संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|बलभद्रखण्डः| अध्यायः १० बलभद्रखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ बलभद्रखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बलरामपूजापद्धतिः Translation - भाषांतर दुर्योधन उवाच -भगवन् गर्गाचार्येण गोपीयूथाय कथं दत्तंबलभद्रपञ्चाङ्गं तत्कृपया वदतात् ॥ त्वं सर्वज्ञोऽसि ॥१॥प्राड्विपाक उवाच -कौरवेन्द्र एकदा गर्गाचार्यः कलिंदनन्दिनींस्नातुं गर्गाचलाद्व्रजमंडलं चाजगाम ॥तत्रैकांते मरुल्लीलैजल्ललितलतातरुपल्लवपुष्पगंधमत्तमिलिंदपुञ्जेकालिंदीकूलकलितनिकुंजे श्रीरामकृष्णध्यानतत्परंगर्गाचार्यं प्रणम्य नागेन्द्रकन्याः स्म इति जातिस्मरागोपकन्याः श्रीमद्बलभद्रप्राप्त्यर्थं सेवनं पप्रच्छुस्तासांपरमां भक्तिं वीक्ष्य पद्धतिपटलस्तोत्रकवचसहस्रनामानिगोपीयूथाय स प्रददौ ॥ किं भूयस्त्वंतद्ग्रहणं कर्तुमिच्छसि वदतात् ॥२॥दुर्योधन उवाच -रामस्य पद्धतिं ब्रूहि यथा सिद्धिं व्रजाम्यहम् ॥त्वं भक्तवत्सलो ब्रह्मन् गुरुदेव नमोस्तु ते ॥३॥प्राड्विपाक उवाच -राममार्गस्य नियमं शृणु पार्थिवसत्तम ॥येन प्रसन्नो भवति बलभद्रो महाप्रभुः ॥४॥सहस्रवदनो देवो भगवान् भुवनेश्वरः ॥न दानैर्न च तीर्थैश्च भक्त्या लभ्यस्त्वनन्यया ॥५॥सत्संगमेत्याशु शिक्षेद्भक्तिं वै श्रीहरेर्गुरोः ॥स सिद्धः कथितो जातं यस्य वै प्रेमलक्षणम् ॥६॥ब्राह्मे मुहूर्ते चोत्थाय रामकृष्णेति च ब्रुवन् ॥नत्वा गुरुं भुवं चैव ततो भूम्यां पदं न्यसेत् ॥७॥वार्य्युपस्पृश्य रहसि स्थितो भूत्वा कुशासने ॥हस्तावुत्संग आधाय स्वनासाग्रनिरीक्षणः ॥८॥ध्यायेत्परं हरिं देवं बलभद्रं सनातनम् ॥गौरं नीलांबरं हृद्यं वनमालाविभूषितम् ॥९॥एवं ध्यानपरो नित्यं प्रीत्यर्थं हलिनः प्रभोः ॥त्रिकालसंध्याकृच्छुद्धो मौनी क्रोधविवर्जितः ॥१०॥अकामी गतलोभश्च निर्मोहः सत्यवाग्भवेत् ॥द्विवारं जलपानार्थी एकभुक्तो जितेन्द्रियः ॥११॥क्षौमाम्बरो भूमिशायी भूत्वा पायसभोजनः ॥एवं निर्जितषड्वर्गो भवेदेकाग्रमानसः ॥१२॥तस्य प्रसन्नो भवति सदा संकर्षणो हरिः ॥परिपूर्णतमः साक्षात्सर्वकारणकारणः ॥१३॥इत्थं श्रीबलभद्रस्य कथिता पद्धतिर्मया ॥कौरवेन्द्र महाबाहो किं भूयः श्रोतुमिच्छसि ॥१४॥दुर्योधन उवाच -मुनींद्र देवदेवस्य पटलं ब्रूहि मे प्रभोः ॥येन सेवां करिष्यामि तत्पदाम्बुजयोः सदा ॥१५॥प्राड्विपाक उवाच -बलस्य पटलं गुह्यं विद्धि सिद्धिप्रदायकम् ॥एकांते ब्रह्मणा दत्तं नारदाय महात्मने ॥१६॥प्रणवं पूर्वमुद्धृत्य कामबीजं ततः परम् ॥कालिंदीभेदनपदं संकर्षणमतः परम् ॥१७॥चतुर्थ्यंतं द्वयं कृत्वा स्वाहां पश्चाद्विधाय च ॥मंत्रराजमिमं राजन् ब्रह्मोक्तं षोडशाक्षरम् ॥१८॥जपेल्लक्षं व्रती भूत्वा सहस्राणि च षोडश ॥इहामुत्र परां सिद्धिं संप्राप्नोति न संशयः ॥१९॥अथ जप्तस्य मंत्रस्य महापूजां समाचरेत् ॥द्वात्रिंशत्पत्रसंयुक्तं कर्णिकाकेसरोज्ज्वलम् ॥२०॥भव्यं कंजं पञ्चवर्णं लिखित्वा स्थंडिले शुभे ॥तस्योपरि न्यसेद्राजन् हेमसिहासनं शुभम् ॥तस्मिन् श्रीबलदेवस्य परमर्चां प्रपूजयेत् ॥२१॥ॐ नमो भगवते पुरुषोत्तमाय वासुदेवाय संकर्षणायसहस्रवदनाय महानन्ताय स्वाहा ॥ अनेनमन्त्रेण शिखाबन्धनं कृत्वा सर्वतस्तं प्रणम्यतत्संमुखो भूत्वा स्वयं नतो भवेत् ॥ॐ जयजयानंत बलभद्र कामपाल तालांककालिंदीभंजन आविराविर्भूय मम सम्मुखो भवेति ॥अनेन मंत्रेणावाहनं कुर्यात् ॥ ॐनमस्तेऽस्तु सीरपाणेहलमुसलधर रौहिणेय नीलांबर राम रेवतीरमणनमस्तेऽस्तु ॥ अनेन मंत्रेणासनपाद्यार्घ्यस्नानमधुपर्क-धूपदीपयज्ञोपवित-नैवेद्यवस्त्रभूषणगंधपुष्पाक्षतपुष्पाञ्जलि-नीराजनादीनुपचारान् प्रकल्पयेत् ॥ ॐविष्णवे मधुसूदनायवामनाय त्रिविक्रमाय श्रीधराय हृषिकेशाय पद्मनाभायदामोदराय संकर्षणाय वासुदेवाय प्रद्युम्नायानिरुद्धायअधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥इति पादगुल्फजानूरुकट्युदरपार्श्वपृष्ठिभुजाकंधरनेत्रशिरांसिपृथक् पृथक् पूजयामीति मंत्रेण सर्वाङ्गपूजां कुर्यात् ॥अथ शंखचक्रगदापद्मासिधनुर्बाणहलमुसलकौस्तुभ-वनमालाश्रीवत्सपीतांबरनीलांबरवंशीवेत्रगरुडांकतालांक-रथदारुकसुमतिकुमुदकुमुदाक्षश्रीदामादीन् प्रणवपूर्वेणचतुर्थ्यंतेन नमः संयुक्तेन नाममंत्रेण पृथक् पृथक्संपूज्य ॥ तथा विष्वक्सेनवेदव्यासदुर्गाविनायक-दिक्पालग्रहादीन् कमले सर्वतः स्वे स्वे स्थाने संपूजयेत् ॥पुनः परिसमूहनादिस्थालीपाकविधानेन वैश्वानरं संपूज्यपूर्वोक्तेन मूलमन्त्रेण पंचविंशतिसहस्राण्याहुतीर्जुहुयात् ॥तथाष्टौ सहस्राणि द्वादशाक्षरेण तथाष्टौ सहस्राणिचतुर्व्यूहमन्त्रेणाहुतीर्जुहुयात् ॥ ततोऽग्निं प्रदक्षिणीकृत्यनमस्कृत्याचार्यं महार्हवस्त्रसुवर्णाभरणताम्रपात्रसवत्सगो-सुवर्णदक्षिणाभिः संपूज्य तथा ब्राह्मणान्भोजनाद्यैः संपूज्यनगरजनेभ्यो भोजनं दत्वाऽऽचार्यान्प्रणमेत् ॥ इत्थं बलस्यपटलानुसारेण योऽनुस्मरति इहामुत्र सिद्धिसमृद्धिभिःसंवृतो भवति ॥ श्रीरामपटलं गुह्यं मया ते ह्यनुवर्णितम् ॥सर्वसिद्धिप्रदं राजन् किं भूयः श्रोतुमिच्छसि ॥२२॥इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादेपद्धतिपटलवर्णनं नाम दशमोऽध्यायः ॥१०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP