संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्राणि|चतुर्थोऽध्यायः| द्वितीयः पादः चतुर्थोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः चतुर्थोऽध्यायः - द्वितीयः पादः ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत. Tags : badarayanbrahma sutraniबादरायणब्रह्म सूत्राणि द्वितीयः पादः Translation - भाषांतर वाङ्ग्मनसि दर्शनाच्छब्दाच्च ॥१॥अत एव च सर्वाण्यनु ॥२॥तन्मनः प्राण उत्तरात् ॥३॥सोऽध्यक्षे तदुपगमादिभ्यः ॥४॥भूतेषु तच्छ्रुतेः ॥५॥नैकस्मिन् दर्शयतो हि ॥६॥समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥तदपीतेः संसारव्यपदेशात् ॥८॥सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥९॥नोपमर्देनातः ॥१०॥अस्यैव चोपपत्तेरूष्मा ॥११॥प्रतिषेधादिति चेन्न शारीरात् ॥१२॥स्पष्टो ह्येकेषाम् ॥१३॥स्मर्यते च ॥१४॥तानि परे तथा ह्याह ॥१५॥अविभागो वचनात् ॥१६॥तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारोविद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति योगाच्च हार्दानुगृहीताः शताधिकया ॥१७॥रश्म्यनुसारी ॥१८॥निशि नेति चेन्न संभन्धात् ॥१९॥यावद्देहभावित्वाद्दर्शयति च ॥२०॥अतश्चायनेऽपि दक्षिणे ॥२१॥योगिनः प्रति स्मर्यते स्मार्ते चैते ॥२२॥इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषुचतुर्थाध्यायस्य द्वितीयः पादः समाप्तः N/A References : N/A Last Updated : March 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP