चतुर्थोऽध्यायः - चतुर्थः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


सम्पद्याविहाय स्वेनशब्दात् ॥१॥
मुक्तः प्रतिज्ञानात् ॥२॥
आत्मा प्रकरणात् ॥३॥
अविभागेन दृष्टत्वात् ॥४॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥५॥
चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥६॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥७॥
सङ्कल्पादेव च तच्छ्रुतेः ॥८॥
अत एव चानन्याधिपतिः ॥९॥
अभावं बादरिराह ह्येवम् ॥१०॥
भावं जैमिनिर्विकल्पाम्नानात् ॥११॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥१२॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥१३॥
भावे जाग्रद्वत् ॥१४॥
प्रदीपवदावेशः तथा हि दर्शयति ॥१५॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥
जगद्व्यापारवर्जम् ॥१७॥
प्रकरणादसन्निहितत्वाच्च ॥१८॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥१९॥
विकारावर्ति च तथा हि दर्शयति ॥२०॥
स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॥२१॥
भोगमात्रसाम्यलिङ्गाच्च ॥२२॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥२३॥

इति ब्रह्मसूत्रेषु
चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः

॥ इति चतुर्थोऽध्यायः॥

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP