संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|बलभद्रखण्डः| अध्यायः ११ बलभद्रखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ बलभद्रखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बलरामस्तोत्रम् Translation - भाषांतर दुर्योधन उवाच -स्तोत्रं श्रीबलदेवस्य प्राड्विपाक महामुने ॥वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम् ॥१॥प्राड्विपाक उवाच -स्तवराजं तु रामस्य वेदव्यासकृतं शुभम् ॥सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम् ॥२॥देवादिदेव भगवन् कामपाल नमोऽस्तु ते ॥नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥३॥धराधराय पूर्णाय स्वधाम्ने सीरपाणये ॥सहस्रशिरसे नित्यं नमः संकर्षणाय ते ॥४॥रेवतीरमण त्वं वै बलदेवाच्युताग्रजः ॥हलायुध प्रलंबघ्न पाहि मां पुरुषोत्तम ॥५॥बलाय बलभद्राय तालांकाय नमो नमः ॥नीलांबराय गौराय रौहणेयाय ते नमः ॥६॥धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलांतकः ॥रुक्म्यरिः कूपकर्णारिः कुम्भांडारिस्त्वमेव हि ॥७॥कालिंदीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ॥द्विविदारिर्यादवेंद्रो व्रजमंडलमंडनः ॥८॥कंसभातृप्रहन्तसि तीर्थयात्राकरः प्रभुः ॥दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः ॥९॥जय जयाच्युतदेव परात्परस्वयमनन्तदिगंतगतश्रुत ॥सुरमुनींद्रफणीन्द्रवराय तेमुसलिने बलिने हलिने नमः ॥१०॥यः पठेत्सततं स्तवनं नरःस तु हरेः परमं पदमाव्रजेत् ॥जगति सर्वबलं त्वरिमर्दनंभवति तस्य धनं स्वजनं धनम् ॥११॥इति श्रीगर्गसंहितायां बलभद्रखण्डेबलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP