बलभद्रखण्डः - अध्यायः ४

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीमहानंत उवाच -
अथ ज्योतिष्मतीं शतचंद्रप्रतीकाशां नवयौवनां
सुंदरीं तपस्विनीं वीक्ष्य शक्रयमधनदाग्नि-
वरुणसोमसूर्यमंगलबुधबृहस्पतिशुक्रशनयः सर्वे
तद्‌रूपोद्दीपितकामसंमोहित चित्तास्तदाश्रमेत्य तामुचुः ॥१॥
हे सुंदरी रंभोरु धन्याऽसि कस्यार्थं तपः करोषि
ते वयस्तपयोग्यं नास्ति मनोऽभिप्रायं स्वकमस्माकं
वदेति तच्छ्रुत्वा ज्योतिष्मत्युवाच भगवाननंतः
सहस्रवदनो मम भर्ता भूयादेतर्थं तपस्तपामीति तद्वचः
श्रुत्वा सर्वे जहसुः पृथक् पृथक् तेषां पूर्वमिंद्र इदमाह ॥२॥
इंद्र उवाच -
सर्पराजं वरं कर्तुं किं वृथा तपसे शुभे ॥
देवराजं वरय मां स्वतः प्राप्तं शतक्रतुम् ॥३॥
यम उवाच -
यमराजं वरय मां दण्डनेतारमागतम् ॥
सर्वोत्तमा त्वं मत्पत्‍नी पितृलोके भविष्यसि ॥४॥
धनद उवाच -
राजराजं हि मां विद्धि निधीशं हे वरांगने ॥
त्वं भजाशु विशालाक्षि त्यज संकर्षणे रतिम् ॥५॥
अग्निरुवाच -
सर्वदेवमुखं विद्धि सर्वयज्ञप्रतिष्ठितम् ॥
भज मां त्वं विशालाक्षि विहायान्यत्र वासनाम् ॥६॥
वरुण उवाच -
लोकपालं वरय मां पाशिनं यदसां पतिम् ॥
सप्तानां हि समुद्राणां वैभवं पश्य भामिनि ॥७॥
सूर्य उवाच -
जगच्चक्षुः सदाऽहं वै चंडांशुश्चाक्षुषात्मजे ॥
विहाय पातालगतिं वर मां स्वर्णभूषणम् ॥८॥
सोम उवाच -
द्विजराजश्चौषधीशो नक्षत्रेशः सुधाकरः ॥
कामिनीबलदोऽहं वै भज मां गजगामिनि ॥९॥
मंगल उवाच -
इयं मही हि मे माता पिता साक्षादुरुक्रमः ॥
मंगलं भज मां भद्रे भूत्वा भूरि भवार्थिनी ॥१०॥
बुध उवाच -
बुधोऽहं बुद्धिमान् वीरः कामिनीरसवर्द्धनः ॥
विसृज्य सर्वनाकेशान् रमस्व त्वं मया सह ॥११॥
बृहस्पतिरुवाच -
गीष्पतिर्धिषणोऽहं वै सुराचार्यो बृहस्पतिः ॥
साक्षाद्देवगुरुर्लोके भज मां मन्यसे शुभे ॥१२॥
शुक्र उवाच -
साक्षाद्दैत्यगुरुः काव्यो भार्गर्वोऽहं महामते ॥
स्वश्रेयस्तु विचार्य्यैवं भव मद्‌भामिनी भृशम् ॥१३॥
शनिरुवाच -
सर्वेषां बलवान् भद्रे अहं देवोपरि स्थितः ॥
त्यज शोकं वरय मां लोकभस्मकरं दृशा ॥१४॥
महानन्त उवाच -
अथ ज्योतिष्मती तेषां वचांसि श्रुत्वाऽरुणनेत्रा
स्फुरदधरचलद्‍भ्रूभंगा प्रोद्यद्‌रोषाग्निप्रकर्षोच्छलच्छटा
मां परं सस्मार परं क्रोधं च चकार ॥१५॥
तेन सखंडं महीमंडलं ब्रह्मांडमपि परं
चाब्रह्मलोकान् दृढमेजत्सर्वतो महद्‌भयं बभूव ॥१६॥
तदैव शक्राद्याः शापभयभीताः प्रकम्पिताः
कृतबलिपाणयः पादपद्मे पारितो निपेतुः
पाहि पाहीति जगुस्तैरित्थं शांताऽपि
ज्योतिष्मति पृथक् पृथक् तान् शशाप ॥१७॥
ज्योतिष्मत्युवाच -
छलयितुमिह मां समागतस्त्वं
भव खल पंगुरधःसमीक्षणश्च ॥
कृशतनुरतिकृष्णकुत्सिताभो
भव सहसाऽसितमाषतैलभक्षी ॥१८॥
हे शुक्र अक्ष्णा भव काण आशु
स्त्रीसंज्ञकस्त्वं भव गीष्पतेऽत्र ॥
हे सौम्य ते वारदिनं हि शून्यं
वदन्ति गच्छन्ति न के कदाचित् ॥१९॥
हे मंगल त्वं भव वानराननो
निशाकर त्वं भव राजयक्ष्मवान् ॥
त्वं भग्नदन्तो भव भो दिवाकर
पाशिन् रुचिस्ते भवताञ्जलंधरी ॥२०॥
त्वं सर्वभक्षो भवतादुषर्बुध
मनुष्यधर्मन् हृतपुष्पको भव ॥
वैवस्वस्त त्वं बहुमानभङ्गो
भवाशु युद्धे प्रबलेन रक्षसा ॥२१॥
मां हर्तुमागत्य सुराधम स्थितः
करोषि निंदां परमात्मनो गिरा ॥
तव प्रियां कोऽपि नृपो हरिष्यति
करिष्यति स्वर्गसुखं गते त्वयि ॥२२॥
पाशेन बद्धं युधि निर्जितं त्वां
बलाद्‍गृहीत्वा खलु कोऽपि राक्षासः ॥
लंकां पुरीमेत्य दिवस्पते वै
कारागृहेऽन्धे किल कारयिष्यति ॥२३॥
श्रीमहानन्त उवाच -
अथ ह वाव तया शप्तानां देवानां मध्ये कुपितः
शक्रोऽपि तां शशाप ॥ कोपकारिणि संकर्षणं वरमपि
प्राप्यत्र जन्मनि ह्यन्यत्र वा कदाचित्तव पुत्रोत्सवो माभूत् ॥
एवमुक्त्वा शक्रोऽपि तत्तेजसा धर्षीतः सर्वदेवगणैः
सह स्वर्गं जगाम ॥ पुनः सा तपस्तेपे ॥२४॥
अथ तत्तपो दृष्ट्वा ब्रह्मा ब्रह्मविद्‌भिर्ब्राह्मणैर्ब्राह्मयादिभिः
संवृतः सर्वजगत्कारणभूतः स्वभवनाद्धंसयानेनागतवान् ॥२५॥
अंबरे स्थित्वा तामाह हे ज्योतिष्मति चाक्षुषात्मजे त्वत्तपः
सफलं जातं तेन सिद्धाऽसि परमहं प्रसन्नोऽस्मि वरं ब्रूहीति ॥२६॥
तच्छ्रुत्वाऽऽकण्ठजलाद्विनिर्गत्य ब्रह्माणं
प्रणिपत्य स्तुत्वा कृतांजलिरित्यब्रवीत् ॥
हे भगवन् यदि प्रसन्नोऽसि किलेह संकर्षणो
भगवान् सहस्रवदनो मम वरो भूयादिति
श्रुत्वा ह वाव विबुधर्षभः प्रत्युवाच ॥२७॥
हे पुत्रि तव मनोरथो दुर्लभोऽस्ति तथापि
पूर्ण करिष्याम्यद्यैव वैवस्वतमन्वतरः
प्राप्तोऽस्ति ह्यस्य त्रिनवचतुर्युगविकल्पिते
काले सति तत्र वरः संकर्षणो भगवान् भविष्यति ॥२८॥
तच्छ्रुत्वा ज्योतिष्मती ब्रह्माणमाह देवदेव भगवान्
महान् कालो वर्तते मम मनोरथः शीघ्रं भूयात्वं
कर्तुं समर्थः न चेत्तुभ्यं शापं दास्यामि यथा देवेभ्यो दत्तः ॥२९॥
इति प्रोक्तो ब्रह्मा शापभीतः क्षणं विचार्य पुनराह -
हे राजपुत्रि त्वमानर्तपतेरेव तस्य कुशस्थल्यां पुत्री भव ॥
तस्मिन् जन्मनि त्रिनवचतुर्युगविकल्पितः
कालः केनचित्कारणेन क्षणवद्‌भविष्यति
इति तस्यै वरं दत्वा ब्रह्मा तत्रैवांतरधीयत ॥३०॥
अथ साऽप्यानर्तेषु कुशस्थलीपुरे रेवतस्य
भार्यायां जन्म लेभे ॥ तत्र ज्योतिष्मती रेवती नाम
रुपौदार्य्यगुणमण्डिता नवशरत्कंजनेत्रा विवाहयोग्या बभूव ॥३१॥
तां रेवतः स्नेहेनांतःपुरे सभार्य उवाच कीदृशं
वरमिच्छसीति वचः श्रुत्वा सा तदोवाच
सर्वेषां बलवान्स मे वरो भूयात् ॥३२॥
इति श्रुत्वा राजा रेवतः सभार्योऽपि सुतां
नीत्वा दिव्यं रथमारुह्य बलवन्तं वरं दीर्घायुषं
परिप्रष्टुं लोकानुल्लंघ्य ब्रह्मलोकं गतवान् ॥३३॥
तत्र क्षणमास्थितोऽभूत्तेन क्षणेन भूलोकेऽद्यैव
त्रिनवचतुर्युगविकल्पितः कालो जातः ॥
साऽद्यैव ब्रह्मलोके वर्तते रंभोरु तस्या त्वं संलीना
भूत्वाऽऽवेशावतारिणी द्वारकां प्राप्य रमस्व ॥३४॥
प्राड्‌विपाक उवाच -
इत्थं तद्वाक्यं श्रुत्वा नागलक्ष्मीः संकर्षणं भर्तारमनुज्ञाप्य
ब्रह्मलोकमेत्य रेवतीविग्रहे स्वावेशं चकार ॥३५॥
अथ संकर्षणॊ भगवान् भूरि भूमिभारहरणार्थं
लोकनमस्कृताद्‌गोलोकधामसकाशादवततारेदं
बलभद्रस्य भगवत आगमनं मया ते कथितं
सर्वदुरितापहरणं मंगलायनं युवराज
कौरवेंद्र किं भूयः श्रोतुमिच्छसीति ॥३६॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे
ज्योतिष्मत्युपाख्याने रेवत्युपाख्यानं नाम चतुर्थोऽध्यायः ॥४॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP