संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|द्वादशर्चोनाम नवमकाण्डः| १ ते ५ द्वादशर्चोनाम नवमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते २९ नवमकाण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्योग्नेः । तु. शौ.सं. ५.२७द्युमत्तमा सुप्रतीकस्य सूनस्तनूनपादसुरो विश्ववेदाः ॥१॥देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ।मध्वा यज्ञं नक्षति प्रीणानो नराशंसः सुकृद्देवः सविता विश्ववारः ॥२॥अच्छायमेति शवसा घृतेनेडे वह्निं नमसाग्निम् ।स्रुचो अध्वरेषु प्रयत्सु ॥३॥स अक्षदस्य महिमानमग्नेः स इन्मन्द्रासु प्रयत्सु ।वसोश्चेतिष्ठो वसुधातमश्च ॥४॥द्वारो देवीरन्नस्य विश्वे व्रता ददन्ते अग्नेः ।उरुव्यचसो धाम्ना पत्यमानाः ॥५॥ते अस्य वृषणो दिव्या नु योना ।उषासानक्तेमं यज्ञमवतामध्वरं नः ॥६॥दैवा होतार इममध्वरं नो अग्नेर्जिह्वेमभि गृणीत ।कृणुता नः स्विष्टिम् ॥७॥तिस्रो देवीर्बर्हिरेदं सदन्त्विड़ा सरस्वती मही ।भारती गृणाना ॥८॥तन्नस्तुरीपमद्भुतं पुरुक्षु ।त्वष्टा सुवीर्यं रायस्योषं वि स्यतं नाभिमस्मे॥९ ॥स्यर्तवनस्पते अव सृजा रराण: त्मना देवेभ्यः ।अग्निर्हव्यं शमिता सूदयाति ॥१०॥अग्ने स्वाहा कृणु जातवेद इन्द्राय भागम् ।विश्वे देवा हविरिदं जुषन्ताम् ॥११॥२यजूंषि यज्ञे समिध: स्वाहाग्निः प्रविद्वानिह वो युनक्तु । तु. शौ.सं. ५.२६युनक्तु देव: सविता प्रजानन्नस्मिन् यज्ञे सुयुजः स्वाहा ॥१॥इन्द्र उक्थामदानि यज्ञे अस्मिन् प्रविद्वान् युनक्तु सुयुज: स्वाहा ।छन्दांसि यज्ञं मरुत: स्वाहा मातेव पुत्रं पिपृतेह युक्ता: ॥२॥प्रैषा निविद आप्रियो यजूंषि शिष्टाः पत्नीभिर्वहतेह युक्ताः ।एयमगन् बर्हिषां प्रोक्षणीभिर्यज्ञं तन्वाना अदितिः स्वाहा ॥३॥विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुज: स्वाहा ॥४॥त्वष्टा युनक्तु बहुधा नु रूपाण्यस्मिन् यज्ञे सुयुज: स्वाहा ॥५॥इन्द्रो युनक्तु बहुधा वीर्याण्यस्मिन् यज्ञे सुयुज: स्वाहा ॥६॥सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुज: स्वाहा ॥७॥भगो युनक्त्वाशिषो न्यस्मां अस्मिन् यज्ञे सुयुज: स्वाहा ॥८॥अश्विना ब्रह्मणेतमर्वाग् वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा ॥९॥बृहस्पते ब्रह्मणेह्यर्वाङ् यज्ञोयं स्वरितं यजमानाय धेहि स्वाहा ॥१०॥३आपः पुनन्तु वरुणः पुनात्वयं च यः पवते विश्वदानीम् । तु. शौ.सं. १.२३यज्ञो भगो अधिवक्ता विधर्ताग्निश्च नः पावयेतां सूर्यश्च ॥१॥दशशीर्षो दशजिह्व आ रभे वीरको भिषक् ।मा ते रिषं खनिता यस्मै च त्वा खनामसि ॥२॥दशरात्रे किलासस्य वीरुधा वेद भेषजम् ।इतस्तदभ्रियाखनं किलासं नाशयामि ते ॥३॥अप्स्वन्या वि होहति धन्वन्यन्याधि तिष्ठति ।किलासमन्या नीनशद् वर्चसान्या समुक्षतु ॥४॥आज्येन घृतेन जुहोमि किलासभेषजम् ।वीरुधामग्ने: सङ्काशे किलासं नानु विद्यते ॥५॥पिशङ्गरूपो भवति कल्माषमुत संदृशि ।किलास नश्येत: पर: प्र त्वा धक्ष्यामि वीरुधा ॥६॥यानि पृथगुत्पतन्ति नक्षत्राणीव संदृशि ।किलासं सर्वं नाशयन्नोघ इवाभ्येमि वीरुधा ॥७॥यदि वा पुरुषेषितात् किलास पर्याजगन् ।नमो नमस्यामो देवान् प्रत्यक्कर्तारमृच्छतु ॥८॥शीर्ष्णस्ते स्कन्धेभ्यो ललाटात् परि कर्णयोः ।ओषध्या वर्षजूतया किलासं नाशयामि ते ।स्वस्त्वा वर्ण आयत्यनराति: सहौषधिः ॥९॥ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।ओषध्या वर्षजूतया किलासं नाशयामि ते ।स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ॥१०॥ओषध्या वर्षजूतया किलासं नाशयामि ते ।स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ॥११॥पृष्टिभ्यस्ते पार्श्वभ्यां श्रोणिभ्यां परि भंसस: ।ओषध्या वर्षजूतया किलासं नाशयामि ते ।स्वस्त्वा वर्ण आयत्यनरातिः सहौषधिः ॥१२॥ऊरूभ्यां ते ऽष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।ओषध्या वर्षजूतया किलासं नाशयामि ते ।स्वस्त्वा वर्ण आायत्यनरातिः सहौषधिः ॥१३॥४सहैव वो हृदयानि सह विज्ञानमस्तु व: । तु. शौ.सं. ६.६४सहेन्द्रो वृत्रहा करत् सह देवो बृहस्पति: ॥१॥समानमस्तु वो हृदयं समानमुतो वो मनः ।समानो अग्निर्वो देवः सह राष्ट्रमुपाध्वम् ॥२॥सं जानीध्वं सहृदया: सर्वे संमनस स्थ ।नष्टो वो मन्युजीर्णेर्ष्या सह जीवाथ भद्रया ॥३॥यथा पुत्र: प्रवावदः पितृभ्यां वदति प्रियम् ।एवा यूयमन्योऽन्यस्मै जिह्वया वदत प्रियम् ॥४॥सहैव वो धान्यानि समानाः पशवश्च वः ।सह पृथिव्यां वीरुधः सह वः सन्त्वोषधीः ॥५॥सह दीक्षा सह यज्ञो विवाहो वो सहासति ।सह प्रफर्वा नृत्यन्तु सह व स्त्रिय आसताम् ॥६॥सहैव वो वीर्याणि सहान्यान् रन्धयाध्वै ।सह पतत्रिणीमिषुमन्यस्मै हेतिमस्यत ॥७॥सं वस्यामि समितिं मधुना वाचमाञ्जिषम् ।युस्माकमन्ये शृण्वन्तूदितं सङ्गते जने ॥८॥युष्मान् मित्रा वृणतां युष्मान् प्रतिजना उत ।युष्मात् ज्ञातित्वं प्रेप्सन्त्यमृतं मर्त्या इव ॥९॥सं समिद्यः समाकरं सह यूथा गवामिव॥समानमस्तु वो मनो ज्येष्ठं विज्ञानमन्वित ॥१०॥इदं यदेषां हदयं तदेषां हृदये भवत् ।अथो यदेषां हृदयं तद्वेषां हृदि श्रितम् ।समानमस्तु वो मनः श्रेष्ठं विज्ञानमन्वित ॥११॥इदं यदेषां मन एषां यानि मनांसि च ।सध्र्यगिन्द्र तत् कृणु रथे पादाविवाहितौ ॥१२॥५सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। तु. शौ.सं. १६स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् ॥१॥त्रिभिः पद्भिद्यामरोहत् पादस्येहाभवत् पुनः॥तथा व्यक्रामद्विष्वङ् अशनानशने अनु ॥२॥तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । पुरुषःपादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥पादस्यपुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।उतामृतत्वस्येश्वरो यदन्नेनाभवत् सह ॥४॥यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।मुखं किमस्य किं बाहू किमूरू पादा उच्येते ॥५॥ब्राह्मणो ऽस्य मुखमासीद् बाहू राजन्योभवत् ।मध्यं तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥विराड़ग्रे सममभवत् विराजो अधि पूरुष: ।स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥७॥यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धवि: ॥८॥तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।तेन देवा अजायन्त साध्या वसवश्च ये ॥९॥तस्मादश्वा अजायन्त ये च के चोभयादतः ।गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥गावतस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।छन्दो ह जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥११॥तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् ।पशून् तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥१२॥सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृता: ।देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१३॥अवध्नन्मूर्ध्नो देवस्य बृहतों ऽशव: सप्त सप्तती: । बृहतोराज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१४॥चन्द्रमा मनसो जातश्चक्षुः सूर्योऽजायत ।श्रोत्राद् वायुश्च प्राणश्च मुखादग्निरजायत ॥१५॥नाभ्यां आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।पद्भ्यां भूमिर्दिशः श्रोत्राङ् तथा लोकाङ् अकल्पयन् ॥१६॥(इति द्वादशार्चोनामनवमकाण्डे प्रथमो ऽनुवाकः) N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP