्निधौ ॥५॥जपार्चनरता साध्वी ध्यायती परमेश्वरम् ॥तस्मिञ्जागरणे रात्रावुपविष्टा शिवांतिके ॥६॥युग्मम् ॥तस्यां रात्रौ तया सार्धं स मुनिर्जगदंबिकाम् ॥जपध्यान तपोभिश्च तोषयामास पार्वतीम्॥ ७॥तस्याश्च भक्त्या व्रतभाविताया मुनेस्तपोयोगसमाधिना च ॥तुष्टा भवानी जगदेकमाता प्रादुर्बभूवा कृतसांद्रमूर्तिः ॥८॥प्रादुर्भूता यदा गौरी तयोरग्रे जगन्मयी ॥अन्धोऽपि तत्क्षणादेव मुनिः प्राप दृशोर्द्वयम् ॥९॥तां वीक्ष्य जगतां धात्रीमाविर्भूतां पुरःस्थिताम् ॥निपेततुस्तत्पदयोः स मुनिः सा च कन्यका ॥१०॥तौ भक्तिभावोच्छ्वसितामलाशयावानंदबाष्पोक्षित सर्वगात्रौ ॥उत्थाप्य देवी कृपया परिप्लुता प्रेम्णा बभाषे मृदुवल्गुभाषिणी ॥११॥॥ देव्युवाच ॥प्रीतास्मि ते मुनिश्रेष्ठ वत्से प्रीतास्मि तेऽनघे ॥किं वा ददाम्यभिमतं देवानामपि दुर्लभम् ॥१२॥॥ मुनिरुवाच ॥एषा तु शारदा नाम कन्या तु गतभतृका ॥मया प्रतिश्रुतं चास्यै तुष्टेन गतचक्षुषा ॥१३॥सह भर्त्रा चिरं कालं विहृत्य सुतमुत्तमम् ॥लभस्वेति मया प्रोक्तं सत्यं कुरु नमोऽस्तु ते ॥१४॥॥ श्रीदेव्युवाच ॥एषा पूर्वभवे बाला द्राविडस्य द्विजन्मनः ॥आसीद्द्वितीया दयिता भामिनी नाम विश्रुता ॥१५॥सा भर्तृप्रेयसी नित्यं रूपमाधुर्यपेशला ॥भर्तारं वशमानिन्ये रूपवश्यादिकैतवैः । १६॥अस्यां चासक्तहृदयः स विप्रो मोहयंत्रितः ॥कदाचिदपि नैवागाज्ज्येष्ठपत्नीं पतिव्रताम् ॥१७॥अनभ्यागमनाद्भर्तुः सा नारी पुत्रवर्जिता ॥सदा शोकेन संतप्ता कालेन निधनं गता ॥१८॥अस्या गृहसमीपस्थो यः कश्चिद्ब्राह्मणो युवा ॥इमां वीक्ष्याथ चार्वंगीं कामार्तः करमग्रहीत् ॥१९॥अनया रोषताम्राक्ष्या स विप्रस्तु निवारितः ॥इमां स्मरन्दिवानक्तं निधनं प्रत्यपद्यत ॥२०॥एषा संमोह्य भर्तारं ज्येष्ठपत्न्यां पराङ्मुखम् ॥चकार तेन पापेन भवेस्मिन्विधवाऽभवत् ॥२१॥याः कुर्वंति स्त्रियो लोके जायापत्योश्च विप्रियम् ॥तासां कौमारवैधव्यमेकविंशतिजन्मसु ॥२२॥यदेतया पूर्वभवे मत्पूजा महती कृता ॥तेन पुण्येन तत्पापं नष्टं सर्वं तदैव हि ॥२३॥यो विप्रो विरहार्तः सन्मृतः कामविमोहितः ॥सोऽस्याः पाणिग्रहं कृत्वा भवेस्मिन्निधनं गतः ॥२४॥प्राग्जन्मपतिरेतस्याः पांड्यराष्ट्रेषु सोऽधुना ॥जातो विप्रवरः श्रीमान्सदारः सपरिच्छदः ॥२५॥तेन भर्त्रा प्रतिनिशं सैषा प्रेम्णाभिसंगता ॥स्वप्ने रतिसुखं यातु श्रेष्ठं जागरणादपि ॥२६॥षष्ट्युत्तरत्रिशतयोजनदूरसंस्थो देशादितो द्विजवरः स च कर्मगत्या ॥एनां वधूं प्रतिनिशं मनसोभिरामां स्वप्नेषु पश्यति चिरं रतिमादधानः ॥२७॥सैषा वै स्वप्नसंगत्या पत्युः प्रतिनिशं सती ॥कालेन लप्स्यते पुत्रं वेदवेदांगपारगम् ॥२८॥एतस्यां तनयं जातमात्मनश्चिरसंगमात् ॥सोऽपि विप्रोऽनिशं स्वप्ने द्रक्ष्यति प्रेमभावितम् ॥२९॥अनयाराधिता पूर्वे भवे साहं महामुने ॥अस्यैव वरदानाय प्रादुर्भूतास्मि सांप्रतम् ॥३०॥॥ सूत उवाच ॥अथोवाच महादेवी तां बालां प्रति सादरम् ॥अयि वत्से महाभागे शृणु मे परमं वचः ॥३१॥यदा कदापि भर्त्तारं क्वापि देशे पुरातनम् ॥द्रक्ष्यसि स्वप्नदृष्टं प्राक्ज्ञास्यसे त्वं विचक्षणा ॥३२॥त्वां द्रक्ष्यति स विप्रोपि सुनयां स्वप्नलक्षणाम् ॥तदा परस्परालापो युवयोः संभविष्यति ॥३३॥तदा स्वतनयं भद्रे तस्मै देहि बहुश्रुतम् ॥फलमस्य व्रतस्याग्र्यं तस्य हस्ते समर्पय ॥३४॥ततः प्रभृति तस्यैव वशे तिष्ठ सुमध्यमे ॥युवयोदैहिकः संगो माभूत्स्वप्नरतादृते ॥३५॥कालात्पंचत्वमापन्ने तस्मिन्ब्राह्मणसत्तमे ॥अग्निं प्रविश्य तेनैव सह यास्यसि मत्पदम् ॥३६॥पुत्रस्ते भविता सुभ्रु सर्वलोकमनोरमः ॥संपदश्च भविष्यंति प्राप्स्यते परमं पदम् ॥३७॥॥ सूत उवाच ॥इत्युक्त्वा त्रिजगन्माता दत्त्वा तस्यै मनोरथम् ॥तयोः संपश्यतोरेव क्षणेनादर्शनं गता ॥३८॥सापि बाला वरं लब्ध्वा पार्वत्याः करुणानिधेः ॥अवाप परमानंदं पूजयामास तं गुरुम् ॥३९॥तस्यां रात्र्यां व्यतीतायां स मुनिर्लब्धलोचनः ॥तस्याः पित्रोश्च तत्सर्वं रहस्याचष्ट धर्मवित् ॥४०॥अथ सर्वानुपामंत्र्य शारदां च यशस्विनीम् ॥विधायानुग्रहं तेषां ययौ स्वैरगतिर्मुनिः ॥४१॥एवं दिनेषु गच्छत्सु सा बाला च प्रतिक्षणम् ॥भर्तुः समागमं लेभे स्वप्ने सुख विवर्धनम् ॥४२॥गौर्या वरप्रदानेन शारदा विशदव्रता ॥दधार गर्भं स्वप्नेपि भर्तुः संगानुभावतः ॥४३॥तां श्रुत्वा भर्तृरहितां शारदां गर्भिणी सतीम्॥सर्वे धिगिति प्रोचुस्तां जारिणीति जगुर्जनाः ॥४४॥संपरेतस्य तद्भर्तुर्ये जातिकुलवबांधवाः ॥तां वार्तां दुःसहां श्रुत्वा ययुस्तत्पितृमंदिरम् ॥४५॥अथ सर्वे समायाता ग्रामवृद्धाश्च पंडिताः ॥समाजं चक्रिरे तत्र कुलवृद्धैः समन्वितम् ॥४६॥अन्तर्वत्नीं समाहूय शारदां विनताननाम् ॥अतर्जयन्सुसंक्रुद्धाः केचिदासन्पराङ्मुखाः ॥४७॥अयि जारिणि दुर्बुद्धे किमेतत्ते विचेष्टितम् ॥अस्मत्कुले सुदुष्कीर्त्तिं कृतवत्यसि बालिशे ॥४८॥इति संतर्जयंतस्ते ग्रामवृद्धा मनीषिणः ॥सर्वे संमंत्रयामासुः किं कुर्म इति भाषिणः ॥४९॥तत्रोचुः के च वृद्धास्तां बालां प्रति विनिर्दयाः ॥एषा पापमतिर्बाला कुलद्वयविनाशिनी। ॥५०॥कृत्वास्याः केशवपनं छित्त्वा कर्णौ च नासिकाम् ॥निर्वास्यतां बहिर्ग्रामात्परित्यज्य स्वगोत्रतः ॥५१॥इति सर्वे समालोच्य तां तथा कर्तुमुद्यताः ॥अथांतरिक्षे संभूता शुश्रुवे वागगोचरा ॥५२॥अनया न कृतं पापं न चैव कुलदूषणम् ॥व्रतभंगो न चैतस्यास्सुचरित्रेयमंगना ॥५३॥इतः परमियं नारी जारिणीति वदंति ये ॥तेषां दोषविमूढानां सद्यो जिह्वा विदीर्यते ॥५४॥इत्यंतरिक्षे जनितां वाणीं श्रुत्वाऽशरीरिणीम् ॥सर्वे प्रजहृषुस्तस्या जननीजनकादयः ॥५५॥ततः ससंभ्रमाः सर्वे ग्रामवृद्धाः सभाजनाः ॥मुहूर्त्तं मौनमालंब्य भीतास्तस्थुरधोमुखाः ॥५६॥तत्र केचिदविश्वस्ता मिथ्यावाणीत्यवादिषुः॥तेषां जिह्वा द्विधा भिन्ना ववमुस्ते कृमीन्क्षणात् ॥५७॥ततः संपूजयामासुस्तां बालां ज्ञातिबांधवाः ॥बांधवाश्च स्त्रियो वृद्धाः शशंसुः साधुसाध्विति ॥५८॥मुमुचुः केचिदानंदबाष्पबिंदून्कुलोत्तमाः॥कुलस्त्रियः प्रमुदितास्तामुद्दिश्य समाश्वसन् ॥५९॥अथ तत्रापरे प्रोचुर्देवो वदति नानृतम् ॥कथमेषां दधौ गर्भं शीलान्न चलिता ध्रुवम् ॥६०॥इति सर्वान्सभ्यजना न्संशयाविष्टचेतसः ॥विलोक्य वृद्धस्तत्रैको सर्वज्ञो लोकतत्त्ववित् ॥६१॥मायामयमिदं विश्वं दृश्यते श्रूयते च यत् ॥किं भाव्यं किमभाव्यं वा संसारेऽस्मिन्क्षणात्मके ॥६२॥अनिरूप्यमभूतार्थं मायया जायते स्फुटम् ॥ईश्वरस्य वशे माया तस्य को वेद चेष्टितम् ॥२३॥यूपकेतोश्च राजर्षेः शुक्रं निपतितं जले ॥सशुक्रं तज्जलं पीत्वा वेश्या गर्भं दधौ किल ॥६४॥मुनेर्विभांडकस्यापि शुक्रं पीत्वा सहांभसा ॥हरिणी गर्भिणी भूत्वा ऋष्यशृंगमसूयत ॥६५॥सुराष्ट्रस्य तथा राज्ञः करं स्पृष्ट्वा मृगांगना॥तत्क्षणाद्गर्भिणी भूत्वा मुनिं प्रासूत तापसम् ॥६६॥तथा सत्यवती नारी शफरीगर्भसंभवा ॥तथैव महिषीगर्भो जातश्च महिषासुरः ॥६७॥तथा संति पुरा नार्यः कारुण्याद्गर्भसंभवाः॥तथा हि वसुदेवेन रोहिण्या स्तनयोऽभवत् ॥६८॥देवतानां महर्षीणां शापेन च वरेण च ॥अयुक्तमपि यत्कर्म युज्यते नात्र संशयः ॥६९॥सांबस्य जठराज्जातं मुसलं मुनिशापतः ॥युवनाश्वस्य गर्भोऽभून्मुनीनां मंत्रगौरवात् ॥७०॥नूनमेषापि कल्याणी महर्षेः पादसेवनात् ॥महाव्रतानुभावाच्च धत्ते गर्भमनिं दिता ॥७१॥अस्मिन्नर्थे रहस्येनां सत्यं पृच्छंतु योषितः ॥ततो निवृत्तसंदेहो भविष्यति महाजनः ॥७२॥ततस्तद्वचनादेव तामपृच्छन्स्त्रियो मिथः ॥ताभ्यः शशंस तत्सर्वं सा स्ववृत्तं महाद्भुतम् ॥७३॥विजानंतस्ततः सर्वे मानयित्वा च तां सतीम् ॥मोदमानाः प्रशंसंतः प्रययुः स्वं स्वमालयम्॥ ७४॥अथ काले शुभे प्राप्ते शारदा विमलाशया ॥असूत तनयं बाला बालार्कसमतेजसम् ॥७५॥स कुमारो महोदारलक्षणः कमलेक्षणः ॥अवाप्य महतीं विद्यां बाल्य एव महामतिः ॥७६॥अथोपनीतो गुरुणा काले लोकमनोरमः ॥स शारदेय एवेति लोके ख्याति मवाप ह ॥७७॥ऋग्वेदमष्टमे वर्षे नवमे यजुषां गणम् ।दशमे सामवेदं च लीलयाध्यगमत्सुधीः ॥७८॥अथ त्रिलोकमहिते संप्राप्ते शिवपर्वणि ॥गोकर्णं प्रययुः सर्वे जनाः सर्वनिवासिनः ॥७९॥शारदापि स्वपुत्रेण गोकर्णं प्रययौ सती ॥८०॥तत्रापश्यत्समायातं सदा स्वप्नेषु लक्षितम् ॥पूर्वजन्मनि भर्त्तारं द्विजबंधुजनावृतम् ॥८१॥तं दृष्ट्वा प्रेमनिर्विण्णा पुलकांकितविग्रहा ॥निरुद्धबाष्पप्रसरा तस्थौ तन्न्यस्तलोचना ॥८२॥स च विप्रोऽपि तां दृष्ट्वा रूपलक्षणलक्षिताम्॥स्वप्ने सदा भुज्यमानामात्मनो रतिदायिनीम् । ८३॥तं कुमारमपि स्वप्ने दृष्ट्वा चात्म शरीरजम् ॥विलोक्य विस्मयाविष्टस्तदंतिकमुपाययौ ॥८४॥भद्रे त्वां प्रष्टुमिच्छामि यत्किंचिन्मनसि स्थितम् ॥इति प्रथममाभाष्य रहः स्थानं निनाय ताम्॥ ८५॥का त्वं कथय वामोरु कस्य भार्यासि सुव्रते ॥को देशः कस्य वा पुत्री किन्नामेत्यब्रवीच्च ताम् ॥८६॥इति तेन समापृष्टा सा नारी बाष्पलोचना ॥व्याजहारात्मनोवृत्तं बाल्ये वैधव्यकारणम् ॥८७॥पुनः पप्रच्छ तां बालां पुत्रः कस्यायमुत्तमः ॥कथं धृतो वा जठरे बालोऽयं चंद्रसन्निभः ॥८८॥। शारदोवाच ॥एष मे तनयः स्वामिन्सर्वविद्याविशारदः॥शारदेय इति प्रोक्तो मम नाम्नैव कल्पितः ॥६९॥इति तस्या वचः श्रुत्वा विहस्य ब्राह्मणोत्तमः ॥प्रोवाच कष्टात्कष्टं हि चरितं तव भामिनि ॥९०॥पाणिग्रहणमात्रं ते कृत्वा भर्त्ता मृतः किल ॥कथं चायं सुतो जातस्तस्य कारणमुच्यताम् ॥९१॥इति तेनोदितां वाणीमाकर्ण्यातीव लज्जिता ॥क्षणं चाश्रुमुखी भूत्वा धैर्यादित्थमभाषत ॥९२॥॥ शारदोवाच ॥तदलं परिहासोक्त्या त्वं मां वेत्सि महामते ॥त्वामहं वेद्मि चार्थेऽस्मिन्प्रमाणं मन आवयोः ॥९३॥इत्युक्त्वा सर्वमावेद्य देव्या दत्तं वरादिकम् ॥व्रतस्यार्धं कुमारं तं ददौ तस्मै धृतव्रतम् ॥९४॥सोऽपि प्रमुदितो विप्रः कुमारं प्रतिगृह्य तम्॥पित्रोरनुमतेनैव तां निनाय निजालयम् ॥९५॥सापि स्थित्वा बहून्मासांस्तस्य विप्रस्य मंदिरे ॥तस्मिन्कालवशं प्राप्ते प्रविश्याग्निं तमन्वगात् ॥९६॥ततस्तौ दंपती भूत्वा विमानं दिव्यमास्थितौ ॥दिव्यभोगसमायुक्तौ जग्मतुः शिवमंदिरम् ॥९७॥इत्येततत्पुण्यमाख्यानं मया समनुवर्णितम् ॥पठतां शृण्वतां सम्यग्भुक्तिमुक्तिफलप्रदम् ॥९८॥आयुरारोग्यसंपत्तिधनधत्यविवर्द्धनम् ॥स्त्रीणां मंगलसौभाग्यसंतानसुखसाधनम् ॥९९॥एतन्महाख्यानमघौघनाशनं गौरीमहेशव्रतपुण्यकीर्तनम् ॥भक्त्या सकृद्यः शृणुयाच्च कीर्त्तयेद्भुक्त्वा स भोगान्पदमेति शाश्वतम् ॥१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शारदाख्यानवर्णनं नामैकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP