इमां खनाम्योषधिमदृष्टहननीमहम् । तु. शौ.सं. ३.१८
अश्वस्थावो ददाति त्वा वैरूपो वाजिनीवति ॥१॥
नादृष्टा वो जिह्वाः सन्ति न दन्ता हन्वोरधि ।
नापि मध्यं नो शिरस्ते यूयं किं करिष्यथ ॥२॥
इन्द्रामित्रा इन्द्रहता न व इहास्ति न्यञ्जनम् ।
इन्द्रो वः सर्वासां साकं शक्रस्तृणेढु वृत्रहा ॥३॥
अश्वतराङ् अयःशफान् यानिन्द्रो अधितिष्ठति ।
तैर्वोपि नह्येय ते मुखान्युदरसर्पिण: ॥४॥
अपिनह्यमदृष्टानां मुखं पादा दृतेरिव ।
उतैषां जिह्वा निष्कर्ता निर्दन्ता हन्वोरधि ॥५॥
अवधिषमसृगादां नि क्रोडादा अलिप्सत ।
अभैत्सं सर्वेषामाण्डानि ये अदृष्टाः पृथिवीक्षितः ॥६॥
रिष्यासः पौरुषासो दर्भासो वैरिणा उत ।
मौञ्जा अदृष्टा: सौर्याः सर्वे साकं नि जस्यत ॥७॥
अदृष्टानां सप्त जाता पृथिवी न शिशे मही ।
तानिन्द्रो बाहुभ्यां सर्वाञ्छक्रो अपावयत् ॥८॥
ये व: सन्ति सप्त जाता अदृष्टा: पुरुषादिन: । .
ग्राव्णांशूनिव सोमस्य तान् सर्वान् प्र मृणीमसि ॥९॥
य आत्मजा ये वस्तिजा य ऋषा य उ तोदिन: ।
तेभ्य: खनाम्योषधिं येभ्यो बिम्बीवध: कृत: ॥१०॥
अदृष्टभ्यस्तरुणेभ्यो युवद्धद्य स्थविरेभ्यः ।
अहार्षमुग्रामोषधिं येभ्यो बिम्भीवधः कृतः ॥११॥
ये च दृष्टा ये चादृष्टास्तितीला: शलुनाश्च ये ।
तानग्ने सर्वान् सं दह क्रिमीननेजतो जहि ॥१२॥


शीतिजला इति शीता वाता उपा वन्तु ।
हिमेनाग्निरावृतो हिमेनाग्नि: परीवृत: ॥१॥
यत्त्वा देवा अपारुन्धन्ना समुद्रमधावय: ।
हिमो जघान गोअजं हिमो अक्षं हिमश्छदिः ॥२॥
हिमादधि प्र यामसि हिमे अद्य विमोचनम् ।
यमवटं शतदरमवैन्ध सप्तवध्रये ॥३॥
अवका तत्र रोहतु खदे परि बिलं तव॥
अर्चिष्टे अग्ने प्रथममङ्गाराङ् अपराङ् उत ॥४॥
गृभ्णामि ब्रह्मणा नाम धामधाम परुष्परु: ।
शीतिका नाम ते माता जलाषो नाम ते पिता ॥५॥
इह त्वमन्तरा भव बाहीकमस्तु यद्रप: ।
हिमे जातोदके वृद्धा सिन्धुतस्पर्याभृता ।
तया ते अग्रभं नामाश्वमिवाश्वाभिधान्या ॥६॥
आमा नामास्योषधे तस्यास्ते नाम जग्रभ ।
अगस्त्यस्य पुत्रासो मा वि धाक् पुरुषान् मम ॥७॥
मा नो अग्ने तन्वं मा वायांसि रीरिषः ।
यं त्वा समुद्रज वयमारोहाम स्वस्तये ॥८॥
दिवस्तारा अवापद्रन् धारात् समुद्रिया अपः ।
हिरण्यकुम्भो हरितो ऽवकाभिः परिवृतस्तेनाग्निं शमयामसि ॥९॥
शमयाम्यर्चिरग्नेः शिवस्तपतु मा वि धाक् ।
गृभीते द्यावापृथिवी गृभीतं पार्थिवं रजः ॥१०॥
नि मुञ्जेषु यदुदकं नि नडेषु यदन्तरम् ।
यत् समुद्रे यत् सिन्धौ तेनाग्निं शमयामसि ॥११॥
वेतसस्यावकाया नड़स्य वीरणस्य च ।
रोहितकस्य वृक्षस्याग्निं शमनमुद्भरे ॥१२॥
आयतीरुदहार्यो वि ते हरन्तु यद्रपः ।
परायतीः परावतः परा हरन्तु यद्रपः ॥१३॥
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।
शीतिके शीतमित् करो हिमिके हिममित् कर:॥१४॥


अक्षण्वता लाङ्गलेन पद्वता पतयिष्णुना।
लाङ्गूलगृह्य चर्कृषुर्वृकेण यवमश्विना ॥१॥
देवा एतं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥२॥
हिरण्ययं कलशं सुदानवो दिव्यया सरघया कृतम् ।
अव भृतमश्विना यवं तद् युवं मधु चक्रथुः ॥३॥
क्रिशावेतदजयतमश्विना सारघं मधु।
ततो यवो व्यरोहत्सोऽभवद् विषदूषण: ॥४॥
युवार्वान् सारघयाः प्रखिद्य मध्वाभरत् ।
ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ॥५॥
यद् वृकं मधुपावानमवामयतमश्विना ।
ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ॥६॥
कैरण्डा नाम सरसो वृकस्य वम्या अधि ।
ततो यवो व्यरोहत्सो ऽभवद् विषदूषणः ॥७॥
यदस्य भरथो मधु सरघा सथ्वच्छिनत् ।
सद्यस्तदर्वतो युवं पुनरा दत्तमश्विना ॥८॥
यो यवं दिग्धविद्धो अहिदष्ट उपासरत् ।
तीर्थ रध्रमिव मज्जन्तं उत्तं भरतमश्विना ॥९॥
यं वहन्त्यष्टायोगाः षङयोगा यं चतुर्गवाः ।
स ते विषं वि बाधतामुग्रो मध्यमशीरिव ॥१०॥


यस्य यव प्रसर्पस्यङ्गमङ्गं परुष्परु: ।
तस्माद् यक्ष्मं वि बाधस्योग्रो मध्यमशीरिव ॥१॥
शकलं च न ते यवान्या रुहन्त्योषधी: ।
यव इद् यावयाद्गोरश्वात् पुरुषाद् विषम् ॥२॥
यवो राजा यवो भिषक् यवस्य महिमा महान् ।
यवस्य मन्थं पपिवानिन्द्रश्चकार वीर्यम् ॥३॥
आा भरामृतं घृतस्य पुष्पमा भर ।
अनभ्रिखात ओषध इदं दूषय यद् विषम् ॥४॥
य आयन्ति दिग्धविद्धाः शूद्रा राजन्या उत ।
चक्षुर्मे सर्व आादृश्य ते यन्त्यगदाः पुन: ॥५॥

१०
जीवातवे न मर्तवे शिरस्त आ रभामहे ।
रसं विषस्य नाविदमुद्न: फेनमदन्निव ॥१॥
भूम्या मध्याद्दिवो मध्याद् भूम्या अन्तादथो दिवः ।
मध्ये पृथिव्या यद् विषं तद् वाचा दूषयामसि ॥२॥
अश्वत्थे निहितं विषं कपाले निहितं विषम् ।
शिलाया जज्ञे तैमात: प्रथमो विषदूषणी ॥३॥
विषस्याहं वैन्दकस्य विषस्य दार्व्यस्य च ।
अथो विषस्य स्वैत्नस्य समानीं वाचमग्रभम् ॥४॥
तदिद् वदन्त्यर्थिन उत शूद्रा उतार्याः ।
विषाणां विष्वगर्थानां सर्वथैवारसं विषम् ॥५॥
परुषस्त्वामृतकर्णो विष प्रथममावयत् ।
यथा ह तं नारोपयस्तथास्यरसं विषम् ॥६॥
यद् वो देवा उपजीका उद्देहं शुषिरं ददुः ।
तत्रामृतस्यासिक्तं तच्चकारारसं विषम् ! ॥७॥
शकुन्तिका मे अब्रवीद विषपुष्पं धयन्तिका ।
न रोपयति न मादयत्यरसं शार्वीयं विषम् ॥८॥
अत्यपप्ताम दुर्गाणि शारीः शकुनयो यथा ।
इहेन्द्राणीं वरुणानीं सिनीवालीं क्रकोढयाम् ।
ग्राहां शूरपुत्रां देवीं याचामो विषदूषणम् ॥९॥
आलकं व्यालकं व्यावं जाल्म जिगीमहे ।
जरद्विषं युवाभिषक् वयमित् सासहामहै ॥१०॥
अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत् ।
अस्थुर्विषस्यारोपयोऽनड्वाह: क्रिशा इव ॥११॥
यावत् सूर्यो वितपति यावच्चाभिविपश्यति । .
तेनाहमिन्द्रदत्तेन कृणोम्यरसं विषम् ।
तद्विषमरसं विषमधोभागरसं विषम् ॥१२॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP