संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय ३२ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय ३२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३२ Translation - भाषांतर ॥ व्यास उवाच ॥ततश्च रामदूतास्ते नत्वा राममथाब्रुवन् ॥रामराम महाबाहो वरनारी शुभानना ॥१॥सुवस्त्रभूषाभरणां मृदुवाक्यपरायणाम् ॥एकाकिनीं क्रदमानाम दृष्ट्वा तां विस्मिता वयम् ॥२॥समीपवर्तिनो भूत्वा पृष्टा सा सुरसुन्दरी ॥का त्वं देवि वरारोहे देवी वा दानवी नु किम् ॥३॥रामः पृच्छति देवि त्वां ब्रूहि सर्वं यथातथम् ॥तच्छ्रुत्वा वचनं रामा सोवाच मधुरं वचः ॥४॥रामं प्रेषयत भद्रं वो मम दुःखापहं परम् ॥५॥तदाकर्ण्य ततो रामः संभ्रमात्त्वरितो ययौ ॥दृष्ट्वा तां दुःखसंतप्तां स्वयं दुःखमवाप सः ॥उवाच वचनं रामः कृतांजलिपुटस्तदा ॥६॥॥ श्रीराम उवाच ॥का त्वं शुभे कस्य परिग्रहो वा केनावधूता विजने निरस्ता ॥मुष्टं धनं केन च तावकीनमाचक्ष्व मातः सकलं ममाग्रे ॥७॥इत्युक्त्वा चातिदुःखार्तो रामो मतिमतां वरः ॥प्रणामं दंडवच्चक्रे चक्रपाणिरिवापरः ॥८॥तयाभिवंदितो रामः प्रगम्य च पुनःपुनः ॥तुष्टया परया प्रीत्या स्तुतो मधुरया गिरा ॥९॥परमात्मन्परेशान दुःखहारिन्सनातन ॥यदर्थमवतारस्ते तच्च कार्यं त्वया कृतम् ॥१०॥रावणः कुम्भकर्णश्च शक्रजित्प्रमुखास्तथा ॥खरदूषणत्रिशिरोमारीचाक्षकुमारकाः ॥११॥असंख्या निर्जिता रौद्रा राक्षसाः समरांगणे ॥१२॥किं वच्मि लोकेश सुकीर्त्तिमद्य ते वेधास्त्वदीयांगजपद्मसंभवः ॥विश्वं निविष्टं च ततो ददर्श वटस्य पत्रे हि यथो वटो मतः ॥१३॥धन्यो दशरथो लोके कौशल्या जननी तव ॥ययोर्जातोसि गोविंद जगदीश परः पुमान् ॥१४॥धन्यं च तत्कुलं राम यत्र त्वमागतः स्वयम् ॥धन्याऽयोध्यापुरी राम धन्यो लोकस्त्वदाश्रयः ॥१५॥धन्यः सोऽपि हि वाल्मीकिर्येन रामायणं कृतम् ॥कविना विप्रमुख्येभ्य आत्मबुद्ध्या ह्यनागतम् ॥१६॥त्वत्तोऽभवत्कुलं चेदं त्वया देव सुपावितम् ॥१७॥नरपतिरिति लोकैः स्मर्यते वैष्णवांशः स्वयमसि रमणीयैस्त्वं गुणैर्विष्णुरेव ॥किमपि भुवनकार्यं यद्विचिंत्यावतीर्य तदिह घटयतस्ते वत्स निर्विघ्नमस्तु ॥१८॥स्तुत्वा वाचाथ रामं हि त्वयि नाथे नु सांप्रतम् ॥शून्या वर्ते चिरं कालं यथा दोषस्तथैव हि ॥१९॥धर्मारण्यस्य क्षेत्रस्य विद्धि मामधिदेवताम् ॥वर्षाणि द्वादशेहैव जातानि दुःखि तास्म्यहम् ॥२०॥निर्जनत्वं ममाद्य त्वमुद्धरस्व महामते ॥लोहासुरभयाद्राम विप्राः सर्वे दिशो दश ॥२१॥गताश्च वणिजः सर्वे यथास्थानं सुदुःखिताः ॥स दैत्यो घातितो राम देवैः सुरभयंकरः ॥२२॥आक्रम्यात्र महामायो दुराधर्षो दुरत्ययः ॥न ते जनाः समायांति तद्भयादति शंकिताः ॥२३॥अद्य वै द्वादश समाः शून्यागारमनाथवत् ॥यस्माच्च दीर्घिकायां मे स्नानदानोद्यतो जनः ॥२४॥राम तस्यां दीर्घिकायां निपतंति च शूकराः ॥यत्रांगना भर्तृयुता जलक्रीडापरायणाः ॥२५॥चिक्रीडुस्तत्र महिषा निपतंति जलाशये ॥यत्र स्थाने सुपुष्पाणां प्रकरः प्रचुरोऽभवत् ॥२६॥तद्रुद्धं कंटकैर्वृक्षैः सिंहव्याघ्रसमाकुलैः ॥संचिक्रीडुः कुमाराश्च यस्यां भूमौ निरंतरम् ॥२७॥कुमार्यश्चित्रकाणां च तत्र क्रीडं ति हर्षिताः ॥अकुर्वन्वाडवा यत्र वेदगानं तिरंतरम् ॥२८॥शिवानां तत्र फेत्काराः श्रूयंतेऽतिभयंकराः ॥यत्र धूमोऽग्निहोत्राणां दृश्यते वै गृहेगृहे ॥२९॥तत्र दावाः सधूमाश्च दृश्यंतेऽत्युल्बणा भृशम् ॥नृत्यंते नर्त्तका यत्र हर्षिता हि द्विजाग्रतः ॥३०॥तत्रैव भूतवेताला प्रेताः नृत्यंति मोहिताः ॥नृपा यत्र सभायां तु न्यषीदन्मंत्रतत्पराः ॥३१॥तस्मिन्स्थाने निषीदंति गवया ऋक्षशल्लकाः ॥आवासा यत्र दृश्यन्ते द्विजानां वणिजां तथा ॥३२॥कुट्टिमप्रतिमा राम दृश्यंतेत्र बिलानि वै ॥कोटराणीह वृक्षाणां गवाक्षाणीह सर्वतः ॥३३॥चतुष्का यज्ञवेदिर्हि सोच्छ्राया ह्यभवत्पुरा ॥तेऽत्र वल्मीकनिचयैर्दृश्यंते परिवेष्टिताः ॥३४॥एवंविधं निवासं मे विद्धि राम नृपोत्तम ॥शून्यं तु सर्वतो यस्मान्निवासाय द्विजा गताः ॥३५॥तेन मे सुमहद्दुःखं तस्मात्त्राहि नरेश्वर ॥एतच्छ्रुत्वा वचो राम उवाच वदतां वरः ॥३६॥॥ श्रीराम उवाच ॥न जाने तावकान्विप्रांश्चतुर्दिक्षु समाश्रितान् ॥न तेषां वेद्म्यहं संख्यां नामगोत्रे द्विजन्मनाम् ॥३७॥यथा ज्ञातिर्यथा गोत्रं याथातथ्यं निवेदय ॥तत आनीय तान्सर्वान्स्वस्थाने वासयाम्यहम् ॥३८॥॥ श्रीमातोवाच ॥ब्रह्मविष्णुमहेशैश्च स्थापिता ये नरेश्वर ॥अष्टादश सहस्राणि ब्राह्मणा वेदपारगाः ॥३९॥त्रयीविद्यासु विख्याता लोकेऽस्मिन्नमितद्युते ॥चतुष्षष्टिकगोत्राणां वाडवा ये प्रतिष्ठिताः ॥४०॥श्रीमातादात्त्रयीविद्यां लोके सर्वे द्विजोत्तमाः ॥षट्त्रिंशच्च सहस्राणि वैश्या धर्मपरायणाः ॥४१॥आर्यवृत्तास्तु विज्ञेया द्विजशुश्रूषणे रताः ॥बहुलार्को नृपो यत्र संज्ञया सह राजते ॥४२॥कुमारावश्विनौ देवौ धनदो व्ययपूरकः ॥अधिष्ठात्री त्वहं राम नाम्ना भट्टारिका स्मृता ॥४३॥॥ श्रीसूत उवाच ॥स्थानाचाराश्च ये केचित्कुलाचारास्तथैव च ॥श्रीमात्रा कथितं सर्वं रामस्याग्रे पुरातनम् ॥४४॥तस्यास्तु वचनं श्रुत्वा रामो मुदमवाप ह ॥सत्यंसत्यं पुनः सत्यं सत्यं हि भाषितं त्वया ॥४५॥यस्मात्सत्यं त्वया प्रोक्तं तन्नाम्ना नगरं शुभम् ॥वासयामि जगन्मातः सत्यमंदिरमेव च ॥४६॥त्रैलोक्ये ख्यातिमाप्नोतु सत्यमंदिरमु त्तमम् ॥४७॥एतदुक्त्वा ततो रामः सहस्रशतसंख्यया ॥स्वभृत्यान्प्रेषयामास विप्रानयनहेतवे ॥४८॥यस्मिन्देशे प्रदेशे वा वने वा सरि तस्तटे ॥पर्यंते वा यथास्थाने ग्रामे वा तत्रतत्र च ॥४९॥धर्मारण्यनिवासाश्च याता यत्र द्विजोत्तमाः ॥अर्घपाद्यैः पूजयित्वा शीघ्रमानयतात्र तान् ॥५०॥अहमत्र तदा भोक्ष्ये यदा द्रक्ष्ये द्विजोत्तमान् ॥५१॥विमान्य च द्विजानेतानागमिष्यति यो नरः ॥स मे वध्यश्च दंड्यश्च निर्वास्यो विषयाद्बहिः ॥५२॥तच्छ्रुत्वा दारुणं वाक्यं दुःसहं दुःप्रधर्षणम् ॥रामाज्ञाकारिणो दूता गताः सर्वे दिशो दश ॥५३॥शोधिता वाडवाः सर्वे लब्धाः सर्वे सुहर्षिताः ॥यथोक्तेन विधानेन अर्घपाद्यैरपूजयन् ॥५४॥स्तुतिं चक्रुश्च विधिवद्विनयाचारपूर्वकम् ॥आमंत्र्य च द्विजान्सर्वान्रामवाक्यं प्रकाशयन् ॥५५॥ततस्ते वाडवाः सर्वे द्विजाः सेवकसंयुताः ॥गमनायोद्यताः सर्वे वेदशास्त्रपरायणाः ॥५६॥आगता रामपार्श्वं च बहुमानपुरःसराः ॥समागतान्द्विजान्दृष्ट्वा रोमांचिततनूरुहः ॥५७॥कृतकृत्यमिवात्मानं मेने दाशरथिर्नृपः ॥स संभ्रमात्समुत्थाय पदातिः प्रययौ पुरः ॥५८॥करसंपुटकं कृत्वा हर्षाश्रु प्रतिमुञ्चयन् ॥जानुभ्यामवनिं गत्वा इदं वचनमब्रवीत् ॥५९॥विप्रप्रसादात्कमलावरोऽहं विप्रप्रसादाद्धरणीधरोऽहम् ॥विप्रप्रसादाज्जगतीपतिश्च विप्रप्रसादान्मम रामनाम ॥६०॥इत्येवमुक्ता रामेण वाड वास्ते प्रहर्षिताः ॥जयाशीर्भिः प्रपूज्याथ दीर्घायुरिति चाब्रुवन् ॥६१॥आवर्जितास्ते रामेण पाद्यार्घ्यविष्टरादिभिः ॥स्तुतिं चकार विप्राणां दण्डवत्प्रणिपत्य च ॥६२॥कृतांजलिपुटः स्थित्वा चक्रे पादाभिवंदनम् ॥आसनानि विचित्राणि हैमान्याभरणानि च ॥६३॥समर्पयामास ततो रामो दशरथात्मजः ॥अंगुलीयकवासांसि उपवीतानि कर्णकान् ॥६४॥प्रददौ विप्रमुख्येभ्यो नानावर्णाश्च धेनवः ॥एकैकशत संख्याका घटोध्नीश्च सवत्सकाः ॥६५॥सवस्त्रा बद्धघंटाश्च हेमशृंगविभूषिताः ॥रूप्यखुरास्ताम्रपृष्ठीः कांस्यपात्रसमन्विताः ॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां। संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे सत्यमंदिरस्थापन वर्णनोनाम द्वात्रिंशोऽध्यायः ॥३२॥छ ॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP