संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्राणि|प्रथमोऽध्यायः| द्वितीयः पादः प्रथमोऽध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः प्रथमोध्यायः - द्वितीयः पादः ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत. Tags : badarayanbrahma sutraniबादरायणब्रह्म सूत्राणि द्वितीयः पादः Translation - भाषांतर सर्वत्र प्रसिद्धोपदेशात् ॥१॥विवक्षितगुणोपपत्तेश्च ॥२॥अनुपपत्तेस्तु न शारीरः ॥३॥कर्मकर्तृव्यपदेशाच्च ॥४॥शब्दविशेषात् ॥५॥स्मृतेश्च ॥६॥अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥८॥अत्ता चराचरग्रहणात् ॥९॥प्रकरणाच्च ॥१०॥गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥विशेषणाच्च ॥१२॥अन्तर उपपत्तेः ॥१३॥स्थानादिव्यपदेशाच्च ॥१४॥सुखविशिष्टाभिधानादेव च ॥१५॥श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥अनवस्थितेरसंभवाच्च नेतरः ॥१७॥अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१८॥न च स्मार्तं अतद्धर्माभिपालात् ॥१९॥शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥२०॥अदृश्यत्वादिगुणको धर्मोक्तेः ॥२१॥विशेषणभेदव्यपदेशाभ्यां नेतरौ ॥२२॥रूपोपन्यासाच्च ॥२३॥वैश्वानरः साधारणशब्दविशेषात् ॥२४॥स्मर्यमाणमनुमानं स्यादिति ॥२५॥शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते ॥२६॥अत एव न देवता भूतं च ॥२७॥साक्षादप्यविरोधं जैमिनिः ॥२८॥अभिव्यक्तेरित्याश्मरथ्यः ॥२९॥अनुस्मृतेर्बादरिः ॥३०॥सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॥३१॥आमनन्ति चैनमस्मिन् ॥३२॥इति ब्रह्मसूत्रेषुप्रथमाध्यायस्य द्वितीयः पादः समाप्तः N/A References : N/A Last Updated : March 16, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP