संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|प्रथमोध्यायः| द्वितीयः पादः प्रथमोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः प्रथमोध्यायः प्रथमोध्यायः - द्वितीयः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत द्वितीयः पादः Translation - भाषांतर लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥१॥तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।दूरतोऽप्यतिरिक्तः स लीलया केवलं प्रभुः ॥२॥इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ॥३॥एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥४॥अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ॥५॥इति चेत्स विशेषोऽपि क्रियाशक्तयात्मना स्थिरः ।शक्तिता व्यक्तता चेति विशेषोऽपि विशेषवान् ॥६॥अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ।ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ॥७॥इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥८॥इति सत्तत्त्ववचनं द्वित्वं चैकस्य युज्यते ।यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥९॥अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥१०॥विशिष्टसुखवत्त्वाच्च ब्रह्मत्वं च विशिष्टता ।अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥११॥चेतनानां विशेषो यः स्वभावोऽपीश्वरापिर्तः ।अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥१२॥ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।किमित्यपोद्यते कस्माद्वृथावस्थितिकल्पना ।दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ॥१३॥रमणं नातियत्नस्य विक्षेपादेव युज्यते ।इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ॥१४॥आत्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ॥१५॥गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ॥१६॥नाभावो भाव इति च विशेषः प्रायशो भवेत् ।अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ॥१७॥दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ॥१८॥भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।तदभावो हि तद्भावविरोधी न ततोऽपरः ॥१९॥पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् ।कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥२०॥पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥२१॥दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।यदा तदधिको दोषो विद्यते को नु वादिनाम् ॥२२॥भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ॥२३॥यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ॥२४॥अखण्डवादिनोऽ पि स्याद्विशेषोऽनिच्छतोऽप्यसौ ।व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥२५॥बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥२६॥वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते ॥२७॥॥इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP