संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|चर्यापदः| जातिभेदविधिपटलः चर्यापदः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः चर्यापदः - जातिभेदविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् जातिभेदविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि जातिभेदविधिं क्रमात् ।शिवसृष्टिः पुरापश्चात् ब्रह्मसृष्टिः प्रवर्तते ॥१॥गोचरास्तु ततो भेदाः शिवभेदा द्विधास्मृताः ।मुखेषु ब्राह्मणाजातास्तत् बाह्वोः क्षत्रियास्तथा ॥२॥वैश्या ऊरुश्च विज्ञेयाः पादयोः शूद्रजातयः ।चतुर्वर्णस्य संयोगात् प्रतिलोमानुलोमतः ॥३॥तेषान्तद्योगकाले तु जायन्ते चान्तरालकाः ।ततो वृत्तेश्च जायन्ते तेषाञ्चैवोत् भवं शृणु ॥४॥वर्णेवर्णे यथा मातःशक्तिशंभुमयात्मकाः ।शक्तिस्त्रीरूपमित्युक्तं पुरुषः शंभुरुच्यते ॥५॥शक्तिशंभुमयं प्राहुर्जगदेतच्चराचरम् ।ब्राह्मणादि चतुर्वणाः सुस्नानं ह्यनुपूर्वशः ॥६॥तेषां वृत्ति समाचारं ततस्नत्वं वदाम्यहम् ।शिवसृष्ट्या यथा यस्माज्जायन्ते केवलं मुखात् ॥७॥चतुर्वर्णां शुद्धवर्णा दीक्षायां प्रापयेच्छिवम् ।लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु ॥८॥अद्ध्यनञ्चाद्ध्यापनं यजनंयाजनं तथा ।दानं प्रतिग्रहञ्चैव तेषां कर्माणि चोच्यते ॥९॥जायन्ते ब्रह्मबाह्वोश्च क्षत्रियास्तु महामते ।नृपक्षत्रियराजानौ राजाभूपाश्च भूपकाः ॥१०॥षडेते निजनामानि तेषां पर्यायवाचकाः ।जगतः पालनन्तेषां स्वधर्मपरिपालनम् ॥११॥ब्रह्माण ऊर्वोर्वैश्यानाञ्जननन्तु विधीयते ।पीतायां न्यास्तु वणिजः कामदाः सर्वलौकिकाः ॥१२॥पञ्चैतानि मयोक्तानि वैश्यपर्यायवाचकाः ।गोपाल कृषिवाणिज्य कर्मत्रयसमायुताः ॥१३॥पादयोस्त्वं सृजत् शूद्रान् स्त्रीवर्णानामुपासकान् ।शुश्रूषान्तु द्विजानाञ्च शूद्राणां वृत्तिरुच्यते ॥१४॥कृष्णाश्च कार्षकाः शूद्रा वृषला प्रेष्यकारकाः ।एतानि पञ्चनामानि शूद्रपर्यायवाचकाः ॥१५॥अथितश्चाथशूद्रस्तु सत्शूद्रं वैश्यवत् स्मरेत् ।अमद्यपाः कुलीनास्तु सत्शूद्रास्ते प्रकीर्तिताः ॥१६॥तत्तद्वर्णेषु विधिना जायन्ते क्रमशः तथा ।ब्राह्मणादि चतुर्वर्णाः वर्णानां स्वस्वजातयः ॥१७॥चातुर्वर्णा इमे प्रोक्तास्त्वनुलोमानि मे शृणु ।स्वर्णं प्रथमं विद्यादंबष्ठश्च द्वितीयकम् ॥१८॥पारशैवस्तृतीयन्तु जायन्ते ब्राह्मणोद्भवैः ।मत्गुरूत्युग्रनामा च जायेतेतौ नृपस्य तु ॥१९॥वैश्यस्य चूचुको ज्ञेयस्त्वनुलोमाः षडैव तु ।संप्राप्य विप्रोधर्मेण रक्तकन्यां समन्त्रकम् ॥२०॥तत्र जातः सवर्णस्तु जानुलोमेषु पूजितम् ।तत्ब्राह्मणस्तु संज्ञो वै कर्माधर्मण विस्मृतः ॥२१॥हयङ्गजंरथं वापि वाहयेद् वा नृपाज्ञया ।सेनापत्यञ्च मूनां वा कुर्यादा जीवसंयुतः ॥२२॥पीतस्त्री विप्रसंयोगा दंबष्ठोनामजायते ।तस्य वृत्तिर्भवेत् कक्ष्या तथैव ज्वालनर्तनम् ॥२३॥शूद्रस्त्री विप्रसंयोगाज्जातः पारशव स्मृतः ।शूलञ्चक्षुद्र वाद्यञ्च नालिशंसन जीवनम् ॥२४॥नृत्तं वाद्यञ्च कर्तव्यं तथामद्दल वृत्तिका ।रक्तस्य पीतकन्यायां जातोमत् गुरिति स्मृतः ॥२५॥महाश्रेष्ठी तु नाम्ना च वैश्य प्रत्युपजीवनम् ।इयन्तत्रैव वृत्तिस्तु नक्षत्रं कर्म आचरेत् ॥२६॥कृष्णाया रक्तसंयोगाज्जात श्रोत्र इति स्मृतः ।दण्डकर्मसुरक्तस्तु दण्डन्तत्रैव कारयेत् ॥२७॥कृष्णायां पीतसंयोगाज्जातश्चूचुक एव वा ।काष्ठञ्चैव तृणादीनि वन्यजातीववृत्तिकः ॥२८॥क्रमुकानां फलैः पत्रैर्विक्रियाजीववृत्तिका ।अनुलोमा इमे प्रोक्ताः प्रतिलोमास्ततः शृणु ॥२९॥वैदेह पुल्कसञ्चैव चण्डालश्च तथैव च ।आयोगोमागधश्चैव जायन्ते कामतश्चतु ॥३०॥सूतो नृपस्य एवञ्च प्रोच्यते प्रतिलोमतः ।वैश्यायां कृष्णसंयोगाज्जातो वै देहकः स्मृतः ॥३१॥गवां महिषमेषाणां कुर्यात् सम्यक् प्रपालनम् ।पालिप्रत्युपजीवी च तेषां तत् क्रयविक्रयम् ॥३२॥रक्तायां कृष्णसंयोगाज्जातः पुलस उच्यते ।सुरासङ्ग्रहणं कृत्वा विक्रयं जीवनं स्मृतम् ॥३३॥श्वेतायां शूद्रसंयोगाज्जातश्चण्डाल उच्यते ।कर्णे संधाय्यगोचर्म आयसाभरणं तथा ॥३४॥झल्लरीकक्षतो वापि मलंसर्वं व्यपोह्य च ।पूर्वाह्णे संविशेत् ग्राममपराह्णेन संविशेत् ॥३५॥रक्तायां पीतसंयोगाज्जातस्त्वा योगवस्मृतः ।वस्त्रतन्त्रोप जीवी च तन्तु वाया भवेत् खलु ॥३६॥विप्रस्त्रीपीतसंयोगाजातो मागध उच्यते ।सर्वांश्च वन्दनं कृत्वा कीर्तनञ्च विशेषतः ॥३७॥अधसं स्पृश्यन्तु कृष्णञ्चेत् तस्यान्नन्तु न भुज्यते ।सर्वेषां प्रेषणं कृत्वा तज्जं वारिकवृत्तिका ॥३८॥विप्रायान्तु नृपस्यैव विधिनायदि जायते ।पूजितः प्रतिलोमेषु ससूतो नामनामतः ॥३९॥श्वेतत्वप्रतिलोमेषु अस्यैव तु विधीयते ।तेषामध्ययनं प्रोक्तं धर्माणामनुबोधकम् ॥४०॥प्रतिलोमा इमे प्रोक्ताः गूढजातास्ततः शृणु ।ब्राह्मण्यां ब्राह्मणस्यैव प्रमादात् गूढजातकः ॥४१॥सोपिविप्रस्तु विज्ञेयो यागाध्यापनवर्जितः ।नृपायां ब्राह्मणस्यैव चोररूपेणजायते ॥४२॥ज्योतिषंगणितञ्चैव भूततन्त्रार्थ निश्चितम् ।आयुर्वेदमथाष्टाङ्गमुच्यते गणिकस्य तु ॥४३॥वैश्यायां ब्राह्मणस्यैव चोरा वै कुम्भकारकाः ।कुलाल वृत्याजीवी च ना पिताश्च तदेव तु ॥४४॥सूतके प्रेतके चान्ये नाभेरूर्ध्वन्तु चार्पयेत् ।शूद्रायास्तु द्विजस्येव चोराज्जातो निषादकः ॥४५॥अन्तव्याल मृगादीनि सङ्ग्रहादुपजीवकः ।श्वेतायान्तु नृपाच्चोराज्जातः सोरथकारकः ॥४६॥आचरेत् शूद्रवन्नित्यं श्वेतत्व प्रतिवर्जितः ।वाहनानि तु संप्रेष्य तेषां तु परिचारकम् ॥४७॥प्. २४०) रक्तायां रक्तसञ्चोरात् सोपिरक्त इति स्मृतः ।अभिषेकं विना तस्य शासनी पट्टबन्धनम् ॥४८॥आचारं रक्तवन्नित्यं भोज इत्यभिधीयते ।पुनर्भूकरणे जातो रक्तायां रक्तनामतः ॥४९॥भोजैः समन्तं विद्यात नृपंकानिनमेव च ।वैश्यायां रक्तसंञ्चोरा दश्वव्यापारमुच्यते ॥५०॥वृषल्या रक्तसञ्चोराच्चूलिकोनाम उच्यते ।रज्ञश्चैव नियोगेन शूलकर्मस्वयोजितः ॥५१॥ब्राह्मण्यां पीतसञ्चोराज्जातः कालरिति स्मृतः ।वस्त्राणां जलसेकन्तु क्षालनं वृत्तिरस्य तु ॥५२॥रक्तायां पीतसञ्चोरादारण्या जीववृत्तिकः ।पीतायां पीतसञ्चोरामणिकारक उच्यते ॥५३॥मणीनां विक्रयं कृत्वा शंबायां वलय क्रिया ।वृषल्यां पीतसञ्चोरात् कटप्यापार उच्यते ॥५४॥श्वेतायां कृष्णसञ्चोराद्वेदकारक उचयते ।रक्तायां कृष्णसञ्चोराज्जातो वैणक उच्यते ॥५५॥अस्पृश्याश्च त्रिभिर्वर्णैर्वैणवं जपमाचरेत् ।पीतायां कृष्णसञ्चोराज्जातोलवण विक्रयः ॥५६॥स एव च क्रिकोज्ञेयस्तैलपिण्याक वृत्तिकः ।कृष्णायां कृष्णसञ्चोराज्जातोमालव उच्यते ॥५७॥तद्वृत्तिर्गोगजाश्वानां तृणभारञ्च वा भयेत् ।अन्तराल इमे प्रोक्ता वृत्याश्चैव तत शृणु ॥५८॥अनुलोम प्रतिलोमानाञ्चातुर्वर्णेषु कारणम् ।तत्र जातमनुष्याणां वृत्ताभिख्यासुरत्र वै ॥५९॥अबष्ठस्य तु विप्रायां जातोवापकवृत्तिकः ।रक्तायां पीतवद्योगा दधोनापित उच्यते ॥६०॥रोमाणां वपनं कुर्यात् वृत्तिर्नाभेरधस्ततः ।विप्रस्त्रीचूचुकस्यैव जातस्तक्षकनामतः ॥६१॥रक्तायामेव तस्यैव जातोमाल्यस्य बन्धकः ।पीतायामपिजातोसौ सामुद्रः पश्यजीवकः ॥६२॥मज्जाततस्तु विप्रायां श्रवणञ्च विधीयते ।रक्तायामेव सञ्जातः कर्मकार इति स्मृतः ॥६३॥अग्रस्त्रीपुष्कलयोश्च जातोरजक उच्यते ।चण्डालस्य तु विप्रायाञ्जातः श्वपच उच्यते ॥६४॥श्वमांसं भक्षणं तेषाम् श्मशाने तु निवासयेत् ।एवमादीनि भेदानि युक्तियुक्तानि योजयेत् ॥६५॥इह तस्माच्च भेदानि वक्तुं वर्षशतैर्न हि ।समासोक्त्या तु भेदानि चोक्तं दीक्षार्भकान् शृणु ॥६६॥ब्राह्मणाक्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्तिताः ।एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेत् ॥६७॥सतु संस्कारमन्येषां कुर्यात् तद्देशिकोत्तमः ।अनुलोमाश्च षट्प्रोक्ताः प्रतिलोमास्त्रय स्मृताः ॥६८॥सूतश्च मागधश्चैव आयोगावसृतीयकः ।अन्तरालश्च सर्वे च दीक्षाकर्मणियोजिताः ॥६९॥व्रात्यः सर्वे तु संयोज्याः सर्वकर्मबहिष्कृताः ।जातिभेदं मयाप्रोक्तं मण्डलञ्च ततः शृणु ॥७०॥इति जातिभेदविधिपटलो द्वितीयः ॥२॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP