संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय २६ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय २६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६ Translation - भाषांतर ॥ व्यास उवाच ॥मार्कंडेयोद्धाटितं वै स्वर्गद्वारमपावृतम् ॥तत्र ये देहसंत्यागं कुर्वंति फलकांक्षया ॥१॥लभंते तत्फलं ह्यंते विष्णोः सायुज्यमाप्नुयुः ॥अतः किं बहुनोक्तेन द्वारवत्यां सदा नरैः ॥२॥देहत्यागः प्रकर्तव्यो विष्णोर्लोकजिगीषया ॥अनाशके जले वाग्नौ ये च संति नरोत्तमाः ॥सर्वपापविनिर्मुक्ता यांति विष्णोः पुरीं सदा ॥३॥अन्योपि व्याधिरहितो गच्छेदनशनं तु यः ॥सर्वपाप विनिर्मुक्तो याति विष्णोः पुरीं नरः ॥४॥शतवर्षसहस्राणां वसेदंते दिवि द्विजः ॥ब्राह्मणेभ्यः परं नास्ति पवित्रं पावनं भुवि ॥५॥उपवासै स्तथा तुल्यं तपः कर्म्म न विद्यते ॥नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरु ॥६॥न धर्मात्परमस्तीह तपो नानशनात्परम् ॥स्नात्वा यः कुरुते ऽत्रापि श्राद्धं पिंडोदकक्रियाम् ॥७॥तृप्यंति पितरस्तस्य यावद्ब्रह्मदिवानिशम् ॥तत्र तीर्थे नरः स्नात्वा केशवं यस्तु पूजयेत् ॥८॥स मुक्तपातकैः सर्वेर्विष्णुलोकमवाप्नुयात् ॥तीर्थानामुत्तमं तीर्थं यत्र संनिहितो हरिः ॥९॥हरते सकलं पापं तस्मिंस्तीर्थे स्थितस्य सः ॥मुक्तिदं मोक्षकामानां धनदं च धनार्थिनाम् ॥आयुर्दं सुखद चैव सर्वकामफलप्रदम् ॥१०॥किमन्येनात्र तीर्थेन यत्र देवो जनार्द्दनः ॥स्वयं वसति नित्यं हि सर्वेषामनुकम्पया ॥११॥तत्र यद्दीयते किचिद्दानं श्रद्धासमन्वितम् ॥अक्षयं तद्भवेत्सर्वमिह लोके परत्र च ॥१२॥यज्ञैर्दानैस्तपो भिश्च यत्फलं प्राप्यते बुधैः ॥तदत्र स्नानमात्रेण शूद्रैरपि सुसेवकैः ॥१३॥तत्र श्राद्धं च यः कुर्यादेकादश्यामुपोषितः ॥स पितॄनुद्धरे त्सर्वान्नरकेभ्यो न संशयः ॥१४॥अक्षय्यां तृप्तिमाप्नोति परमात्मा जनार्द्दनः ॥दीयतेऽत्र यदुद्दिश्य तदक्षय्यमुदाहृतम् ॥१५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये द्वारिकामाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP