संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|अष्टर्चोनाम पञ्चमकाण्डः| ६ ते १० अष्टर्चोनाम पञ्चमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० पञ्चमकाण्डः - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६सप्त सूर्या दिवमनुप्रविष्टास्तान् पथा वान्वेतु दक्षिणावान् ।ते ऽस्मै सर्वे घृतमा तपन्त्यूर्जं दुहाना अनपस्फुरन्त: ॥१॥ आतपन् क्षयति नीच्यादा सव्या अधि निष्टपन् ।अधा यत् पत्त्रः सूर्य उदेति बृहतीरनु ॥२॥आतप्ता पितॄन् विद्म दस्यू निष्टप्ता वयम् ।गुहा ये ऽन्ये सूर्या: स्वधामनु चरन्ति ते ॥३॥द्यौ: सचते ऽपराञ्जनास: पञ्चान्ये परो दिव आ क्षियन्ति ।तां ब्रह्म वेदं बृहदा विवेश यस्तान् प्रवेद प्रथरमतर्यतः ॥४॥यो ददाति यो ददते यो वा निधीञ् श्रद्दधानो निधत्ते ।यमो वैवस्वतान् राजा सर्वान् रक्षत शेवधीन् ॥५॥मा विदन् पर्यायिणो ये दक्षिणाः परिमुष्णन्ति दत्तम् ।सुगेन तान् पथा सर्वान् यमो राजाति नेषत ॥६॥येन पथा वैवस्वतो यमो राजेतो ययुः ।अग्निर्नस्तेन नयतु प्रजानन् वैश्वानरः पथिकृत् विश्वगृष्टिः ॥७॥महि ज्योतिर्निहितं मर्त्येषु येन देवासो अतरन्नराती।तेनेमं सेतुमति गेष्म सर्वे वैश्वानरं ज्योतिरसीव देवा: ॥८॥उद् वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥९॥आरोको भ्राजः पटरः पतङ्ग: स्वर्णरो ज्योतिषीमान् विभासः ।तेऽस्मै सर्वे घृतमातपन्त्यूर्ज दुहाना अनपस्फुरन्त: ॥१०॥७समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु । महर्षभस्य नदतो नभस्वतो वाश्रा अपः पृथिवीं तर्पयन्तु ॥१॥समीक्षयति विश्वग्वातो नभांस्यपां वेगास: पृथगुत् पतन्तु।वर्षस्य सर्गामभि यन्तु भूमिं पृथग् जायन्तामोषधयो विश्वरूपाः ॥२॥अभि क्रन्द स्तनयार्दयोदधिं भूमिंपर्जन्य पयसा समङ्धि । पर्यन्यत्वया वर्षं बहुलमेतु सृष्टमाशारैषी कृशगुरेत्वस्तम् ॥३॥उदीरयत मरुतः समुद्रतस्त्वेषार्का नभ उत् पातयन्तु ।प्र वर्षन्ति तमिषाः सुदानवोऽपां रसैरोषधयः सचन्ताम् ॥४॥गणास्त्वोप गायन्तु मारुताः पर्यन्य घोषिणः पृथक् ।सर्गा वर्षस्य वर्षतः सृजन्तु पृथिवीमभि ॥५॥समवन्तु सुदानव उत्सा अजगरा उत ।वाता वर्षस्य वर्षतः प्र वान्तु पृथिवीमनु ॥६॥वातो विद्युदभ्रं वर्षं समवन्तु सुदानवः।प्र प्यायस्व प्र पिन्वस्व सं भूमिं पयसा सृज ॥७॥अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।स नो वर्ष वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥८॥आशामाशां वि द्योततां वाता वान्तु दिशो दिशः ।मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमभि ॥९॥प्रजापति: सलिलादा समुद्रादाप ईरयन्नुदधिमर्दयाति।प्र प्यायतां विष्णो अश्वस्य रेतो ऽर्वाङ् एतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता न: ॥१०॥स्वसन्तु गर्गरा अपामव नीचीरपः सृज ।वदन्तु पृश्निबाहवो मण्डूका इरिणानु॥११॥संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।वातं पर्यन्य जिन्वतां प्र मण्डूका अवादिषुः ॥१२॥उपप्रवद मण्डूकि वर्षमा वद तादुरि ।मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पद: ॥१३॥महान्तं कोशमुतचाभि षिञ्च सविद्युतं भवतु वातु वात: ।तन्वतां यज्ञं बहुधा विसृष्टमानन्दिनीरोषधयो भवन्तु ॥१४॥८यावती द्यावापृथिवी वरिम्णा यावद्वा सप्त सिन्धवो वितष्टुः। वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥१॥सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत् ।नारोपयो नमादय उतास्मा अभवत् पितुः ॥२॥यां त्वास्थत् पञ्चाङ्गुलिर्वक्रा चिदधि धन्वनः ।अपस्कम्भस्य बाह्वोर्निरवोचमहं विषम् ॥३॥शल्याद्विषं निरवोचमञ्जनात् पर्णधेरुत ।अपाष्ठाच्छृङ्गात् कुर्मलान्निरवोचमहं विषम् ॥४॥अरसस्त इषो शल्यो ऽथो ते ऽरसं विषम् ।उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥५॥ये ऽपिशं ये ऽदिहं य आस्यं ये अवासृजन ।सर्वे ते वध्रयः सन्तु वध्रिर्विषगिरिष्कृतः ॥६॥वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥७॥वारिदं वारयातै वरुणावत आभृतम्।तत्रामृतस्यासिक्तं तच्चकारारसं विषम् ॥८॥९खादिरेण शललेनाथो कङ्कतदन्त्या ।अथो विषस्य यद्विषं तेन पापीरनीनशम् ॥१॥कित्या शतपर्वणा सहस्राक्षेण चर्मणा ।तीक्ष्णाभिरभ्रिभिर्वयं निरजाम: सदान्वा: ॥२॥सह: सह: सत्यसीत: कण्वा: परो ऽनुदत् ।इमा या अधुना गता याश्चेह ग्रहणी: पुरा ॥३॥नता इत्था नता इहावमासतोखेव शृङ्गवच्छिरः ।सदान्वा ब्रह्मणस्पते तीक्ष्णशृङ्गोदृषन्निहि ॥४॥वितेरुपन्था श्वश्रे बिभिदे ते ऽगदोहनी ।दधौ ते अद्य गौः कण्वे परेह्यवरं मृणे ॥५॥यास्तेङ्के तिष्ठन्ति या वलीके याः प्रेङ्खे प्रेङ्खयत उत या नु घोराः ।या गर्भान् प्रमृशन्ति सर्वाः पापीरनीनशम् ॥६॥याश्चेलं वसत उत या नु दूरशं नीलं पिशङ्गमुत लोहितं याः।या गर्भान् प्रमृशन्ति सर्वाः पापीरनीनशम् ॥७॥आखिदन्तीर्विखिदन्ती: प्राणमस्यापि नह्यत ।दुर्णाम्नीः सर्वाः संगत्य ममुष्योच्छिषदकिंचन ॥८॥१०इयं या मुशलाहता दृषत्पिष्टा विषासुता ।तपुरग्निस्तपुर्द्यौस्तपुत्वं सुरे भव ॥१॥विषं ते तोक्म रोहयन्तो ऽब्रुवन् विषं कुम्भे ऽव स्रव ।विषं त आमनसुरे विषं त्वं हस्त आहिताविषं प्रतिहिता भव ॥२॥सिंहस्ते अस्तु तण्डुलो व्याघ्र: पर्योदनम् ।पृदाकूरस्तु नग्नहुर्वृकस्य हृदि सं स्रव ॥३॥इयं या पात्र आसुता शस्य: स्रक्वा विघस्वती ।वराहमन्युरजन्युत्तानपादमर्दय ॥४॥उदर्दनी प्रच्यवनी पांसुपिङ्गा विघस्वरी ।उत्खातमन्युरजनि यत् पश्चात्तत् पुरस्कृधि ॥५॥विषं ते पवने सुरे रुधिरं स्थाने अस्तु ते ।मथ्नं त्वन्यो अन्यस्मा इषुधींस्तद् धनुस्त्वत् ॥६॥विषपावानो रुधिराश्चरन्ति पातारो मर्तास्तवसे सुर इमे।हतासो अन्ये योधयन्त्यन्यास्तमिच्छंस महिमानं सुरायाः ॥७॥तान् वीरुधो विस्रवो बलेनोत् पातय मादय योधनायै ।भिन्नारत्निर्भिन्नशीर्ष्णा समृच्छतामार्तचेलो विस्रवं ते सुरापः ॥८॥विषासुतां पिबत जर्हषाणा अस्ना संसृष्टां रुधिरेण मिश्राम् ।छिन्नहस्तश्चरति ग्रामे अन्तर्वैरहत्यानि बहुधा पणायन् ॥९॥असिमतीमिषुमतीमुन्नयामि सतादधि ।मादयाभि मादया हि रवैनां प्र रोपयान्योऽन्यस्य मोच्छिषम् ॥१०॥(इति अष्टर्चोनामपञ्चमकाण्डे द्वितीयोऽनुवाकः) N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP