संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्राणि|प्रथमोऽध्यायः| तृतीयः पादः प्रथमोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः प्रथमोध्यायः - तृतीयः पादः ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत. Tags : badarayanbrahma sutraniबादरायणब्रह्म सूत्राणि तृतीयः पादः Translation - भाषांतर द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥मुक्तोपसृप्यव्यपदेशात् ॥२॥नानुमानमतच्छब्दात् ॥३॥प्राणभृच्च ॥४॥भेदव्यपदेशात् ॥५॥प्रकरणात् ॥६॥स्थित्यदनाभ्यां च ॥७॥भूमा सम्प्रसादादध्युपदेशात् ॥८॥धर्मोपपत्तेश्च ॥९॥अक्षरमम्बरान्तधृतेः ॥१०॥सा च प्रशासनात् ॥११॥अन्यभावव्यावृत्तेश्च ॥१२॥ईक्षतिकर्मव्यपदेशात् सः ॥१३॥दहर उत्तरेभ्यः ॥१४॥गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥१५॥धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१६॥प्रसिद्धेश्च ॥१७॥इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१९॥अन्यार्थश्च परामर्शः ॥२०॥अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥अनुकृतेस्तस्य च ॥२२॥अपि स्मर्यते ॥२३॥ [पाठभेद : अपि च स्मर्यते]शब्दादेव प्रमितः ॥२४॥हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥तदुपर्यपि बादरायणः संभवात् ॥२६॥विरोधः कर्मणीति चेदनेकप्रतिपत्तेर्दर्शनात् ॥२७॥शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥२८॥अत एव च नित्यत्वम् ॥२९॥समाननामरूपत्वाच्चावृत्तावप्यविरोधोदर्शनात्स्मृतेश्च ॥३०॥मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥३१॥ज्योतिषि भावाच्च ॥३२॥भावं तु बादरायणोऽस्ति हि ॥३३॥शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३४॥क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥संस्कारपरामर्शात्तदभावाभिलापाच्च ॥३६॥तदभावनिर्धारणे च प्रवृत्तेः ॥३७॥श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥कम्पनात् ॥३९॥ज्योतिर्दर्शनात् ॥४०॥आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥४१॥सुषुप्त्युत्क्रान्त्योर्भेदेन ॥४२॥पत्यादिशब्देभ्यः ॥४३॥इति ब्रह्मसूत्रेषुप्रथमाध्यायस्य तृतीयः पादः समाप्तः N/A References : N/A Last Updated : March 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP