३६
ये वारुणा उत नैर्ऋता वनस्पतीनां वीरुधां च पाशा:।
ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ॥१॥
ये अन्तरिक्षे दिवि ये च पाशा अन्ने विचृता बहुधा सिनन्ति ।
ये पशुभ्यो अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ॥२॥
यन्मानुषं मनुष्या: शपन्ते यां वां होत्रां पित्र्यामारभन्ते ।
समाम्यो वरुणो यं जघान स त्वा न हिंसाञ्छिवतातिरस्तु ते ॥३॥
अपः प्रगाद्यदि वा समामिषे अग्निमारेमिषे यदि वा समिद्धम् ।
विद्वानविद्वाननृतं यदुवक्थ तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ॥४॥
यत् प्रतीच्यां दृषदपिष्टाङ् आमपेषाङ् आमपात्रे पपाथ।
हीन: सत्येनानृतं यदुवक्थ तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ॥५॥
यं बाणवन्तं सुदिहं संभरन्ति यं वा हस्तं ब्राह्मणस्यारभन्ते ।
समाम्यो वरुणो य आजगाम तस्य
श्मशानादधि लोष्ट्र आभृतः स त्वा न हिंसाञ्छिवतातिरस्तु ते ॥६॥आमृतः
यं ग्रावाणमारभन्ते येनासूनभिषुण्वन्ति सोमम् ।
यद्वा धनं धनकामो निरेमिषे क्षेत्रं गामश्वं पुरुषं वो जिगाय
तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ॥७॥
अपः प्रगाद्यदि वा व्यामिषे अग्निमारेमिषे यदि वा समिद्धम् ।
जाम्या हस्तं कृतमारेमिषे धनुर्वोत्ततमिति चक्रमिथ ।
मन्युर्वो राज्ञो वरुणस्यासिसक्त स त्वा न हिंसाञ्छिवतातिरस्तु ते ॥८॥

३७
या ते प्रजापिहिता पुराभूद् योनिर्वा मुग्धा निहिता पिशाचै:।
आस्नानं वा यदभितिष्ठाथ घोरं सर्व तत्ते ब्रह्मणा सूदयामि ॥१॥
यद्यस्याः प्रजा वरुणेन गुष्पिता दुर्णामानो वार्त्वियमस्याहरन्ति ।
द्वेषात् सपत्न्याद् यदि चकुरस्या अयं ता नाष्ट्रा अप हन्त्वग्निः ॥२॥
अस्याः स्त्रिया यदि लक्ष्मीरपुत्र्या गर्भो वास्या यातुधानैः पराभृतः ।
दुष्वप्न्यं वा यत् स्वपती ददर्शेन्द्राग्नी तत् कृणुतां भद्रया पुनः ॥३॥
देवैनसाद् यदि पुत्रं न विन्दसे मनुष्याणां वा त्वा शपथोरराध ।
पितृभिर्वा ते यदि सूतः परिष्ठित इदं तं निष्कृण्मो जनयासि पुत्रम् ॥४॥
वैश्वानरो जन्मना जातवेदा: प्रजापतिः सिञ्चन्तु रेतो अस्याम् ।
बाधतां द्वेषो निर्ऋतिं पराचैः पुत्रिणीमिमां प्रस्वं कृणोतु ॥५॥
इह प्रजामग्निरस्यै दधात्वादित्येभिर्वसुभिः संविदानः ।
विश्वे देवा हवमा यन्तु म इमं पुत्रो अस्यां जायतां वीर्यावान् ॥६॥
येन देव्यदितिर्गर्भमादधे येन प्रजा असृजत प्रजापतिः ।
तेनाहमस्यै हविषा जुहोमि यथा पुमांसं जनयाति पुत्रम् ॥७॥
वन्वे ते पुत्रं परि देवताभ्यो अनु मन्यन्तां मरुतः पृश्निमातर: ।
गर्भस्त्वा दशमास्यः प्र विशतु कुमारं जातं पिपृतामुपस्थे ॥८॥

३८
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥१॥
मुनयो वातरशनाः पिशङ्गा वसते मलाः ।
वातस्यानु ध्राजिं यन्ति यद् देवासो अयुक्षत ॥२॥
उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । उनमदिता
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥३॥
अन्तरिक्षेण पतति स्वर्भूतावचाकशत् ।
मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥४॥
इन्द्रस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
उभा समुद्रावा क्षयति सद्यः पूर्वमुतापरम् ॥५॥
गन्धर्वाणामप्सरसां देवानां चरणे चरन् ।
मुनिः केतस्य संविद्वान् सखा स्वादुर्मदिन्तमः ॥६॥
वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनंनमा ।
मुनिर्विषस्य पात्रेण यद्रुद्रेणापिबत् सह ॥७॥
संयुक्ते द्यावापृथिवी तिष्ठन्ती अविचर्त्ये ।
केशेनैकस्य देवस्य व्यष्टभ्नाच्छचीपतिः ॥८॥

३९
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।
सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥१॥
तद्धि वयं वृणीमहे वरुण मित्रार्यमन्।
यन्नो निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥२॥यत्रो
ते नूनं नो यूयमूतये वरुण मित्रार्यमन्।
नयिष्ठा नो नेषिण स्थ पर्षिष्ठा: पर्षिणो अति द्विषः ॥३॥
शुनमस्मभ्यमूतये वरुण मित्रार्यमन् ।
शर्म यच्छाथ सप्रथ आदित्यासो यदीमहे अति द्विषः ॥४॥
आदित्यासो अति सृधो वरुणो मित्रो अर्यमा ।
रुद्रं मरुद्भिरुग्रं हुवेमेन्द्रमग्निं स्वस्तये अति द्विषः ॥५॥
नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।
अतिविश्वानि दुरिता राजानश्चर्षणीनामति द्विष: ॥६॥
यूयं विश्वं परि पाथ वरुण मित्रार्यमन् ।
युष्माकं शर्मणि प्रिया स्याम सुप्रणीतयोऽति द्विषः ॥७॥
यथा ह त्यद्वसवो गौर्यं चित्यद्विषताममुञ्चता यजत्राः ।
एवोष्वस्मन् मुञ्चता व्यंह: प्र तार्थग्ने प्रतरं न आयुः ॥८॥

४०
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्यां प्रसूतो ब्राह्मणेभ्यो निर्वपामि ।
स मे मा क्षेष्ट सदमस्यमानः पितॄणां लोके ॥१॥
अनुमतं पृथिव्येमं पचाम्यनु मे द्यौर्मन्वतामन्वन्तरिक्षम् ।
अनुमन्यतामदितिर्देवपुत्रा इमे स्वर्गे लोके अस्तु ।!२॥
ब्रह्मणोखामधि दधाम्यग्नौ भूम्यां त्वा भूमिमधि धारयामि ।
अग्निः पचन् रक्षत्वोदनमिमं
रक्षः पिशाचान् नुदतां जातवेदाः ॥३॥
अच्युतमक्षितं विश्वदानीमुत्समिव सदमक्षीयमाणम् ।
पिता पितामह उत यस्तृतीयस्त एनं भागमुप जीवन्त्वत्र ॥४॥
प्रपीनमक्षितं विश्वदानीं सोममिव पुनराप्यायमानम् ।
पुत्रः पौत्र उत यः प्रपौत्रस्तेषामस्तु निहितो भाग एष: ॥५॥
मा ते जारीन् निहितो भाग एष मानुषन्मानुषद् गुप्तो अस्तु ।
वैवस्वते नि दधे शेवधिमेतं तस्मोत् सृजतु मह्यमेव ॥६॥
पुन: पूर्यतां यदहंत्वस्यौदनोऽयं तिष्ठत्वक्षितः सदा ।
वैवस्वतेन गुप्तो अस्तु राज्ञा ममैतोरुप जीवन्त मे स्वाः ॥७॥
शतधारं सहस्रधारमुत्समक्षितं व्यचमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानमनपस्फुरन्तमुपासीय सुकृतां यत्र लोकः ॥८॥
(इति अष्टर्चोनाम पञ्चमकाण्डे अष्टमो अनुवाकः)
(इत्यथर्ववेद पैप्पलाद संहितायां अष्टर्चोनामपञ्चमकाण्ड:समाप्तः

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP