संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|चर्यापदः| प्रायश्चित्तविधिपटलः चर्यापदः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः चर्यापदः - प्रायश्चित्तविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् प्रायश्चित्तविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।ज्ञातीनाञ्च सगोत्राणां प्रायश्चित्तन्तु नोच्यते ॥१॥तथा प्रबद्धलोकस्य लोकाचारं नलंघयेत् ।अदत्वा प्रातिबुद्धस्य प्रायश्चित्तं विधीयते ॥२॥स्वजाति दीक्षितं स्पृष्ट्वा भस्म स्मानं विशेषतः ।शूद्रस्य स्पर्शने तस्य सचेल स्नानमाचरेत् ॥३॥अन्तरालानि सर्वाणि स्पर्शने स्नानकद्वयम् ।प्रमादात् स्पर्शने विद्वान् जलस्नानं विधीयते ॥४॥भस्मस्नानं ततः कृत्वा शिवमन्त्रशतञ्जपेत् ।बुध्यासं स्पर्शनञ्चेति पूर्ववत् स्नानकर्मकम् ॥५॥तद्दृष्टे भोजनेकाले तच्छेषान्नन्त्यजेत् बुधः ।स्नानद्वयं तत कृत्वा जप्त्वा मूलं शताष्टकम् ॥६॥दुर्गन्धं वायुनागच्छेन्नासाग्रे भिनिवर्तके ।गोमयन्तु तथा जिघ्रन् सद्यः पञ्चाक्षरञ्जपेत् ॥७॥स्वजातिदीक्षितानाञ्च भुक्त्वाकामेन वै बुधः ।व्योमव्यापिञ्जपेदेवं यदिकामाच्छतं जपेत् ॥८॥नृपान्नभोजने वैद्योघोरमन्त्रं शतञ्जपेत् ।भुक्ते वैश्यान्नमेवन्तु सहस्रान्तञ्जपेत् क्रमात् ॥९॥भुक्ते त्वकामाद्रुद्रान्नं कृच्छ्रञ्चांद्रायणञ्चरेत् ।चान्द्रायणञ्च कामाद्वै कृच्छ्रञ्चैव तु कूष्मकम् ॥१०॥भूक्ते चैकाहमूर्ध्वे तु कृच्छ्रञ्चान्द्रायणञ्चरेत् ।मासे निरन्तरे भुंक्ते शुद्रत्वमुपजायते ॥११॥शूद्रेणैव तु संयुक्तो नित्यं शूद्रवदाचरेत् ।शूद्रस्त्री सङ्गमं कृत्वा सप्तकृच्छ्रन्ततश्चरेत् ॥१२॥सप्तकृच्छ्रादिकृच्छ्रञ्च मासंमासार्धगामिनः ।षाण्मासंवत्सरं वापि कृच्छ्रञ्चान्द्रायणञ्चरेत् ॥१३॥अब्दादुपरिसंयोगे प्रायश्चित्तं न विद्यते ।तस्याचारञ्च तद्वच्चमरणान्ते विशेषतः ॥१४॥रजस्वलाङ्गना स्पर्शे भुक्ते स्नात्वा शिवञ्जपेत् ।हेरण्ड कवटाश्वत्थ पत्रेषु यदिभोजनम् ॥१५॥कामादकामतो वापि शिवमन्त्रं शतञ्जपेत् ।उच्छिष्टे घृतसंयुक्ते क्षीरेलवणसंयुते ॥१६॥जपित्वा हृदयं तत्र सर्वदोषनिक्रन्तनम् ।भुक्त्वान्नदर्शने केशे त्यक्त्वा संशोध्यभस्मना ॥१७॥संस्मरेद् देवदेवेशं जलं प्राप्यविशुद्ध्यति ।लशुनं मत्स्यमांसञ्च निर्माल्यञ्च विसर्जयेत् ॥१८॥प्रमादात् भक्षयित्वा तु शिवमन्त्रं जपेच्छुचिः ।कामेन यदि भुंजितं शिवमन्त्रशतं जपेत् ॥१९॥पातकानाञ्च सर्वेषां समसाच्छृणु सुवृत् ।ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ॥२०॥गुर्वङ्गनागमञ्चैव तद्योगं पञ्चमं स्मृतम् ।गुरुतल्पसुरापानं ब्रह्महत्या चते त्रयः ॥२१॥मरणाभिमुखे प्रोक्तन्तेषाञ्च मरणं शृणु ।बीजं कोशसमायुक्तं मूले संच्छिद्यसाहसात् ॥२२॥तालपत्रस्य नालेन गुरुतल्पीमृतस्तथा ।हस्ते संग्राह्य तप्तानां सुरापी मरणं भवेत् ॥२३॥वचनाच्छृणु ताच्छ्रिद्रं प्रमादादग्निसंभ्वे ।विप्रचिह्नं परित्यज्य संप्राप्य स्वहतं पदम् ॥२४॥ब्रह्महाचेति वा गच्छेनहा प्रस्थानमाचरेत् ।सकृत् प्रवेशीतद्ग्रामं द्वितीयं न प्रवेशयेत् ॥२५॥भर्त्रानारी समागच्छन् ग्रामान्ते नयतान्निशि ।एवञ्चाकामतोज्ञेयः कामत शृणु सुवृत ॥२६॥कृत्वा पूर्ववदाचर्य द्वादशाब्दान्तकं यथा ।तदूर्ध्वगमने काले जलेवह्नौरणेपतन् ॥२७॥संप्रविश्यापि मरणं नयेच्छुद्धो भविष्यति ।स्वर्णस्तोधि च तद्योगात् समासाः शृणु सुवृत ॥२८॥दानं कृत्वा तु सर्वत्र तीर्थे स्नात्वा तु वत्सरम् ।शिवमन्त्रं जपेद् देही पश्चादुद्दालकञ्चरेत् ॥२९॥इदं सुवर्णसेयस्य प्रायश्चित्तं विधीयते ।चतुर्भिरथसंयुक्तं कामतो कामतोपि वा ॥३०॥न गाग्रे पञ्चब्रह्माणि जपित्वा वत्सरत्रयम् ।मन्दिरे शिवहर्म्ये वा वने वापि विचक्षणः ॥३१॥जले लक्षन्तथा कामि स्नात्वा तु दिवसं प्रति ।विशेषपातकञ्चोक्तं सामान्यं शृणु सुवृत ॥३२॥मृगजाति कृते हिंसां सद्यमन्त्रं शतं जपेत् ।पशुजातेश्च हिंसायां प्रागुक्त वृतमाचरेत् ॥३३॥पक्षिजातौ वेद्धिं सा घोरमन्त्रं शतं जपेत् ।सरीस्रपादि हिंसाचेत् पुरुषन्तु शतञ्जपेत् ॥३४॥स्थावराणि च हिंसाया मीशमन्त्रं शतं जपेत् ।गुरोस्तु वेतनार्थञ्च हिंसायान्तु न दोषभाक् ॥३५॥सामान्य पातकं प्रोक्तं सामान्यसेयकं शृणु ।मृद्दारुशैललोहाञ्च कामतोकामतो भवेत् ॥३६॥ईशमन्त्रं शतं जप्त्वा लक्षं कामेन वै बुधः ।स्तेयं समासतः प्रोक्तं सूतकञ्च ततः शृणु ॥३७॥ग्रहस्थोग्रहिणी योगात् सूतकं प्रेतकं द्विधा ।दशाहाच्छुद्धिविप्रस्य द्वादशाहात् नृपस्य तु ॥३८॥वैश्यस्य पक्षतः शुद्धिर्मासं शूद्रस्य चोच्यते ।सम्यक् ज्ञानी स्वधर्मस्थो न त्यजेत् ज्ञातिनं ततः ॥३९॥शुद्ध्यते तत्क्षणात् ज्ञानी अज्ञानी चोक्तभाक् भवेत् ।अन्यथा कुलहानिः स्यात् प्रायश्चित्ते कृते सति ॥४०॥देवाग्नि गुरुपूजादि हीनेद्विगुणमाधिके ।अघोरन्तु शतं जप्त्वा स्वधर्मपूरितस्तथा ॥४१॥आशौ चान्नन्ततो भुक्त्वा कृच्छ्रं तत्रैव कारयेत् ।त्रिसन्धौ पायसादीनि भुकेतु प्रेतकेपि वा ॥४२॥सूतके सूतके प्राप्ते प्राक्सुतांशेन शुद्ध्यति ।शूतके सूतकं वापि प्रेतके प्रेतकं तु वा ॥४३॥प्राप्ताशौचदिनं शुद्धं पूर्वाशौचाद्विनश्यति ।निकृष्टजाति संयुकेमन्दिरे संस्थिते सदा ॥४४॥सर्वान् भाण्डान् परित्यज्य कृच्छ्रशुद्धिर्विधीयते ।कृच्छ्रञ्चैवाति कृच्छ्रञ्च तपकृच्छ्रन्तथैव च ॥४५॥पराकञ्चान्द्रायणोद्दालन्तेषामाचरणं शृणु ।दिवसत्रयमेकाशी अयाचितदिनत्रयम् ॥४६॥दिनत्रयन्तु नक्ताशी निराहारदिनत्रयम् ।एवं कृच्छ्रं समाख्यातमति कृच्छ्रं ततः शृणु ॥४७॥पिबेत् क्षीरस्य कुडुपमेकविंशद्दिनान्तकम् ।स्नानाद्ध्यायसमायुक्तमति कृच्छ्रमिति स्मृतम् ॥४८॥त्र्यहमुष्णोदकं पीत्वा क्षीरञ्चैव त्र्यहं पिबेत् ।त्र्यहमुष्णघृतं पीत्वा त्रयाहं वायुभक्षणम् ॥४९॥तप्त कृच्छ्रं समाख्यातं पराकञ्च ततः शृणु ।अनश्नन् द्वादशाहन्तु स्नानं कृत्वा त्रिसन्धिषु ॥५०॥पराकमिति विख्यातं सर्वद्रव्यस्य पूर्वकम् ।मासार्धं ग्राहवृद्धिः स्यान्मासार्द्धं क्षयमेव च ॥५१॥चांद्रायणमिति प्रोक्तमुद्दालकं ततः शृणु ।आमीक्षकं पिबेत् पक्षमष्टरात्रं घृतं स्मृतम् ॥५२॥अयाचितन्तु षड्रात्रं त्रिरात्रमुदकं बिबेत् ।उपवासमहोरात्रमेवमुद्दालकं स्मृतम् ॥५३॥एतेषु प्रायश्चित्तेषु स्नात्वा स्नात्वाशिवं जपेत् ॥५४॥सहस्राष्टशतं वापि यथा शक्त्या जपेत् ततः ।चतुर्विधा समाख्याता शिवश्वेता इमाः शृणु ॥५५॥उदितोदितमुक्तश्च पादाधिक्यन्तमोदितः ।अर्द्धाधिक्याधिकान्तञ्च द्विगुणास्तु समासतः ॥५६॥अनुक्तमिहशास्त्रे तु शेषं सामान्यवच्चरेत् ।प्रायश्चित्तमिदं प्रोक्तञ्चर्या पादे समासतः ॥५७॥चर्यापादं समाप्तं स्याद्योगपादं ततः शृणु ।इति प्रायश्चित्तविधिपटलोद्वादशः ॥इति सुप्रभेदे चर्यापादः समाप्तः N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP