नमः पिशङ्गबाह्वै सिन्धौ जाताया उग्रायै ।
यो अस्यै नम इत् करदपेदस्य गृहादय ॥१॥
अपेहि नो गृहेभ्यो ऽपेहि वत्सतन्त्याः ।
आत्मानमत्र रोत्स्यस्यव रोह महानसात् ॥२॥
हा अम्ब सुहूतले अथो है षामनन्तमे ।
पुत्रो यस्ते पृश्निबाहुस्तमु त्वं सामनं कृधि ।
अथो दुहितरं नप्त्रीमथो त्वं सामना भव ॥३॥
भूतपतिर्निरजत्विन्द्रश्चेत: सदान्वाः ।
गृहस्य बुध्न आसीनास्ता वज्रेणाधि तिष्ठतु ॥४॥
अपेतेतः सदान्वा अहिंसन्तीरिमं गृहम् ।
धेनुर्वा अत्र य स्थास्यत्यनड्वान् वेरया सह ॥५॥
या सहमाना चरसि सासहान इव ऋषभः ।
सदान्वाघ्नीं त्वा वयं जैत्रायाच्छा वदामसि ॥६॥
सहस्व नो अभिमातिं सहस्व पृतनायतः ।
सहस्व सर्वा रक्षांसि सहमानास्योषधे ॥७॥
त्वं व्याघ्रान् सहसे त्वं सिंहाँ उभयादतः ।
मक्षाश्चित् कृण्वाना मधु त्वं सहस ओषधे ॥८॥


इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूमिनष्टौ ।  
तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमस्य धास्योः ॥१॥
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विषीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥२॥
प्र यो जज्ञे विद्वाङ अस्य बन्धुं विश्वानि देवो जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज्जभार मध्यान् नीचादुच्चात्स्वधा अभि प्र तस्थौ ॥३॥
महान् मही अस्कभायद्विजातो द्यां द्वितः पार्थिवं च रजः ।
स बुध्न्यादाष्ट जनुषाभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट् ॥४॥
नूनं तदस्य गव्यं हिनोत महो देवस्य पूर्व्यस्य महि ।
एष जज्ञे बहुभिः साकमित्था पूर्वादर्द्दादविथुरश्च सन्नु ॥५॥
स हि दिवः स पृथिव्या ऋतेष्ठा महि क्षामन् रजसी वि ष्कभायति।
अहर्यच्छुक्रं ज्योतिषो जनिष्टाधा द्युमन्तो वि वसन्त्वरिप्राः ॥६॥
एवाथर्वा पितरं विश्वदेवं बृहस्पतिर्नमसा वोचदच्छ ।
त्वं विश्वस्य जनिता धास्यग्रे कविर्देवान्न दभाय स्वधावः ॥७॥
मूर्ध्ना यो अग्रमभ्यर्त्योजसा बृहस्पतिर्मा विवासन्तु देवाः ।
भिनद् बलं वि मृधो दर्दरीति कनिक्रदद्गाः स्वरपो जिगाय ॥८॥


उदपप्तदसौ सूर्यः पुरुदृष्टो अदृष्टहा ।
उदायन् रश्मिभिर्हन्तूदायन्नरसाङ अक: ॥१॥
न्यमुचदसौ सूर्यो विश्वदृष्टी अदृष्टहा ।
निम्रोचन् रश्मिभिर्हन्तु निम्रोचन्नरसाङ अकः ॥२॥
ये च दृष्टा ये चादृष्टा उभयेहविष्यव: ।
तेषां वो अग्रभ नाम सर्वे साकं नि जस्यत ॥३॥
अदृष्टहननी वीरुदमितौजा विषासहि ।
चुकाकणि त्वं जज्ञिषे सादृष्टां जातशो जहि ॥४॥
जहि ज्येष्ठमदृष्टानां सर्पाणां मोघचारिणाम् ।
क्रिमीणां सर्वा जातानि पौञ्जष्ट इव यवं मृण ॥५॥
यश्च तोदो यध सर्प एकादृष्टश्च यो वृषा ।
चुकाकणि त्वं तान् वृश्च वृक्षं परशुमानिव ॥६॥
सं वृश्चैनांश्चुकाकणि वृक्षं परशुमानिव ।
क्रिमीणां सर्वा जातानि सं दहाग्निरिवोलपम् ॥७॥
मेथिष्ठाग्निरघलस्त्विषीमान् क्रिमीणां जातानि प्र दुनोत सर्वा ।
बृहस्पतेर्मैदिने जातवेदा अदृष्टान् हन्तु दृषदेव माषान् ॥८॥


ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।  
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।
अपाञ्चो यन्तु प्रबुधा दुरस्यवोऽमैषां चित्तं बहुधा वि नश्यतु ॥२॥
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥३॥
मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मामिह ॥४॥
मह्यं देवा द्रविणमा यजन्तां ममाशीरस्तु मम देवहूतिः॥
दैवा होतार: सनिषं न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥
देवी: षडुर्वीररुणस्कराथ विश्वे देवास इह मादयध्वम् ।
मा हास्महि प्रजया मा धनेन मा रधाम द्विषते सोम राजन् ॥६॥
उरुव्यचा नो महिषः शर्म यच्छादस्मिन् वाजे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥७॥
धाता विधर्ता भुवनस्य यस्पतिः सविता देवो अभिमातिषाहः ।
बृहस्पतिरिन्द्राग्नी अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात् ॥८॥
इहार्वाञ्चमति ह्वय इन्द्रं जैत्राय जेतवे ।
अस्माकमस्तु केवल इत: कृणोतु वीर्यम् ॥९॥
अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।
इमं नो यज्ञं विहवे जुषस्वास्माकं कृण्मो हरिवो मेदिनं त्वा ॥१०॥
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवेम शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवान् पात्चिन्द्रः ॥११॥
तिस्रो देवीर्महि मे शर्म यच्छन् प्रजायै मे तन्वे यच्च पुष्टम् ।
मां विशः संमनसो जुषन्तां पित्र्यं क्षेत्रं प्रति जानात्वस्मान् ॥१२॥
यो नः शक्राभिमन्युनेन्द्रामित्रो जिघांसति ।
त्वं तं वृत्रहञ्जहि वस्वस्मभ्यमा भर ॥१३॥
ये न: शपन्त्यप ते भवन्विन्द्राग्निभ्यामप बाधामहे तान् ।
आदित्या रुद्रा उपरिस्पृशो मामुग्रं चेत्तारमधिराजमक्रन् ॥१४॥


पृथिवी वशा साग्निं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥१॥
अन्तरिक्षं वशासा वायुं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥२॥
द्यौर्वशासा सूर्यं गर्भं दथे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥३॥
ऋग्वशा सा साम गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥४॥
दक्षिणा वशा सा यज्ञं गर्भं दथे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥५॥
विड् वशा सा क्षत्रियं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥६॥
वाग् वशा सा परमेष्ठिनं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥७॥
वशा वशा सा राजन्यं गर्भं दथे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥८॥
समा वशा सा संवत्सरं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ॥९॥
(इति अष्टर्चोनामपञ्चमकाण्डे प्रथमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP