२६
येन पूता ऋच: सामानि यजुब्रह्मणा सह येन पूतम् ।
तेना सहस्रधारेण पवमानः पुनातु मा ॥१॥
येन पूता अथर्वाण आथर्वणा अङ्गिरसो देवताः सह येन पूताः ।
तेना सहस्रधारेण पवमान: पुनातु मा ॥२॥
येन पूता ऋतवो येनार्तवा येभ्य: संवत्सरो अधिनिर्मितः ।
तेना सहस्रधारेण पवमान: पुनातु मा ॥३॥
येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूता: ।
तेना सहस्रधारेण पवमानः पुनातु मा ॥४॥
येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पूता: ।
तेना सहस्रधारेण पवमानः पुनातु मा ॥५॥
येन पूता नद्यः सिन्धवः समुद्र: सह येन पूत: ।
तेना सहस्रधारेण पवमानः पुनातु मा ॥६॥
येन पूताः पर्वता हिमवन्तो वैश्वानरः परिभूः सह येन पूतः।
तेना सहस्रधारेण पवमान: पुनातु मा ॥७॥
येन पूता विश्वे देवाः परमेष्ठी प्रजापतिः ।
तेना सहस्रधारेण पवमानः पुनातु मा ॥८॥
येन पूत स्तनयित्नुरपां वत्सः प्रजापतिः ।
तेना सहस्रधारेण पवमान: पुनातु मा ॥९॥
येन पूत: प्रजापतिर्ल्लोकान् विश्वं भूतं स्वराजभार ।
तेना सहस्रधारेण पवमानः पुनातु मा ॥१०॥
येन पूतमृतं सत्यं तपो दीक्षा च पूयते ।
तेना सहस्रधारेण पवमान: पुनातु मा ॥११॥
येन पूतमिदं सर्व यद्भूतं यच्च भाव्यम् ।
तेना सहस्रधारेण पवमान: पुनातु मा ॥१२॥

२७
उच्चैर्घोषो दुन्दुभिः सत्वनायं वानस्पत्यः संभृत उस्रियाभिः । तु. शौ.सं. ५.२
वाचं क्षणुवानो दमयन् सपत्नान् सिंह इव ज्येष्यन्नभि तंस्तनभिः ॥१॥
सिंह इवास्तानीद् द्रुवयो विबद्धोऽभिक्रन्दन्वृषभो वाशितामिव॥
वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥
संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व ।
दैवीं वाचमा हुर गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥३॥
वृषेव यूथं सहसो विदानो गव्यन्नभि रुव संधनाजित् ।
शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥४॥
दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा।
नारी पुत्रन् धावतु हस्तगृहयामित्री भीता समरे वधाना ॥५॥
धीभिः कृतः प्र भरस्व वाचमुद्धर्षय सत्वनामायुधानि।
अमित्रसेनामभिजञ्जभानो द्युमद वद दुन्दुभे सूनृतावत् ॥६॥
पूर्वो दुन्दुभे वि षहस्व शत्रून् भूम्याः पृष्ठे वद बहु रोचमानः ।
इन्द्रमेदी सत्वन: सं ह्वयस्व मित्रैरमित्रानव जङ्घनीहि ॥७॥
अन्तरेमे नभसी घोषो अस्तु पृथक् ते ध्वनयो यन्तु शीभम् ।
अभि क्रन्द स्तनयोत्पिपानां श्लोककृन् मित्रतूर्याय स्वर्धि ॥८॥
संक्रन्दन: प्रवेदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी ।
श्रेयो वन्वानो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि भज द्विराजे ॥९॥
श्रेय:केतो वसुजित् सहीयान् मित्रं दधानस्त्विषितो विपश्चित्।
अंशूनिव गवाधिषवणे अद्रिर्गव्यं दुन्दुभे अधि नृत्य वेद: ॥१०॥
शत्रूषाण् नीषाड़भिमातिषाहो गवेषणः सहमान उद्भित् ।
वाग्वी मन्त्रं प्र जनयस्व वाजिन् साङग्रामजित्यायेषमुद् वदेह ॥११॥
अच्युदच्युत् समदो गमिष्ठो मृधो जेता पृतनाषाडयोध्यः ।
इन्द्रेण क्लृप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥

२८
इमास्तपन्तु त्वौषधीरोषधीनामयं रसः ।
अश्वत्थस्ते ऽयं हृद्यग्निर्भूतो व्योषतु प्र पतातो ममाध्या ॥१॥
यथा सूत्र लाक्षारक्तमाज्येनानुषिच्यते ।
एवा ते कामः सर्पत्वन्तरस्थसु मञ्जसु
प्र पतातो ममाध्या ॥२॥
यथा कुष्ठ: प्रयस्यति यथा दह्यते अर्चिषा ।
एवा ते दह्यतां मनः प्र पतातो ममाध्या ॥३॥
पुंसः कुष्ठात् प्र क्षरति स्तोक आधिभिराभृतः ।
स ते हृदये वि वर्ततां प्र पतातो ममाध्या ॥४॥
एष ते स्तोको हृदयं दिग्धेवेषुः प्र पद्यताम् ।
अस्त्राखणं यथेष्वा कामो विध्यतु त्वा मम प्र पतातो ममाध्या ॥५॥
हरित एधि शुष्काक्ष: सर्वदा हृदयामयि ।
स्त्रियस्ते अन्या माछाञ्छुरयो त्वाशाभि शोचतु प्र पतातो ममाध्या ॥६॥
शोचीमदस्तु ते शयनं शोचिमदुपवेशनम् ।
शोचीमदस्तु ते मनो यथात्र न रमासा अर्वाची न मनास प्र पतातो ममाध्या ॥७॥
न रमासै सङ्गतेषु शयानं त्वाभि शोचतु ।
स्तोकस्त्वोत्तुद उत्तुदात् प्र पतातो ममाध्या ॥८॥
अन्तर्दहति चर्मणो अस्थिमांसेभिराभृतम् ।
सर्वान् यज्ञः प्र याशयादैड आधिभिस्तव प्र पतातो ममाध्या ॥९॥
हृदयेऽधि समिध्यतां स्वैर्मांसेभिरेष ते ।
अग्निः कामस्य यो महान् स मह्यं रन्धयन्ति त्वा प्र पतातो ममाध्या ॥१०॥

२९
अश्वत्थमग्निमाज्यं दूतान् कृण्वे मनोजवान् ।
अग्निश्चरुमिवार्चिषा कामो विध्यतु त्वा मम प्र पतातो ममाध्या ॥१॥
शयानमग्न आसीनमश्वत्थश्च सवासिनौ ।
प्र पतातो ममाध्या ॥२॥
चरन्तं त्वा तिष्ठन्तमासीनमपि संसदि।
रेष्मा तृणमिव मथ्नातु दहन् कामरथो मम प्र पतातो ममाध्या ॥३॥
यथेन्द्रायासुरानरन्धयद् बृहस्पतिः।
एवा त्वमग्ने अश्वत्थानमून् मह्यमिहानय प्र पतातो ममाध्या ॥४॥
अहं ते मन आ दद ऐडेन सह मेदिना ।
देवा मनुष्या गन्धर्वास्ते मह्यं रन्धयन्तु त्वा प्र पतातो ममाध्या ॥५॥
यथा अश्वत्थस्य पर्णानि नेलयन्ति कदा चन ।
एवासौ मम कामेन माव स्वाप्सीत् कदा चन प्र पतातो ममाध्या ॥६॥
कुष्ठं तपन्ति मरुतः स्वाध्यन्दुरआजानं स्वरयन्तो अर्चिषा ।
यथा न स्वपात् कतमच्चनाहरैव गच्छान् ममाध्या ॥७॥
(इति द्वादशर्चोनाम नवमकाण्डे चतुर्थो ऽनुवाकः)
इत्यथर्ववेद पैप्पलादसंहितायां द्वादशर्चोनाम नवमकाण्डः समाप्तः

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP