उत्तरखण्डम् - त्रयोदशोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्रादौ तन्नामानि

सेकं आश्च्योतनं पिण्डी बिडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् ॥१॥

सेकविधिः
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मत्तर्यस्य प्रदेयश्चतुरङ्गुलात् ॥२॥

दोषानुसारेण सेकप्रकारभेदाः
स चापि स्नेहनो वाते रक्ते पित्ते च रोपणः
लेखनश्च कफे कार्यस्तस्य मात्राऽधुनोच्यते ॥३॥

सेकधारणमात्रा
षड्वाक्शतैः स्नेहनेषु चतुर्भिश्चैव रोपणे
वाक्शतैश्च त्रिभिः कार्यः सेकोलेखनकर्मणि ॥४॥

सेकसमयः
कार्यस्तु दिवसे सेको रात्रौ चात्ययिके गदे ॥५॥

दोषानुसारेण सेकव्यवस्था
एरण्डत्वक्पत्रमूलैः शृतमाजं पयोहितम्
सुखोष्णं सेचनं नेत्रे वाताभिष्यन्दनाशनम् ॥६॥

वाताभिष्यन्द मारुतपर्ययशुष्काक्षिपाकेषु सेकौ
परिषेकोहितोनेत्रे पयः कोष्णं ससैन्धवम्
रजनीदारुसिद्धं वा सैन्धवेनसमन्वितम् ॥७॥

वाताभिष्यन्दशमनं हितं मारुतपर्यये
शुष्काक्षिपाके च हितमिदं सेचनकं सदा ॥८॥

पित्तरक्ताभिघातजनेत्रपीडाहृत्सेकः
साबरं मधुकं तुल्यं घृतभृष्टं सुचूर्णितम्
छागक्षीरे घृतं सेकात्पित्तरक्ताभिघातजित् ॥९॥

रक्ताभिष्यन्दे सेकः
त्रिफलालोध्रयष्टीभिः शर्कराभद्र मुस्तकैः
पिष्टः शीताम्बुना सेको रक्ताभिष्यन्दनाशनः ॥१०॥

तत्रैवान्यः सेकः
लाक्षामधुकमञ्जिष्ठालोध्रकालानुसारिवाः
पुण्डरीकयुतः सेको रक्ताभिष्यन्दनाशनः ॥११॥

नेत्रशूलघ्नः सेकः
श्वेतलोध्रं घृते भृष्टं चूर्णितं पटविस्रुतम्
उष्णाम्बुना विमृदितं सेकाच्छूलघ्नमम्बके ॥१२॥

अथाश्च्योतनविधिः
तत्राश्च्योतनकर्मसमयः
अथाश्च्योतनकं कार्यं निशायां न कथंचन ॥१३॥

आश्च्योतनविधिः
उन्मीलितेऽक्ष्णि दृङ्मध्ये बिन्दुभिर्द्व्यङ्गुलाद्धितम् ॥१४॥

गुणानुसारेण बिन्दुप्रक्षेपसंख्यानिर्देशः
बिन्दवोऽष्टौ लेखनेषु स्नेहने दश बिन्दवः
रोपणे द्वादश प्रोक्तास्ते शीतेकोष्णरूपिणः
उष्णे च शीतरूपाः स्युः सर्वत्रैवैष निश्चयः ॥१५॥

वातादिभेदेनाश्च्योतनपदार्थनिर्देशः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम्
तिक्तोष्णरूक्षं च कफे क्रमादाश्च्योतनं हितम् ॥१६॥

आश्च्योतनमात्रानिर्णयः
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्शतं हिता
निमेषोन्मेषणं पुंसामङ्गुल्याच्छोटिकाऽथवा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः ॥१७॥

वाताभिष्यन्दहरमाश्च्योतनम्
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः ॥१८॥

वातरक्तपित्तोत्थाभिष्यन्दोपायः
अम्बुपिष्टैर्निम्बपत्रैस्त्वचं लोध्रस्य लेपयेत्
प्रताप्य वह्निना पिष्ट्वा तद्र सो नेत्रपूरणात्
वातोत्थं रक्तपित्तोत्थमभिष्यन्दं विनाशयेत् ॥१९॥

सर्वाभिष्यन्दघ्नमाश्च्योतनम्
त्रिफलाश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् ॥२०॥

रक्तपित्तादिजनेत्रपीडास्वाश्च्योतनम्
स्त्रीस्तन्याश्च्योतनं नेत्रे रक्तपित्तानिलार्त्तिजित्
क्षीरसर्पिर्घृतं वाऽपि वातरक्तरुजं जयेत् ॥२१॥

पिण्डिकाविधिः
पिण्डी कवलिका प्रोक्ता बद्ध्य्ते पट्टवस्त्रकैः
नेत्राभिष्यन्दयोग्या सा व्रणेष्वपि निबद्ध्यते ॥२२॥

अभिष्यन्दाधिमन्थयोः शिरोविरेचनम्
अभिष्यन्देऽधिमन्थे च सञ्जाते श्लेष्मसम्भवे
स्निग्धस्विन्नोत्तमाङ्गस्य शिरस्तीक्ष्णैर्विरेचयेत् ॥२३॥

अधिमन्थे शिराव्यधाग्निदाहौ
अधिमन्थेषु सर्वेषु ललाटे वेधयेच्छिराम्
अशान्ते सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् ॥२४॥

सर्वाभिष्यन्दे पिण्डिकाप्रयोगः
अभिष्यन्देषु सर्वेषु बध्नीयात्पिण्डिकां बुधः ॥२५॥

वाताभिष्यन्दे पिण्डिकाप्रयोगः
वातामिष्यन्दशान्त्यर्थं स्निग्धोष्णा पिण्डिका भवेत्
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी ॥२६

पित्ताभिष्यन्दे पिण्डीद्वयम्
पित्ताभिष्यन्दनाशाय धात्रीपिंडी सुखावहा
महा निम्बफलोद्भूता पिंडी वा पित्तनाशिनी ॥२७॥

कफाभिष्यन्दे पिण्डी
शिग्रुपत्रकृता पिण्डी श्लेष्माभिष्यन्दनाशिनी ॥२८॥

कफपित्ताभिष्यन्दे पिण्डीद्वयम्
निम्बपत्रकृता पिण्डी श्लेष्मपित्तहरा भवेत्
त्रिफलापिण्डिका प्रोक्ता नाशने श्लेष्मपित्तयोः ॥२९॥

रक्ताभिष्यन्दे पिण्डी
पिष्ट्वा काञ्जिकतोयेन घृतभृष्टा च पिण्डिका
लोध्रस्य हरति क्षिप्रमभिष्यन्दमसृग्भवम् ॥३०॥

शोथकण्ड्वादौ पिण्डी
शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा
धार्या चक्षुषि संयोगाच्छोथकण्डूव्यथाऽपहा ॥३१॥

बिडालकविधिः
बिडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जितः
तस्य मात्रा परिज्ञेया मुखलेपविधानवत् ॥३२॥

सर्व नेत्रामयेषु लेपः
यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यः समांशकैः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः ॥३३॥

तत्रैवान्ये षड् लेपाः
रसाञ्जनेन वा लेपः पथ्याविश्वदलैरपि
कुमारिकाऽग्निपत्रैर्वा दाडिमीपल्लवैरपि
वचाहरिद्रा निम्बैर्वा तथा नागरगैरिकैः ॥३४॥

सद्योनेत्रपीडाहरो लेपः
दग्ध्वा ससैन्धवं लोध्रं मधूच्छिष्टयुते घृते
पिष्टमञ्जनलेपाभ्यां सद्यो नेत्ररुजाऽपहम् ॥३५॥

नेत्रपीडाहरो लेपः
लोहस्य पात्रे संघृष्टो रसो निम्बफलोद्भवः
किञ्चिद्घनो बहिर्लेपान्नेत्रबाधां व्यपोहति ॥३६॥

अर्मनाशको लेपः
संचूर्ण्य मरिचं केशराजस्वरसमर्दनात्
लेपनादर्मणां नाशं करोत्येष प्रयोगराट् ॥३७॥

अञ्जननामिकोपरि प्रतिसारणम्
स्विन्नां भित्वा विनिष्पीड्य भिन्नामञ्जननामिकाम्
शिलैलानतसिन्धूत्थैः सक्षौद्रै ः! प्रतिसारयेत् ॥३८॥

अथ तर्पणविधिः
तत्रादौ तर्पणयोग्यनेत्रलक्षणम्
अथ तर्पणकं वच्मि नेत्रतृप्तिकरं परम्
यद्रू क्षं परिशुष्कं च नेत्रं कुटिलमाविलम् ॥३९॥

शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलन संयुतम्
तिमिरार्जुनशुक्राद्यैरभिष्यन्दाधिमन्थकैः ॥४०॥

शुष्काक्षिपाकशोथाभ्यां युक्तं वातविपर्ययैः
तन्नेत्रं तर्पणे योज्यं नेत्ररोगविशारदैः
तर्पणे वर्ज्यविषयाः
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते ॥४१॥

तर्पणप्रक्रिया
वातातपरजोहीने देशे चोत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ॥४२॥

समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः
अथवा शतधौतेन सर्पिषा क्षीरजेन वा ॥४३॥

पूरणमात्रा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः ॥४४॥

तर्पणे स्नेहधारणमात्राः
धारयेद्वर्त्मरोगेषु वाङ्मात्राणां शतं बुधः ॥४५॥

स्वच्छे कफे सन्धिरोगे मात्रापञ्चशतं हितम्
शुक्ले च षट्शतं कृष्णरोगे सप्तशतं मतम् ॥४६॥

दृष्टिरोगेष्वष्टशतमधिमन्थे सहस्रकम्
सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् ॥४७॥

तर्पणोत्तरं कर्त्तव्यं कर्म
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
यथास्वं धूमपानेन कफमस्य विशोधयेत् ॥४८॥

तर्पणकर्मावधिः
एकाहं वा त्र्! यहं वाऽपि पञ्चाहं चेष्यते परम् ॥४९॥

तर्पणे सम्यक् तृप्तिलक्षणम्
तर्पणे तृप्तिलिङ्गानि नेत्रेष्वेतानि भावयेत्
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
निवृत्तिर्व्याधिशान्तिश्च क्रियालाघवमेव च ॥५०॥

अतितर्पितलक्षणम्
अथ साश्रु गुरु स्निग्धं नेत्रं स्यादतितर्पितम् ॥५१॥

हीनतर्पितलक्षणम्
रूक्षमस्राविलं रुग्णं नेत्रं स्याद्धीनतर्पितम् ॥५२॥

हीनातितर्पितयोश्चिकित्सा
रूक्षस्निग्धोपचाराभ्यामेतयोः स्यात्प्रतिक्रिया ॥५३॥

पुटपाकविधानम्
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकस्य साधनम्
द्वौ बिल्वमात्रौ मांसस्य पिण्डौ स्निग्धौ सुपेषितौ ॥५४॥

द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
तदेकस्थं समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकेन तत्पक्त्वा गृह्णीयात्तद्र सं बुधः
दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः ॥५५॥

पुटपाकभेदाः
स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा ॥५६॥

त्रिविधपुटपाकविषयाः
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि हि लेखनः
दृष्टेर्बलार्थमितरः पित्तासृग्व्रणवातनुत् ॥५७॥

स्नेहनपुटपाकः
सर्पिर्मांसवसामज्जामेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते दृशोः ॥५८॥

लेखनपुटपाकः
जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंयुतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः
समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
लेखनो वाक्शतं धार्यस्तस्यैतावद्विधारणम् ॥५९॥

रोपणपुटपाकः
स्तन्यजाङ्गलमध्वाज्यतिक्तकद्र व्यपाचितः
लेखनात्त्रिगुणो धार्यः पुटपाकस्तु रोपणः ॥६०॥

व्यापत्तिदर्शनकर्त्तव्योपदेशः
वितरेत्तर्पणोक्तां तु क्रियां व्यापत्तिदर्शने ॥६१॥

अथाञ्जनविधानम्
तत्रादावञ्जनयोग्य समयाः
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ॥६२॥

पूर्वाह्णे चापराह्णेच ग्रीष्मे शरदि चेष्यते
वर्षासु नाभ्रे नात्युष्णे वसन्ते च सदैव हि ॥६३॥

अञ्जनभेदाः
लेखनं रोपणं चैव तथा स्यात्स्नेहनाञ्जनम् ॥६४॥

लेखनरोपणप्रसादनाञ्जनानि
लेखनं क्षारतीक्ष्णाम्लरसैरञ्जनमिष्यते
कषायतिक्तरसयुक्सस्नेहं रोपणं मतम्
मधुरं स्नेहसम्पन्नमञ्जनं च प्रसादनम् ॥६५॥

त्रिविधाञ्जनस्य स्वरूपाणि
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि च
कुर्याच्छलाकयाऽङ्गुल्या हीनानि च यथोत्तरम् ॥६६॥

अञ्जनानर्हा जनाः
श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते ॥६७॥

वर्त्तिप्रमाणानि
हरेणुमात्रां कुर्वीत वर्त्तिं तीक्ष्णाञ्जने भिषक्
प्रमाणं मध्यमेऽध्यर्द्धं द्विगुणं तु मृदौ भवेत् ॥६८॥

रसक्रियाप्रमाणानि
रसक्रिया तूत्तमा स्यात्त्रिविडङ्गमिता हिता
मध्यमा द्विविडङ्गा स्याद्धीना त्वेकविडङ्गिका ॥६९॥

चूर्णाञ्जनमात्रा
वैरेचनिकचूर्णं तु द्विशलाकं विधीयते
मृदौ तु त्रिशलाकं स्याच्चतस्रः स्नैहिकेऽञ्जने ॥७०॥

अञ्जनशलाकास्वरूपम्
मुखयोः कुण्ठिता श्लक्ष्णा शलाकाऽष्टाङ्गुलोन्मिता
अश्मजा धातुजा वा स्यात्कलायपरिमण्डला ॥७१॥

कर्मानुसारेण शलाकास्वरूपम्
ताम्रलोहाश्मसञ्जाता शलाका लेखने मता
सुवर्णरजतोद्भूता शलाका स्नेहने मता
अङ्गुली च मृदुत्वेन कथिता रोपणे बुधैः ॥७२॥

अञ्जनसमयनिर्देशः
सायं प्रातर्वाञ्जनं स्यात्तत्सदा नैव कारयेत् ॥७३॥

नातिशीतोष्णवाताभ्रवेलायां सम्प्रशस्यते
कृष्णभागादधः कुर्यादपाङ्गं यावदञ्जनम् ॥७४॥

चन्द्रो दया वर्त्तिः
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ॥७५॥

छागीक्षीरेण संपिष्य वर्त्तिं कृत्वा यवोन्मिताम्
हरेणुमात्रां संघृष्य जलैः कुर्यादथाञ्जनम् ॥७६॥

तिमिरं मांसवृद्धिं च काचं पटलमर्बुदम्
रात्र्! यान्ध्यं वार्षिकं पुष्पं वर्त्तिश्चन्द्रो दया जयेत् ॥७७॥

करञ्जवर्त्तिः
पलाशपुष्पस्वरसैर्बहुशः परिभाविता
करञ्जीबीजवर्त्तिस्तु दृष्टेः पुष्पं विनाशयेत् ॥७८॥

समुद्र फेनादिवर्त्तिः
समुद्र फेनसिन्धूत्थशङ्खदक्षाण्डवल्कलैः
शिग्रुबीजयुतैर्वर्त्तिः शुक्रादींश्छस्त्रवल्लिखेत् ॥७९॥

दन्तवर्त्तिः
दन्तैर्हस्तिवराहोष्ट्रगोहयाजखरोद्भवैः
शङ्खमुक्ताऽम्भोधिफेनयुतैः सर्वैर्विचूर्णितैः
दन्तवर्त्तिः कृता श्लक्ष्णा शुक्राणां नाशिनी परा ॥८०॥

तन्द्रा नाशिनी वर्त्तिः
नीलोत्पलं शिग्रुबीजं नागकेशरकं तथा
एतत्कल्कैः कृता वर्त्तिरतिनिद्रा ं! निवारयेत् ॥८१॥

पुष्पवर्त्तिः
तिलपुष्पाण्यशीतिः स्युः षष्टिसंख्याः कणाकणाः ॥८२॥

जातीकुसुमपञ्चाशन्मरिचानि च षोडश
सूक्ष्मं पिष्ट्वा जले वर्त्तिः कृता कुसुमिकाऽभिधा ॥८३॥

तिमिरार्जुनशुक्राणां नाशिनी मांसवृद्धिहृत्
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्धहरेणुका ॥८४॥

रसाञ्जनवर्त्तिः
रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
गोशकृद्र ससंयुक्ता वर्त्तिर्नक्तान्ध्यनाशिनी ॥८५॥

धात्र्! यादिवर्त्तिः
धात्र्! यक्षपथ्याबीजानि एकद्वित्रिगुणानि च
पिष्ट्वा वर्त्तिं जलैः कुर्यादञ्जनं द्विहरेणुकम्
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा ॥८६॥

रसक्रिया
तुत्थमाक्षिकसिन्धूत्थं सिताशङ्खमनः शिलाः
गैरिकोदधिफेनं च मरिचं चेति चूर्णयेत् ॥८७॥

संयोज्य मधुना कुर्यादञ्जनार्थं रसक्रियाम्
वर्त्मरोगार्मतिमिरकाचशुक्रहरां पराम् ॥८८॥

पुष्पहरी रसक्रिया
वटक्षीरेण संयुक्तो मुख्यःकर्पूरजःकणः
क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् ॥८९॥

अतिनिद्रा हरमञ्जनम्
क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
अतिनिद्रा शमं याति तमः सूर्योदयादिव ॥९०॥

प्रबोधाञ्जनम्
जातीपुष्पं प्रवालं च मरिचं कटुकी वचा
सैन्धवं बस्तमूत्रेण पिष्टं तन्द्रा घ्नमञ्जनम् ॥९१॥

अन्यत् प्रबोधाञ्जनम्
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ॥९२॥

दार्व्यादिरसक्रिया
दार्वी पटोलं मधुकं सनिम्बं पद्मकोत्पलम् ॥९३॥

प्रपौण्डरीकं चैतानि पचेत्तोये चतुर्गुणे
विपाच्य पादशेषं तु शृतं नीत्वा पुनः पचेत् ॥९४॥

शीते तस्मिन्मधुसितां दद्यात्पादांशिकां नरः
रसक्रियैषा दाहाश्रुरक्तरागरुजोहरेत् ॥९५॥

रसाञ्जनादिरसक्रिया
रसाञ्जनं सर्जरसो जातीपुष्पं मनः शिला
समुद्र फेनो लवणं गैरिकं मरिचानि च ॥९६॥

एतत्समांशंमधुना पिष्ट्वा प्रक्लिन्नवर्त्मनि
अञ्जनं क्लेदकण्डूघ्नंपक्ष्मणां च प्ररोहणम् ॥९७॥

गुडूच्यादिरसाञ्जनम्
गुडूचीस्वरसः कर्षः क्षौद्रं स्यान्माषकोन्मितम्
सैन्धवं क्षौद्र तुल्यं स्यात्सर्वमेकत्र मर्दयेत् ॥९८॥

अञ्जयेन्नयनं तेन पिल्लार्मतिमिरं जयेत्
काचं कण्डूं लिङ्गनाशंशुक्लकृष्णगतान्गदान् ॥९९॥

पुनर्नवादिरसाञ्जनम्
दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावं च सर्पिषा
पुष्पं तैलेन तिमिरं काञ्जिकेन निशान्ध्यताम्
पुनर्नवा जयेदाशु भास्करस्तिमिरं यथा ॥१००॥

बब्बूलरसाञ्जनम्
बब्बूलदलनिःक्वाथो लेहीभूतस्तदञ्जनात्
नेत्रस्रावं जयत्येष मधुयुक्तो न संशयः ॥१०१॥

हिज्जलरसाञ्जनम्
हिज्जलस्य फलं घृष्ट्वा पानीये नित्यमञ्जनम्
चक्षुःस्रावोपशान्त्यर्थं कार्यमेतन्महौषधम् ॥१०२॥

नेत्रप्रसादनं कतकादिरसाञ्जनम्
कतकस्यफलं घृष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं स्मृतं नेत्रप्रसादनम् ॥१०३॥

शिरोत्पाते रसक्रिया
सर्पिः क्षौद्रं चाञ्जनं स्याच्छिरोत्पातस्य शान्तये ॥१०४॥

कृष्णसर्पवसारसक्रिया
कृष्णसर्पवसा शङ्खः कतकात्फलमञ्जनम्
रसक्रियेयमचिरादन्धानां दर्शनप्रदा ॥१०५॥

लेखनाञ्जनम्
दक्षाण्डत्वक्शिलाकाचशंखचन्दनसैन्धवैः
द्र व्यैरञ्जनयोगोऽय पुष्पार्मादिविलेखनः ॥१०६॥

रात्र्! यान्ध्यनाशकमञ्जनम्
कणा छागयकृन्मध्ये पक्त्वा नेत्रयुगेऽञ्जिता
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् ॥१०७॥

नक्तान्ध्यहरचूर्णाञ्जनम्
शाणार्धं मरिचं द्वौ च पिप्पल्यर्णवफेनयोः
शाणार्धं सैन्धवं शाणा नव सौवीरकाञ्जनात् ॥१०८॥

पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्
कण्डूकाचकफार्त्तानां मलानां च विशोधनम् ॥१०९॥

रोपणाञ्जनमृदुचूर्णाञ्जनम्
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् ॥११०॥

शुष्कं च तज्जलं सर्वं पर्पटीसंनिभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः ॥१११॥

कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयेन्नयने तेन सर्वदोषहरं हि तत्
सर्वरोगहरं चूर्णं चक्षुषोः सुखकारि च ॥११२॥

प्रसादनाञ्जने सौवीराञ्जनम्
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् ॥११३॥

अञ्जयेत्तेन नयने प्रत्यहं चक्षुषोर्हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः ॥११४॥

दृष्टिप्रसादनी नाम शलाका
त्रिफलाभृङ्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा ॥११५॥

गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
तच्छलाका हरत्येव सर्वान्नेत्रभवान्गदान् ॥११६॥

प्रत्यञ्जनम्
गतदोषमपेताश्रु संपश्यन्सम्यगम्भसि
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः ॥११७॥

अञ्जने नेत्रधावननिषेधः
न वाऽनिर्गतदोषेऽक्ष्णि धावनं संप्रयोजयेत्
प्रत्यञ्जनं तीक्ष्णतप्ते नेत्रे चूर्णं प्रसादनम् ॥११८॥

नयनामृताञ्जनम्
शुद्धे नागे द्रुते तुल्यं शुद्धं सूतं विनिक्षिपेत्
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ॥११९॥

दशमांशेन कर्पूरं तस्मिंश्चूर्णे प्रदापयेत्
एतत्प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् ॥१२०॥

सर्पविषहरमञ्जनम्
जयपालभवां मज्जां भावयेन्निम्बुकद्र वैः
एकविंशतिवेलं तत्ततो वर्त्तिं प्रकल्पयेत् ॥१२१॥

मनुष्यलालया घृष्ट्वा ततो नेत्रे तयाऽञ्जयेत्
सर्पदष्टविषं जित्वा संजीवयति मानवम् ॥१२२॥

नेत्रज्योतिर्वर्द्धकोपदेशः
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्दीयते यदि
जाता रोगा विनश्यन्ति तिमिराणि तथैव च ॥१२३॥

दृष्टिवर्द्धकोपायः
शीताम्बुपूरितमुखः प्रतिवासरं यः कालत्रयेण नयनद्वितयं जलेन
आसिञ्चति ध्रुवमसौ न कदाचिदक्षिरोगव्यथाविधुरतां भजते मनुष्यः ॥१२४॥

ग्रन्थकर्तृकृतं नम्रनिवेदनम्
आयुर्वेदसमुद्र स्य गूढार्थमणिसंचयम्
ज्ञात्वा कैश्चिद् बुधैस्तैस्तु कृता विविधसंहिताः ॥१२५॥

किञ्चिदर्थं ततो नीत्वा कृतेयं संहिता मया
कृपाकटाक्षनिक्षेपमस्यां कुर्वन्तु साधवः ॥१२६॥

ग्रन्थाध्ययनफलम्
विविधगदार्तिदरिद्र नाशनं या हरिरमणीव करोति योगरत्नैः
विलसतु शार्ङ्गधरस्य संहिता सा जन हृदयेषु सरोजनिर्मलेषु ॥१२७॥

उपसंहारः
अल्पायुषामल्पधियामिदानीं कृतं समस्तश्रुतिपाठशक्त्या
तदत्र युक्तं प्रतिबीजमात्रमभ्यस्यतामात्महितं प्रयत्नात् ॥१२८॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे नेत्रप्रसादनविधिर्नाम त्रयोदशोऽध्यायः समाप्तः ॥१३॥

समाप्तेयं शार्ङ्गधर संहिता

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP