१६
न तत्र धेनुर्दुहे नानड्वान् सहते धुरम् । तु. शौ.सं. ५.१७
विजानिर्यत्र ब्राह्मणो रात्रिं वसति पापया ॥१॥
न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।
नास्मै समिति: कल्पते न मित्रं नयते वशम् ॥२॥
असृङ्मती चरति ब्रह्मजाया आशा लिम्पन्ती प्रदिशश्चतस्रः।
यः क्षत्रियः पुनरेनां ददाति स दिवो धारां धयति प्रपीनाम् ॥३॥
यो ऽपुनर्दाय ब्रह्मजायां राजा तल्पे निपद्यते ।
दुर्योणा अस्मा ओषधीर्याः काश्चाभिविपश्यति ॥४॥
विषमश्नात्यपां विषमश्नाति वीरुधाम् ।
यो ब्रह्मजायां न पुनर्ददाति तस्मै देवाः सुदिहं दिग्धमस्याम् ॥५॥
उद्यत् पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।
ब्रह्मा चेद्धस्तमग्रहीत् स एव पतिरेकधा ॥६॥
ब्राह्मण एव पतिर्न राजा नोत वैश्यः ।
तत् सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥७॥

१७
नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे !
मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः !
स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥
निर्वै क्षत्रं नयति हन्ति वर्चो ऽग्निरिवारब्धः प्र दुनोति राष्ट्रम् ।
यो ब्रह्मणं देवबन्धुं हिनस्ति न स पितॄणामप्येति लोकम् ॥३॥
देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।
यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥
विषं स पिबति तैमातं पशयन्नग्निं प्र सीदति ।
यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥५॥
शतापाष्ठां नि गिरति तां न शक्नोति निष्खिदम् ।
अन्नं यो ब्रह्मणां मन्य: स्वाद्वद्मीति मन्यते ॥६॥
य एनां हन्ति मृदुमन्यमानो देवपीयुर्धनकामो न चित्तात्।
सं तस्येन्द्रो हृदये अग्निमिन्ध उभे एनं द्युष्टो नभसी चरन्तम् ॥७॥
न ब्राह्मणो हिंसितवा अग्नेः प्रियतमा तनूः ।
सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपा: ॥८॥
अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।
जेता अभिशस्तेन्द्रस्तत् सत्यं देवसंहितम् ॥९॥
आविष्टिताघविषा पृदाकूरिव चर्मणा ।
सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥१०॥

१८
इषुरिव दिग्धा नृपते पृदाकूरिव गोपते । तु. शौ.सं. ५.१८
सा ब्राह्मणस्येषुर्दिग्धा तया विध्यति पीयकः ॥१॥
तीक्षणेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।
अनुहाय तपसा मन्युना चोत दूरादव भिन्दन्ति ते तया ॥२॥
जिह्वा ज्या भवति कुल्मलं वाङ् नाडीका दन्तास्तपसा सुदिग्धाः॥
तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥३॥
यो ब्राह्मणं हिंसितारस्तपस्विनं मनीषिणं ब्रह्मचर्येण श्रान्तम्।
अवर्तिमद् भविता राष्ट्रमेषां तमसीव निहितं नानु वेत्ताः ॥४॥
ये सहस्रमराजन्नासन् दशशता उत।
ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥५॥
गोरेव तान् हन्यमाना वैतहव्याङ् अवातिरत् ।
ये केशरप्राबन्धायाश्चरमाजामपेचिरन् ॥६॥
अतिमात्रा अजायन्त नोदिव दिवमस्पृशन् ।
भृगुं हिंसित्वा माहीना असंभव्यं पराभवन् ॥७॥
ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जना: ।
येत्वस्तेषामुभयादन्नविस्तोकान्यावयत् ॥८॥
ये ब्राह्मणं प्रत्यष्ठीवन् ये चास्मिच्छुक्लमीषिरे ।
अस्नस्ते मध्ये कुल्याया: केशान् खादन्त आसते ॥९॥
अष्टपदी चतुरक्षी चतु:श्रोत्रा चतुर्हनुः ।
द्विजिह्वा द्विप्राणा भूत्वा सा राष्ट्रमव धूनुते ॥१०॥

१९
ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे । तु. शौ.सं. ५.१९
तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते पुमान् ॥१॥
आक्रमणेन वै दैवा द्विषन्तो घ्नन्ति पूरुषम् ।
स्तेयादं ब्रह्मज्यं क्षेत्रे चानृतवादिनम् ॥२॥
विषमेतद् देवकृतं राजा वरुणो अब्रवीत् ।
न ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन ॥३॥
तद् वै राष्ट्रमा स्रवति भिन्नां नावमिवोदकम् ।
ब्राह्मणो यत्र जीयते तद्राष्ट्रं हन्ति दुच्छुना ॥४॥
एकशतं वै जनता भूमिर्या व्यधूनुत ।
प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥५॥
यामुदाजनृषयो मनीषिणः श्रमसातां बृहतीं देवजूताम् ।
सा ब्रह्मज्यं पचति पच्यमाना राष्ट्रमस्य बृहती यच्च वर्चः ॥६॥
वाचा ब्राह्मणमृच्छति जामि हन्त्यचित्त्या ।
मित्राय सत्ये द्रुह्यति यं देवा घ्नन्ति पूरुषम् ॥७॥

२०
एकपाच्छन्द एककामं च ।
तदाप्नोति चाव च रुन्धे प्रथमया रात्र्या प्रथमया समिधा ॥१॥
द्विपाच्छन्दो द्विपदश्च पशून् ।
तदाप्नोति चाव च रुग्धे द्वितीयया रात्र्या द्वितीयया समिधा ॥२॥
त्रील्लोकान्स्त्रीं लोकपतीन् ।
तदाप्नोति चाव च रुन्धे तृतीयया रात्र्या तृतीयया समिधा ॥३॥
चतुष्पाच्छन्दश्चतुष्पदश्च पशून्॥
तदाप्नोति चाव च रुन्धे चतुर्थ्या रात्र्या चतुर्थ्या समिधा ॥४॥
पञ्च दिश: पञ्च प्रदिश: ।
तदाप्नोति चाव च रुन्धे पञ्चम्या रात्र्या पञ्चम्या समिधा ॥५॥
त्रैष्टुभं छन्दो विराजं स्वराजं सम्राजम्।
तदाप्नोति चाव च रुन्धे षष्ठ्या रात्र्या षष्ठ्या समिधा ॥६॥
सप्त प्राणान् सप्तापानान् सप्त ऋषींश्च ।
तदाप्नोति चाव च रुन्धे सप्तम्या रात्र्या सप्तम्या समिधा ॥७॥
ओजश्च तेजश्च सहश्च बलं च ।
तदाप्नोति चाव च रुन्धे अष्टम्या रात्र्या अष्टम्या समिधा ॥८॥
अम्भश्ध महश्चान्नं चान्नाद्यं च ।
तदाप्नोति चाव च रुन्धे नवम्या रात्र्या नवम्या समिधा ॥९॥
ब्रह्म च क्षत्रं चेन्द्रियं च ब्राह्मणवर्चसं च ।
तदाप्नोति चाव च रुन्धे दशम्या रात्र्या दशम्या समिधा ॥१०॥
विश्वावसू च सर्ववसू च ।
तदाप्नोति चाव च रुन्धे एकादश्या रात्र्या एकादश्या समिधा ॥११॥
पाङ्क्तं छन्द: प्रजापतिं संवत्सरम् ।
तदाप्नोति चाव च रुन्धे द्वादश्या रात्र्या द्वादश्या समिधा ॥१२॥
(इति द्वादशर्चोनाम नवमकाण्डे तृतीयो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP