संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|बलभद्रखण्डः| अध्यायः १२ बलभद्रखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ बलभद्रखण्डः - अध्यायः १२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बलराम कवचम् Translation - भाषांतर दुर्योधन उवाच -गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ॥सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥१॥प्राड्विपाक उवाच -स्नात्वा जले क्षौमधरः कुशासनःपवित्रपाणिः कृतमन्त्रमार्जनः ॥स्मृत्वाथ नत्वा बलमच्युताग्रजंसंधारयेद्धर्मसमाहितो भवेत् ॥२॥गोलोकधामाधिपतिः परेश्वरःपरेषु मां पातु पवित्रकीर्तनः ॥भूमण्डलं सर्षपवद्विलक्ष्यतेयन्मूर्ध्नि मां पातु स भूमिमण्डले ॥३॥सेनासु मां रक्षतु सीरपाणि-र्युद्धे सदा रक्षतु मां हली च ॥दुर्गेषु चाव्यान्मुसली सदा मांवनेषु संकर्षण आदिदेवः ॥४॥कलिंदजावेगहरो जलेषुनीलांबरो रक्षतु मां सदाग्नौ ॥वायौ च रामोऽवतु खे बलश्चमहार्णवेऽनन्तवपुः सदा माम् ॥५॥श्रीवासुदेवोऽवतु पर्वतेषुसहस्रशीर्षा च महाविवादे ॥रोगेषु मां रक्षतु रौहिणेयोमां कामपालोऽवतु वा विपत्सु ॥६॥कामात्सदा रक्षतु धेनुकारिःक्रोधत्सदा मां द्विविदप्रहारी ॥लोभात्सदा रक्षतु बल्वलारि-र्मोहात्सदा मां किल मागधारिः ॥७॥प्रातः सदा रक्षतु वृष्णिधुर्यःप्राह्णे सदा मां मथुरापुरेन्द्रः ॥मध्यन्दिने गोपसखः प्रपातुस्वराट् पराह्णेऽवतु मां सदैव ॥८॥सायं फणींद्रोऽवतु मां सदैवपरात्परो रक्षतु मां प्रदोषे ॥पूर्णे निशीथे च दुरन्तवीर्यःप्रत्यूषकालेऽवतु मां सदैव ॥९॥विदिक्षु मां रक्षतु रेवतीपति-र्दिक्षु प्रलंबारिरधो यदूद्वहः ॥ऊर्ध्वं सदा मां बलभद्र आरा-त्तथा समन्ताद्बलदेव एव हि ॥१०॥अन्तः सदाव्यात्पुरुषोत्तमो बहि-र्नागेन्द्रलीलोऽवतु मां महाबलः ॥सदांतरात्मा च वसन् हरिः स्वयंप्रपातु पूर्णः परमेश्वरो महान् ॥११॥देवासुराणां भयनाशनं चहुताशनं पापचयेन्धनानाम् ॥विनाशनं विघ्नघटस्य विद्धिसिद्धासनं वर्मवरं बलस्य ॥१२॥इति श्रीगर्गसंहितायां बलभद्रखण्डेस्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ॥१२॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP