संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|प्रथमोध्यायः| प्रथमोध्यायः प्रथमोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः प्रथमोध्यायः प्रथमोध्यायः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत प्रथमोध्यायः Translation - भाषांतर दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ॥१॥स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा ॥२॥न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ।यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥३॥भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥४॥अमङ्गलत्वाच्छब्दानां राज्ञा योगादमङ्गले ।अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥५॥गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ।पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ॥६॥ततो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ।दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥७॥स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ।वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ॥८॥मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ।स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ॥९॥बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ।एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ॥१०॥नैव दोषा हरौ तद्गबुद्धयोक्ता दोषकारिणः ।तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥११॥जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।आयज्ञेतश्चायजेतो वसन्तिश्च वसन्ततः ॥१२॥विगतच्छादनत्वात्तु गच्छ भूतक्षयङ्करः ।भुङ्क्षेत्युक्तो हरिर्हुं च हुतमस्मिन् जगद्यतः ॥१३॥स्फुटत्वात्फडिति प्रोक्तः कवरक्षण इत्यतः ।कवचं वतर्ते यस्मात्षड्गुणत्वेन सर्वदा ।वषट्तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥१४॥स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते ॥१५॥इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।उच्यते मुख्यतो यस्मात्पदवर्णस्वरादिभिः ॥१६॥तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥१७॥अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये ।तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥१८॥कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।ब्रह्मैको नैव चान्योऽस्ति क इत्यस्यरोभयार्थतः ॥१९॥तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्धयते ।स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ॥२०॥विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥२१॥सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।परस्परविरोधश्च विरोधः कार्यतद्वतोः ।स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः ॥२२॥दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥२३॥उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।इतयाद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥२४॥अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥२५॥विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः ॥२६॥विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥२७॥प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥२८॥तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥२९॥इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥३०॥तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥३१॥प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥३२॥उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥३३॥प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।वृत्तिहेतुरिति ज्ञेयः पूर्वायोगे परग्रहः ॥३४॥एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।आचक्षत इति ह्यत्र सन्तमित्यवधारणा ॥३५॥योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥३६॥अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।शब्दानामपि सर्वेषां नामवित्कृतकृत्यता ॥३७॥विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।णकारं च षकारं च बलचेष्टात्मकं वदन् ॥३८॥तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥३९॥णकारश्च षकारश्च नामरूपतया मतौ ।तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥४०॥अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥४१॥इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥४२॥प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥४३॥न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते ।सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥४४॥सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥४५॥इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।तेजोऽबन्नात्मकं वापि यद्युपादानमिष्यते ॥४६॥अनाद्येवापराधः कः प्रधानमिति चोदिते ।अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।को दोषः सर्वथैवास्ति परिणामि जडं यदि ॥४७॥अस्माकं परममुख्यार्थो भगवानेक एव तु ।मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ॥४८॥सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः ।अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ॥४९॥कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।योगानां परमां सिद्धिं परमं ते पदं विदुः ॥५०॥इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥५१॥विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥५२॥यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥५३॥पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥५४॥इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥५५॥अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।सदैकरूपविज्ञानबल आनन्दरूपकः ॥५६॥निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः ।अविश्वो विश्वकर्ताजो यः परः सोऽभिधीयते ॥५७॥निर्विकारमनौपम्यं सदैकरसमक्षयम् ।ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥५८॥इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥५९॥क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।अपादानत्वमेवास्य यद्युपादानतेष्यते ॥६०॥अङ्गीकृतं तत्पितृवन्नतु विश्वात्मना भवः ।न चोर्णनाभिजनितृमातृणां च विकारिता ॥६१॥चेतनत्वात्तदन्नं हि कार्यरूपतया भवेत् ।अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥६२॥उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥६३॥स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥६४॥ससर्ज मातापितृवदूर्णनाभिवदेव वा ।प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥६५॥न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् ।नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥६६॥नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥६७॥सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।अभेदः सत्त्वमात्रेण स्याद्खर्वस्वणयोरपि ॥६८॥भागेन परिणामश्चेद्भागयोर्भेद एव हि ।यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥६९॥भिन्नानां समुदायस्य नाम ब्रह्मेति चेद्भवेत् ।ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥७०॥शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥७१॥उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥७२॥न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥७३॥उपादानतया किन्तर्ह्यपादानं ह्यचेतनम् ।कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥७४॥सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥७५॥सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद्दुर्विदत्वतः ॥७६॥सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥७७॥व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ॥७८॥तस्मादशेषकर्तैको निर्विकारो रमापतिः ।शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥७९॥बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ।तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ॥८०॥यच्चाविकृतमेवैतद्ब्रह्म विश्वात्मना मृषा ।दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते ॥८१॥सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ।ब्रह्मणश्चेत्क्व सार्वज्ञ्यमन्यगा चेत्स्वतोऽन्यता ॥८२॥नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ।देहिनः कारणयुता देहाश्च यदि न भ्रमात् ॥८३॥किं भ्रान्तिकल्पितं तत्र भेदोऽपि भ्रमजो यदि ।भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ॥८४॥नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ।भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि ॥८५॥व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा ॥८६॥वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ।स हि कर्तेति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः ॥८७॥सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ॥८८॥ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ॥८९॥अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ॥९०॥न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ।साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।सम्यक्सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥९१॥यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥९२॥विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः ॥९३॥सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥९४॥सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥९५॥अतीतानागतौ कालावपि नासाक्षिगोचरौ ।पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥९६॥तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥९७॥तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथापि वा ।शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥९८॥अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥९९॥अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्कयते ॥१००॥इतः पूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥१०१॥तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥१०२॥एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥१०३॥एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥१०४॥परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥१०५॥पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥१०६॥प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥१०७॥विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥१०८॥इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च ॥१०९॥विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।निवृत्तिव्याप्तियुक्प्रायः प्रपञ्चो भेदपञ्चकः ॥११०॥जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।जीवभेदो मिथश्चैव जडजीवभिदा तथा ।मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥१११॥सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ॥११२॥इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया ।उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् ॥११३॥वाचारब्धं तु साङ्केत्यं नाम स्याद्विकृतं बहु ।नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥११४॥प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ॥११५॥सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ।प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ॥११६॥देहः प्रध्वंसते वायं किं ततोऽस्यातिशिष्यते ।हन्यते न वधेनायं जरया च न जीर्यति ॥११७॥एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ।वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ॥११८॥पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च ॥११९॥विकारत्वविवक्षायां नचैकनखकृन्तनम् ।सर्वकार्ष्णायसं च स्यादतः सादृश्य एव च ॥१२०॥विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ।प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः ॥१२१॥तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ।तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः ॥१२२॥असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।करोति पितृवद्विश्वं पूर्णशेषगुणात्मकः ॥१२३॥॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमोऽध्यायः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP