संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्राणि|चतुर्थोऽध्यायः| प्रथमः पादः चतुर्थोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः चतुर्थोऽध्यायः - प्रथमः पादः ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत. Tags : badarayanbrahma sutraniबादरायणब्रह्म सूत्राणि प्रथमः पादः Translation - भाषांतर आवृत्तिः असकृदुपदेशात् ॥१॥लिङ्गाच्च ॥२॥आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥न प्रतीके न हि सः ॥४॥ब्रह्मदृष्टिरुत्कर्षात् ॥५॥आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥६॥आसीनस्सम्भवात् ॥७॥ध्यानाच्च ॥८॥अचलत्वं चापेक्ष्य ॥९॥स्मरन्ति च ॥१०॥यत्रैकाग्रता तत्राविशेषात् ॥११॥आ प्रायणात्तत्रापि हि दृष्टम् ॥१२॥तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौतद्व्यपदेशात् ॥१३॥इतरस्याप्येवमसंश्लेषः पाते तु ॥१४॥अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥१५॥अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१६॥अतोऽन्यदपीत्येकेषामुभयोः ॥१७॥यदेव विद्ययेति हि ॥१८॥भागेन त्वितरे क्षपयित्वा सम्पत्स्यते ॥१९॥इति ब्रह्मसूत्रेषुचतुर्थाध्यायस्य प्रथमः पादः समाप्तः N/A References : N/A Last Updated : March 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP