तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः ॥१॥
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्यखिलेशत्वाद्भूमा विष्णुः सुखाधिकः ॥२॥
अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥३॥
ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥४॥
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् ॥५॥
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥६॥
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥७॥
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥८॥
लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।
बहुतादृक्तवमुक्तस्य विरोधोऽर्थात्तथा गतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥९॥
ता एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥१०॥
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।
वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ॥११॥
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ॥१२॥
अनामरूपता भेदस्योपजीव्यप्रमाणता ।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ॥१३॥
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥१४॥
यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्तथा ।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥१५॥
मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।
सर्वदा तेन देवानामपि युक्ता ह्युपासना ॥१६॥
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ॥१७॥
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ॥१८॥
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते ॥१९॥

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP